________________
न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य पृ० ३१२ ५० ६___ पृ० ३१२ पं० ६. त्रिलक्षणतां । दृश्यतां टिपृ० ११ पं० ३४ ।
पृ० ३१२ पं० १३. आत्मनोऽपरिहारेण । अत्र आत्मपरिहारेण इति भा०प्रतौ य०प्रतौ [श्रीयशोविजयोपाध्यायैलिखितायां प्रतौ] च पाठः । स एव च समीचीन आदरणीयश्च ।
पृ० ३१२ पं० १४. कत्वादभिन्न । भा०प्रतिस्थः कत्वादिभिन्न इति पाठोऽत्र समीचीनतरो भाति । .. 5(°कसत्त्वादिभिन्न ?)।
पृ० ३१२ पं० १५. परस्परमुपकुर्वन्ति । दृश्यतां पृ० २८८ पं० १, पृ० ३१८ पं० ८।
पृ० ३१२ पं० १६-१७. सुखादिव्यात्मकत्वं न.....अन्यत्वोक्तेश्चेति । 'सुखादित्र्यात्मकत्वं न, घटादावेकस्मिन्नेव चेति त्वयैवाभ्युपगतत्वात् । ऐक्यं न, अन्यत्वोक्तश्चेति' इति योजना अत्र ज्ञेया।
पृ० ३१३ पं० १. व्यवहारसम्प्रसिद्ध। (व्यवहारसम्प्रसिद्धेः...?)। दृश्यतां पृ० ३२५ पं०४।। 10 पृ० ३१३ पं० २. 'विघटनमेव । अत्र "विघटनमेव । तस्मात् सर्वसर्वात्मकत्वपरिग्रहो न्याय्यः ।' इत्यपि मूलं स्यात् । दृश्यतां पृ० ३२४ पं० १२।
पृ० ३१३ पं० ७-८. 'सम्प्रसिद्धेत्यादि । (°सम्प्रसिद्धरित्यादि ?)। दृश्यतां पृ० ३२१ पं० ४ ।
पृ० ३१३ पं० ९. प्रागनुमानं...। अत्र वक्ष्यमाणं सर्वमपि सांख्यमतं वार्षगणतन्त्रानुसारेणाभिहितं भाति, दृश्यता पृ० ३२४ पं०११। तथा च वार्षगणे तन्त्रे पूर्व सप्रभेदमनुमानं व्याख्याय अनन्तरं 'तेषां यदेतत्...' इत्यादि तत्राभिहितं 15 भाति । तदनुसारेणात्र नयचक्रवृत्तिकृतापि तथा अभिहितमिति भाति । सम्प्रति तु वार्षगणतनं नोपलभ्यत इति ध्येयम् ।
पृ० ३१३ पं० १०. वीत इति । अत्र 'वीत [आवीत] इति' इति पठितव्यम् । पृ० ३१४ पं० १३-१४. शकलकपालामत्रभूषण । दृश्यतां टिपृ० ७६ पं० ३१ ।
पृ० ३१८५०८. शब्दाद्यात्मना । अत्र 'शब्दात्मना' इति सम्यक् । दृश्यतां पृ० २८८ पं० २, पृ. ३२७ पं०२०। 20 पृ० ३२१ ६० ८. द्वितीयस्य शिरसो..। "ननु प्रत्यक्षेण योऽर्थो नोपलभ्यते स सर्वथा नास्तीति मतं संगच्छते,
यथा द्वितीयमनीश्वरशिरः, तृतीयो बाहुः, शशविषाणादयो वा । एवं प्रधानपुरुषौ नोपलभ्येते तस्मात्तावपि न स्तः ।" - सांख्यकारिकामाठरवृत्ति. पृ० १४ । ___पृ. ३२१ पं० १०. यदि व्यक्तस्याः । “यदि चासत् कार्य स्यात् तदा सर्व सर्वतः सम्भवेत् , ततश्च तृणपांसुवालुकादिभ्यो रजतसुवर्णमणिमुक्ताप्रवालादयो जायेरन् ।" - सांख्यकारिकामाठरवृत्ति. पृ० १७ । 25 पृ० ३२१ पं० ४. प्रसिद्धरित्यादि । ( प्रसिद्धेत्यादि ? ? ?)। दृश्यतां पृ० ३१३ पं० ७ । टिपृ० ८८ ५० ९,१२ ।
__ पृ० ३२१ पं० ११. कस्मात् ? अभावक्रिया गुरुकार्या भावक्रिया लम्वीति । (कस्मात् ? भावक्रिया गुरुकार्या. अभावक्रिया लध्वीति)। 'कस्मादभावक्रिया गुरुकार्या, भावक्रिया लध्वीति' इत्येवं सुष्ठ भाति । य०प्रतावत्र 'कस्मादभावक्रिया गुरुकार्या भावक्रिया लम्विति' इति पाठः, । भा०प्रतौ तु 'कस्मादभावक्रिया लध्विति' इति पाठः ।
पृ. ३२३ पं० १६,१७. प्रवृत्तेरभावाच्चेत्यादिभिः...........'सर्वो ग्रन्थो । प्रतिस्थपाठानुसारेणात्र 30"प्रवृत्तेरभावाच्चेत्यादिः...... 'सर्वो ग्रन्थो' इत्यपि पाठः स्यात् ।
पृ० ३२४ पं० २७. अस्ति। दृश्यतां पृ० १९० पं० २३,१९९ पं०७ ।
पृ. ३२५ पं० ४. भवति । दृश्यतां पृ० ३३९ पं० १९ । 'भवति की स्वतन्त्रः, प्रवर्तनवृत्तत्वात् , प्रधानशब्दादिवत् । तथाभवनवृत्तत्वात् , तन्तुपटवत् ।' इत्यपि मूलमत्र स्यात् ।
पृ० ३२५ पं० १८. शब्दादि यथा प्रवर्तयत् । अत्र 'शब्दादि' इति द्वितीयान्तं पदम् , 'यथा शब्दादि प्रवर्तयत्' 35इति चान्वयोऽत्र ज्ञेयः। . पृ० ३२६ पं० १. पूर्वपूर्व। दृश्यतां पृ० ३३९ पं० २२ ।
पृ० ३२६ पं० ५. क्रियते । अन्न 'क्रियते इति यावत्' इत्यपि पाठः स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org