Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 582
________________ पृ० ३३२ पं० २-३.] टिप्पणानि। पृ० ३२८ पं० १,८. अष्टमूर्तिता । दृश्यतां पृ० ३३२ पं० २५, पृ० ३४० पं० १२ । क्षितिर्जलं तथा तेजो वायुराकाशमेव च । यष्टाऽर्कश्च तथा चन्द्रो मूर्तयोऽष्टौ पिनाकिनः॥१॥ पृ. ३२८ पं० ३. इतरथा अदृष्टाणु। “ईश्वरः कारणम् , पुरुषकर्माफल्यदर्शनात् । ४।१।१९। न, पुरुषकर्माभावे फलानिष्पत्तेः । ४।१।२०। तत्कारितत्वादहेतुः । ४।१।२१।" - न्यायसू०।। पृ. ३२८ पं० ५, पृ० ३२९ पं० २,१२,१९,२१. तनुकरण अचेतनत्वात् स्थित्वा प्रवृत्तेः...। "अविद्ध-5 कर्णोपन्यस्तमीश्वरसाधने प्रमाणद्वयमाह-यत् वारम्भकेत्यादि । तदुक्तम् - 'द्वीन्द्रियग्राह्याग्राह्य विमत्यधिकरणभावापन्नं बुद्धिमत्कारणपूर्वकम् , स्वारम्भकावयवसंनिवेशविशिष्टत्वात् , घटादिवत्, वैधhण परमाणवः ।' इति ।...द्वितीयं च तदुक्तं प्रमाणं बोधयन्नाह - तन्वादीनामित्यादि । यथोक्तम् - 'तनु-भुवन-करणोपादानानि चेतनावदधिष्ठितानि स्वकार्यमारभन्ते इति प्रतिजानीमहे, रूपादिमत्त्वात् , तन्त्वादिवत् ।' इति । उद्दयोतकरस्तु प्रमाणयति - 'भुवनहेतवः प्रधानपरमाण्वदृष्टाः स्वकार्योत्पत्तावतिशयबुद्धिमन्तमधिष्ठातारमपेक्षन्ते, स्थित्वा प्रवृत्तः, तन्तुतुर्यादिवत् ।' इति । तथा अपराणि उद्दयोत- 10 करोक्तानि प्रमाणानि-बुद्धिमत्कारणाधिष्ठितं महाभूतादिकं व्यक्तं सुखदुःखनिमित्तं भवति, अचेतनत्वात् कार्यत्वाद् विनाशित्वाद् रूपादिमत्त्वात् , वास्यादिवत् ।' इति।” इति तत्त्वसंग्रहपञ्जिकायां पृ० ४१.४३ । “स्थित्वाप्रवृत्तिसंस्थानविशेषार्थक्रियादिषु । इष्टसिद्धिरसिद्धिर्वा दृष्टान्ते संशयोऽथवा ।२।१०।" इति प्रमाणवार्तिके ईश्वरनिराकरणप्रसङ्गे । पृ० ३३० पं० ९-१०. सामादि । 'साम'शब्देनात्र 'सामगानं विवक्षितं भाति ।। पृ. ३३० पं० १०.चोदनम।चोदन...जाया म् । चोदनं 'जायते' [पृ० ३३० पं० १२] इत्यन्वयः । . 15 पृ० ३३१ पं० ६, २५. अन्योन्याभिभव। “अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः।"सांख्यका० १२। पृ. ३३१ पं० १८. चित्रकरवेतनदाना। दृश्यतां टिपृ. ७ पं० २३-२४ । पृ० ३३२ पं० २-३. एको वशी..... तेषां शान्तिः शाश्वती नेतरेषाम् । अत्र "एको वशी........ तेषां सुखं शाश्वतं नेतरेषाम् ।" इति पाठः श्वेताश्वतरोपनिषदि सम्प्रति दृश्यते । 20 १“क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-सोम-सूर्याख्याः । इत्येतेऽष्टौ भगवति वीतरागे गुणा मताः ॥ ३४ ॥ क्षितिरित्युच्यते क्षान्तिर्जलं या च प्रसन्नता। निःसङ्गता भवेद् वायुर्हताशो योग उच्यते ॥३५॥ यजमानो भवेदात्मा तपोदानदयादिभिः । अलेपकत्वादाकाशसंकाशः सोऽभिधीयते ॥ ३६ ॥ सौम्यमूर्तिरुचिश्चन्द्रो वीतरागः समीक्ष्यते । ज्ञानप्रकाशकत्वेन आदित्यः सोऽभिधीयते ॥ ३७ ॥ पुण्यपापविनिर्मुक्तो रागद्वेषविवर्जितः । श्रीअर्हद्भयो नमस्कारः कर्तव्यः शिवमिच्छता ॥३८॥” इति हेमचन्द्रसूरिप्रणीते महादेवस्तोत्रे। २ “अथापर आह-ईश्वरः कारणम्......।४।१।१९।, पुरुषोऽयं समीहमानो नावश्यं फलमाराध्नोति । तेनानुमीयते - पराधीनं पुरुषस्य कर्मफलाराधनमिति । यदधीनं स ईश्वरः । तस्मादीश्वरः कारणमिति । न, पुरुष......।४।१।२०, ईश्वराधीना चेत् फलनिष्पत्तिः स्याद् अपि तर्हि पुरुषस्य समीहामन्तरेण फलं निष्पद्यतेति । तत्कारितत्वादहेतुः ।४।१।२१।, पुरुषकारमीश्वरोऽनुगृह्णाति । फलाय पुरुषस्य यतमानस्येश्वरः फलं सम्पादयति। यदान सम्पादयति तदा पुरुषकर्माफलं भवतीति ईश्वरकारितत्वात् पुरुषकारफलस्येत्यहेतुः-'पुरुषकाभावे फलानिष्पत्तेः' इति। गुणविशिष्टमात्मान्तरमीश्वरः । तस्यात्मकल्पात् कल्पान्तरानुपपत्तिः। अधर्ममिथ्याज्ञानप्रमादहान्याधर्मज्ञानसमाधिसम्पदाच विशिष्टमात्मान्तरमीश्वरः । तस्य धर्मसमाधिफलमणिमाद्यष्टविधमैश्वर्यम् । संकल्पानुविधायी चास्य धर्मः प्रत्यात्मवृत्तीन् धर्माधर्मसन्निचयान पृथिव्यादीनि च भूतानि प्रवर्तयति। एवं च स्वकृताभ्यागमस्यालोपेन निर्माणप्राकाम्यमीश्वरस्य स्वकृतकर्मफलं वेदितव्यम्। आप्तकल्पश्चायं यथा पितुरपत्यानां तथा पितृभूतो हीश्वरो भूतानाम् । न चात्मकल्पादन्यः कल्पः संभवति । न तावदस्य बुद्धिमन्तरेण कश्चिद्धर्मो लिङ्गभूतः शक्य उपपादयितुम् । आगमाच्च द्रष्टा बोद्धा सर्वज्ञ ईश्वर इति । बुद्धयादिभिश्चात्मलिङ्गैर्निरुपाख्यमीश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम् । स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य यदुक्तं प्रतिषेधजातमकर्मनिमित्ते शरीरसर्गे तत् प्रसज्यत इति ॥” इति न्यायभाष्ये जेसलमेरस्थे। ३ दृश्यतां पृ. ३२८ टि. १। ४“यद् वस्तु स्थित्वा स्थित्वा प्रवर्ततेऽभिमतसाधनाय तद् बुद्धिमत्कारणाधिष्टानाद् । यथा वास्यादि द्वैधीकरणादौ । न खलु वास्यादयः खयमेव प्रवर्तन्ते । प्रवर्तने वा सदा प्रवर्तनं भवेत् । स्थित्वा च प्रवर्तनम[भिमतम् , अतः] केनचित् प्रवतेकन भ तथा यत् संस्थानविशेषपारिमाण्डल्यादियोगि तत् चेतनावदुत्पादितम् , तद्यथा घटादिकम् । तथा यदर्थक्रियाकारि तच्चेतनावत्पदार्थप्रेरितम् , तद्यथा घटादयः । अत्राह -स्थित्वाप्रवृत्ति.....।” इति प्रमाणवार्तिकालंकारे, पृ. ३५। ५ "एको नय.टि. १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662