________________
पृ० ३११ पं० २४-२५.]
टिप्पण |
ટક
चहेतुत्वेन प्रयोगे सर्वसंख्यया ६५५३६ हेतवो भवन्ति । सांयोगिकभङ्गसंख्यानयनोपायः प्रवचनसारोद्धारवृत्त्यादौ विस्तरेण वर्णितः । तदनुसारेणात्र षोडश पदानि इत्थं स्थाप्यन्ते
-
१०
99
9 २ ३ ४ ५ ६ ७ ८ ९ १६ १५ १४ १३ | १२ | ११ १० ९ ८ ७ ६
१२ | १३ | १४ ५ ४ ३
अत्र च प्रवचनसारोद्धारवृत्त्यादिवर्णितप्रक्रियानुसारेण प्रत्येकं १६ भङ्गाः, द्विक्संयोगे १२०, त्रिकसंयोगे ५६०, चतुष्कसंयोगे १८२०, पञ्चकसंयोगे ४३६८, षकसंयोगे ८००८, सप्तकसंयोगे ११४४०, अष्टकसंयोगे १२८७०, नवकसंयोगे ११४४०, दशकसंयोगे ८००८, एकादशकसंयोगे ४३६८, द्वादशकसंयोगे १८२०, त्रयोदशकसंयोगे ५६०, चर्तु - 5 दशकसंयोगे १२०, पञ्चदशकसंयोगे १६, षोडशकसंयोगे १, इत्येवं सर्वसंख्यया ६५५३५ भङ्गा भवन्ति । प्रवचनसारोद्वारवृत्त्यादिवर्णनानुसारेण एतन्मध्ये एकस्य प्रक्षेपेण षोडशानां हेतूनां ६५५३६ भङ्गा लभ्यन्ते । अतो 'हेत्वग्रं पञ्चषष्टिसहस्राणि पञ्चशतानि च षटूत्रिंशानि' इत्यभिहितमत्र नयचक्रवृत्तिकृद्भिरिति ध्येयम् ।
।
१ २ ३ ४ ५ ६ ७ १० ९ . ७ ६ ५
१ "इदानीं 'थंडिला चउवीस उ सेहस्से त्ति द्वारमेकनवतितममाह - अणावायमसंलोए परस्साणुवधायए । समे अज्झसिरे यावि अचिरकालकर्यमि य ॥ ७०९ ॥ विच्छिन्ने दूरमोगाढेऽनासन्ने बिलवज्जिए । तसपाणबीयरहिए उच्चाराईणि वोसिरे || ७१० ॥ अनापातमसंलोकम् १ परस्यानौपघातिकम् २ समम् ३ अशुषिरम् ४ अचिरकालकृतम् ५ विस्तीर्णम् ६ दूरमवगाढम् ७ अनासन्नम् ८ बिलवर्जितम् ९ त्रसप्राणबीजरहितम् १० यत् स्थण्डिलं तत्र उच्चारादीनि पुरीषप्रश्रवणप्रभृतीनि व्युत्सृजेत् । [ पृ० २०४]अमीषां चानन्तरोदितानां दशानां पदानामेकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवदशकैः संयोगाः कर्तव्याः। तेषु च भङ्गाः सर्वसंख्यया चतुर्विंशत्यधिकं सहस्रम् । अथ कस्मिन् संयोगे कियन्तो भङ्गकाः ? उच्यन्ते, इह भङ्गानामानयनार्थमियं करणगाथा – 'उभयमुहं रासिदुगं हेडिलाणंतरेण भय पढमं । लद्धऽहरासिविभत्ते तस्सुवरि गुणित्तु संजोगा ॥' [ पञ्चवस्तु ॥ ४०३ ॥ ], अस्या अक्षरगमनिका -इह दशानां पदानां द्व्यादिसंयोगभङ्गा आनेतुमभिप्रेता-स्ततस्तावत्प्रमाणौ द्वौ राशी उभयमुखौ स्थाप्येते । किमुक्तं भवति ? एककादीन् दशकपर्यन्तानङ्कान् पूर्वानुपूर्व्या उपरि स्थापयित्वा तेषामधस्तात् पश्चानुपूर्व्या भूय एककादयो दशकपर्यन्ता अङ्काः स्थापनीयाः । स्थापना चेयम् -
