________________
पृ० ३३२ पं० २-३.]
टिप्पणानि। पृ० ३२८ पं० १,८. अष्टमूर्तिता । दृश्यतां पृ० ३३२ पं० २५, पृ० ३४० पं० १२ । क्षितिर्जलं तथा तेजो वायुराकाशमेव च । यष्टाऽर्कश्च तथा चन्द्रो मूर्तयोऽष्टौ पिनाकिनः॥१॥
पृ. ३२८ पं० ३. इतरथा अदृष्टाणु। “ईश्वरः कारणम् , पुरुषकर्माफल्यदर्शनात् । ४।१।१९। न, पुरुषकर्माभावे फलानिष्पत्तेः । ४।१।२०। तत्कारितत्वादहेतुः । ४।१।२१।" - न्यायसू०।।
पृ. ३२८ पं० ५, पृ० ३२९ पं० २,१२,१९,२१. तनुकरण अचेतनत्वात् स्थित्वा प्रवृत्तेः...। "अविद्ध-5 कर्णोपन्यस्तमीश्वरसाधने प्रमाणद्वयमाह-यत् वारम्भकेत्यादि । तदुक्तम् - 'द्वीन्द्रियग्राह्याग्राह्य विमत्यधिकरणभावापन्नं बुद्धिमत्कारणपूर्वकम् , स्वारम्भकावयवसंनिवेशविशिष्टत्वात् , घटादिवत्, वैधhण परमाणवः ।' इति ।...द्वितीयं च तदुक्तं प्रमाणं बोधयन्नाह - तन्वादीनामित्यादि । यथोक्तम् - 'तनु-भुवन-करणोपादानानि चेतनावदधिष्ठितानि स्वकार्यमारभन्ते इति प्रतिजानीमहे, रूपादिमत्त्वात् , तन्त्वादिवत् ।' इति । उद्दयोतकरस्तु प्रमाणयति - 'भुवनहेतवः प्रधानपरमाण्वदृष्टाः स्वकार्योत्पत्तावतिशयबुद्धिमन्तमधिष्ठातारमपेक्षन्ते, स्थित्वा प्रवृत्तः, तन्तुतुर्यादिवत् ।' इति । तथा अपराणि उद्दयोत- 10 करोक्तानि प्रमाणानि-बुद्धिमत्कारणाधिष्ठितं महाभूतादिकं व्यक्तं सुखदुःखनिमित्तं भवति, अचेतनत्वात् कार्यत्वाद् विनाशित्वाद् रूपादिमत्त्वात् , वास्यादिवत् ।' इति।” इति तत्त्वसंग्रहपञ्जिकायां पृ० ४१.४३ । “स्थित्वाप्रवृत्तिसंस्थानविशेषार्थक्रियादिषु । इष्टसिद्धिरसिद्धिर्वा दृष्टान्ते संशयोऽथवा ।२।१०।" इति प्रमाणवार्तिके ईश्वरनिराकरणप्रसङ्गे ।
पृ० ३३० पं० ९-१०. सामादि । 'साम'शब्देनात्र 'सामगानं विवक्षितं भाति ।। पृ. ३३० पं० १०.चोदनम।चोदन...जाया म् । चोदनं 'जायते' [पृ० ३३० पं० १२] इत्यन्वयः । .
