________________
प्रत्यक्षपरिच्छेदः ]
भोटपरिशिष्टे प्रमाण समुच्चयः ।
एवं तावत् पञ्चेन्द्रियजं प्रत्यक्षज्ञानमविकल्पकम् । क्षेत्र विशेषणं परमतापेक्षम्, सर्वे त्वविकल्पका एव । * मानसं चार्थ रागादिस्वसंवित्तिरकल्पिका । *
मानसमपि रूपादिविषय|लम्बनमविकल्पकमनुभवाकारप्रवृत्तं * रागादिषु च स्वसंवेदनमिन्द्रियानपेक्षत्वाद् मानसं प्रत्यक्षम् । तद्वत् -
१०५
* 'योगिनां गुरुनिर्देशाव्यतिभिन्नार्थमात्रदृक् ॥ ६ ॥*
१ “एवं तावदित्यादिरुपसंहारः । अत्र 'एवं तावत् पञ्चेन्द्रियजम्' इति वचनात् तावच्छब्देन अपञ्चेन्द्रियजमपि अन्यदस्ति तस्यापि लक्षणस्य विशेषणं [ पृ० २३ B ] पृथग् वक्ष्यते इत्येतत् ख्याप्यते । अत्र विशेषणं परमतापेक्षमिति । विशेषणं विशेषः विभाग इति पर्यायाः । स च प्रस्तुतत्वात् प्रत्यक्षलक्षणस्येति प्रतीयते । अत्रेति प्रकरणे । यदिदं लक्षणस्य पृथग् विशेषणं तत् परैर्यद् विप्रतिपन्नं लक्षणमिष्टं तदपेक्षया । तत्र मनोविज्ञानप्रत्यक्षे इन्द्रियज्ञानेनानुभूतोऽर्थः स एव गृह्य केषाञ्चिद् विप्रतिपत्तिः, रागादिस्वसंवेदनं तद् नास्ति । योगिज्ञानेऽपि इदमेव । यस्मादेवं परेषां विप्रतिपत्तिः तस्मात् तदपेक्षया 'प्रत्यक्ष कल्पनापोढम्' इत्यनेन संग्रहेऽपि अपञ्चेन्द्रियजस्य प्रत्यक्षस्य लक्षणस्य विशेषणं पृथगुच्यते परविप्रतिपत्तिनिराकरणायेत्याशयः [पृ० २४] "सर्वे त्वविकल्पका एवेति तुशब्देन लक्षणविशेषणस्य पृथगभिधानमिदं न स्वमतापेक्षया विप्रतिपत्त्यभावादिति अर्थः प्रकाश्यते । ‘प्रत्यक्षं कल्पनापोढम्' इत्यनेनैव विशेषणेन सर्वं लक्ष्यं संगृह्यते [ पृ० २४ B ] ।” - विशाला० । प्रमाणवार्तिकालंकारे त्वस्य आशयोऽन्यथा वर्णितः - " परे तु सविकल्पकमपि साक्षात्करणाकारमभ्रान्तमिच्छन्ति तदनुरोधेन द्वयमेतदुच्यते । तथा चाह— विशेषणं लक्षणे परमतापेक्षम्, सर्वे त्वविकल्पका एव इति ।" - प्र० वार्तिकालं० पृ० ३३५, २५२ । २ प्र० वा० म० टि० पृ० १९१ । प्र० वार्तिकालं० पृ० ३०३ । तुलना - प्र० वा० म० २।२३९।२८० । “मानसं चेत्यादि । चशब्दः समुच्चयार्थः । अर्थशब्दोऽयं ज्ञेयपर्यायः । रागादीनां स्वं रागादिखम् । स्वशब्दोऽयमात्मवाचकः । अर्थश्च रागादिस्वं च तत्संवित्तिरर्थरागादिखसंवित्तिः । संवेद्यते ज्ञायतेऽनयेति संवित्तिः । 