१५ | १६
२ 9
८ ९ १०
३ २ १
For Private & Personal Use Only
अत्राधस्तनराशिपर्यन्तवर्तिन एककस्योपरि यो दशकस्ते एककसंयोगे दश भङ्गा द्रष्टव्याः । न च तत्र करणगाथाया व्यापारः, द्व्यादिसंयोगभङ्गानयनायैव तस्याः प्रवृत्तत्वात् । ततोऽधस्तन राशिपर्यन्तवर्तिन एककस्यानन्तरेण द्विकलक्षणेनोपरितनराशौ पश्चानुपूर्व्या प्रथममङ्कं दशकरूपं भजेत्, तस्य भागाकारं कुर्यात् । ततो लब्धाः पञ्च । यतो दश द्विधा विभक्ताः पञ्चैव भवन्ति । 'लद्धऽहरा सिविभत्ते 'ति अधोराशिना द्विकलक्षणेनोपरितने प्रथमे अङ्के दशकलक्षणे विभक्ते सति लब्धेन अङ्केन पञ्चकेन तस्य द्विकलक्षणस्योपरितनमङ्कं नवकलक्षणं गुणयेत् ताडयेद्, जाताः पञ्चचत्वारिंशत् । इत्थं च गुणयित्वा संयोगाः संयोगभङ्गा वाच्याः, यथा द्विकसंयोगे भङ्गाः पञ्चचत्वारिंशदिति । ततो भूयोऽपि त्रिकसंयोगभङ्गानयनाय प्रथमपादरहिता करणगाथा व्यापार्यते यथा - अधस्तनराशिस्थितेन द्विकादनन्तरेण त्रिकेणोपरितनरा शिव्यवस्थितं त्रिकोपरितनाष्टकरूपाङ्कापेक्षया आद्यं पञ्चचत्वारिंशलक्षणमङ्कं भजेत्, ततो लब्धाः पञ्चदश, यतः पञ्चचत्वारिंशत् त्रिधा विभक्ताः पञ्चदशैव भवन्ति । तैश्चाधोराशिना उपरितने अङ्के विभक्ते लब्धैः पञ्चदशभिस्त्रिकलक्षणस्याङ्कस्योपरितन मष्ट क्लक्षणमङ्कं गुणयेत् । गुणिते च सति जातं विंशत्युत्तरं शतम् । एतावन्तस्त्रिकसंयोगे भङ्गाः । एवं चैककसंयोगे १० दश भङ्गाः, द्विकसंयोगे ४५ पञ्चचत्वारिंशत्, त्रिकसंयोगे १२० . विंशं शतम्, चतुष्कसंयोगे २१० द्वे शते दशोत्तरे, पञ्चकसंयोगे २५२ द्वे शते द्विपञ्चाशदधिके, षकसंयोगे २१० द्वे शते दशोत्तरे, सप्तकसंयोगे १२० विंशं शतम्, अष्टकसंयोगे ४५ पञ्चचत्वारिंशत्, नवकसंयोगे १० दश दशकसंयोगे १ एकः । सर्वमीलने च त्रयोविंशत्युत्तरं सहस्रमशुद्धभङ्गानां भवति । चतुर्विंशस्तु शुद्धो भङ्गो यद्यपि करणेन नागच्छति तथाप्येतन्मध्ये तं प्रक्षिप्य भङ्गसङ्ख्या पूरणीयाः यतः सर्वभङ्गप्रसारे क्रियमाणे पर्यन्ते शुद्धभङ्गस्या गतिः । उक्तं च [ पञ्चवस्तुग्रन्थे ] - दस पणयाल विसोत्तरसयं च दो सय दसुत्तरा दो य । बावन्न दो दसुत्तर विसुत्तरं पंचचत्ता य ॥ ४०४ ॥ दस एक्को य कमेणं भंगा एगादिचारणाए सुं । सुद्धेण समं मिलिया भंगसहस्सं चउन्चीसं ॥ ४०५ ॥” इति प्रवचनसारोद्धारवृत्तौ पृ० २०४, २०६ - २०७ ।
Jain Education International
www.jainelibrary.org