15 पृ० ३३१ पं० ६, २५. अन्योन्याभिभव। “अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः।"सांख्यका० १२।
पृ. ३३१ पं० १८. चित्रकरवेतनदाना। दृश्यतां टिपृ. ७ पं० २३-२४ ।
पृ० ३३२ पं० २-३. एको वशी..... तेषां शान्तिः शाश्वती नेतरेषाम् । अत्र "एको वशी........ तेषां सुखं शाश्वतं नेतरेषाम् ।" इति पाठः श्वेताश्वतरोपनिषदि सम्प्रति दृश्यते ।
20
१“क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-सोम-सूर्याख्याः । इत्येतेऽष्टौ भगवति वीतरागे गुणा मताः ॥ ३४ ॥ क्षितिरित्युच्यते क्षान्तिर्जलं या च प्रसन्नता। निःसङ्गता भवेद् वायुर्हताशो योग उच्यते ॥३५॥ यजमानो भवेदात्मा तपोदानदयादिभिः । अलेपकत्वादाकाशसंकाशः सोऽभिधीयते ॥ ३६ ॥ सौम्यमूर्तिरुचिश्चन्द्रो वीतरागः समीक्ष्यते । ज्ञानप्रकाशकत्वेन आदित्यः सोऽभिधीयते ॥ ३७ ॥ पुण्यपापविनिर्मुक्तो रागद्वेषविवर्जितः । श्रीअर्हद्भयो नमस्कारः कर्तव्यः शिवमिच्छता ॥३८॥” इति हेमचन्द्रसूरिप्रणीते महादेवस्तोत्रे। २ “अथापर आह-ईश्वरः कारणम्......।४।१।१९।, पुरुषोऽयं समीहमानो नावश्यं फलमाराध्नोति । तेनानुमीयते - पराधीनं पुरुषस्य कर्मफलाराधनमिति । यदधीनं स ईश्वरः । तस्मादीश्वरः कारणमिति । न, पुरुष......।४।१।२०, ईश्वराधीना चेत् फलनिष्पत्तिः स्याद् अपि तर्हि पुरुषस्य समीहामन्तरेण फलं निष्पद्यतेति । तत्कारितत्वादहेतुः ।४।१।२१।, पुरुषकारमीश्वरोऽनुगृह्णाति । फलाय पुरुषस्य यतमानस्येश्वरः फलं सम्पादयति। यदान सम्पादयति तदा पुरुषकर्माफलं भवतीति ईश्वरकारितत्वात् पुरुषकारफलस्येत्यहेतुः-'पुरुषकाभावे फलानिष्पत्तेः' इति। गुणविशिष्टमात्मान्तरमीश्वरः । तस्यात्मकल्पात् कल्पान्तरानुपपत्तिः। अधर्ममिथ्याज्ञानप्रमादहान्याधर्मज्ञानसमाधिसम्पदाच विशिष्टमात्मान्तरमीश्वरः । तस्य धर्मसमाधिफलमणिमाद्यष्टविधमैश्वर्यम् । संकल्पानुविधायी चास्य धर्मः प्रत्यात्मवृत्तीन् धर्माधर्मसन्निचयान पृथिव्यादीनि च भूतानि प्रवर्तयति। एवं च स्वकृताभ्यागमस्यालोपेन निर्माणप्राकाम्यमीश्वरस्य स्वकृतकर्मफलं वेदितव्यम्। आप्तकल्पश्चायं यथा पितुरपत्यानां तथा पितृभूतो हीश्वरो भूतानाम् । न चात्मकल्पादन्यः कल्पः संभवति । न तावदस्य बुद्धिमन्तरेण कश्चिद्धर्मो लिङ्गभूतः शक्य उपपादयितुम् । आगमाच्च द्रष्टा बोद्धा सर्वज्ञ ईश्वर इति । बुद्धयादिभिश्चात्मलिङ्गैर्निरुपाख्यमीश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम् । स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य यदुक्तं प्रतिषेधजातमकर्मनिमित्ते शरीरसर्गे तत् प्रसज्यत इति ॥” इति न्यायभाष्ये जेसलमेरस्थे। ३ दृश्यतां पृ. ३२८ टि. १। ४“यद् वस्तु स्थित्वा स्थित्वा प्रवर्ततेऽभिमतसाधनाय तद् बुद्धिमत्कारणाधिष्टानाद् । यथा वास्यादि द्वैधीकरणादौ । न खलु वास्यादयः खयमेव प्रवर्तन्ते । प्रवर्तने वा सदा प्रवर्तनं भवेत् । स्थित्वा च प्रवर्तनम[भिमतम् , अतः] केनचित् प्रवतेकन भ तथा यत् संस्थानविशेषपारिमाण्डल्यादियोगि तत् चेतनावदुत्पादितम् , तद्यथा घटादिकम् । तथा यदर्थक्रियाकारि तच्चेतनावत्पदार्थप्रेरितम् , तद्यथा घटादयः । अत्राह -स्थित्वाप्रवृत्ति.....।” इति प्रमाणवार्तिकालंकारे, पृ. ३५। ५ "एको
नय.टि. १२ Jain Education International For Private & Personal Use Only
www.jainelibrary.org