'संवित्तिः' प्रत्येकमभिसम्बध्यते । अविकल्पिका सा मानसं प्रत्यक्षम् ।" - विशाला० पृ० २४ B। ३ " मानसमपि रूपादिविषयालम्बनमनुभवाकारप्रवृत्तम विकल्पकमेव रागद्वेषमोहसुखदुःखादिषु [च] इन्द्रियानपेक्षत्वात् स्वसंवेदनं प्रत्यक्षम् ।" - PSV-2. । “वृत्तिः - ‘मानसमपि रूपादिविषयमविकल्पकमनुभवाकारप्रवृत्तम्' इति ।" - प्र० वा० म० टि० पृ० १९१ । तुलना - प्र० वार्तिकालं० पृ० ३०३ । “मानसमपीत्यादि । रूपादयश्च ते [ पृ० २४ B ] विषयाश्चेति कर्मधारयः ।.................. रूपादिविषयाणां विकारः रूपादिविषयविकारः, स आलम्बनं यस्य तत् तथोक्तम् । 'समुदायविकारषष्छ्याश्च बहुव्रीहिरुत्तरपदलोपश्च' [ पा० म० भा० २।२।२४ ] इति वचनात् समास उत्तरपदलोपश्च यथा सुवर्णालंकार इति । ...... अनुभवाकारप्रवृत्तमिति [ पृ० २५ A ] । रागादिषु च स्वसंवेदनमिति [ पृ० २५B] ननु इन्द्रियजस्यापि सर्वस्यैव ज्ञानस्य आश्रयोऽस्ति इति एष्टव्यं ‘पञ्च विज्ञानकाया द्वीन्द्रियाश्रिताः' इति वचनात् तत् कस्मादिदमेव मानसमुच्यते इत्याह- इन्द्रियानपेक्षत्वादिति । रूपीन्द्रियानपेक्षत्वादित्याशयः । यस्य आश्रयो मन एव न तु रूपि इन्द्रियं तद् 'मानसम्' अभिधीयते [ पृ० २६ B ] ।”-विशाला० । “समुदायविकारषष्ठयाश्च बहुव्रीहिर्वक्तव्यः उत्तरपदस्य च लोपो वक्तव्यः । केशानां समाहारचूडा अस्य केशचूडः। सुवर्णविकारोऽलङ्कारो यस्य सुवर्णालङ्कारः । " - पातञ्जलमहाभाष्य. २।२।२४ । ** ४ प्र० वा० म० टि० पृ० २२९,१९४ | "अत्रापि मूलाचार्यवचनं विरुध्यते - रागद्वेषमोहसुखदुःखादिषु [च] स्वसंवेदनमिन्द्रियानपेक्षत्वाद् मानसं प्रत्यक्षम् इति ।" - प्र० वार्तिकालं० पृ० ३०५ । ५ “[ दे' ब्शिन् दु VT= ] तद्वद् योगिनामिति । यथा मनोविज्ञानमविकल्पकं प्रत्यक्षं तद्वद् योगिनामपि । योगः समाधिः, स येषामस्ति ते योगिनः । 'पृ० २६ B] गुरुनिर्देशाव्यतिभिन्नमिति, अत्र विषयेण विषयिनिर्देशः आगमविकल्पो गुरुनिर्देश 'शब्देन अभिधीयते । तेन यतिभिन्नम् अपोढमित्यर्थः । अनेन स्पष्टावभासित्वमपि तत्र श्रूयते । अविकल्पकं स्पष्टत्वाव्यभिचारात् । 'मात्र' शब्द यारोपितार्थव्यवच्छेदार्थम्, तेन यत् सद्भूतार्थविषयमार्यसत्यदर्शनं तदेव प्रमाणम्, न तु असद्भूतार्थविषयम् 'अशुभा कृत्स्ना वी' इत्यादि [ पृ० २७ A] ।” - विशाला० । तुलना - प्र० वा० २।२८१-२८७ । ६ प्र० वा० म० टि० १९१ | तत्त्वार्थरा० १।१२, पृ० ५४ ।
Jain Education International
For Private & Personal Use Only
5
www.jainelibrary.org