________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [पृ० ३०७ पं० ५,१४पृ०३०७ पं० ५,१४. किं त्वान्मात्रादेव' । 'प्रसादाद्यनात्मकत्वात्' इत्यादिहेतुषु 'त्वात्' इति पञ्चम्यन्तशब्दप्रयोगमात्राद् न परिवर्तनमित्याशयः । “तस्य भावस्त्वतलौ" [पा० ५।१।११९ ] इति सूत्रेण भावे त्व'प्रत्ययः । अत्र मूले [पृ० ३०७ पं० ५] "किं त्वान्मात्रादेव, त्रैलक्षण्यात् ?' इत्यपि पाठः स्यात् , दृश्यतां पृ० ३०९ पं० १३ ।
पृ० ३०८ पं० ४, २१,२२. व्यपदेशिवद्भाव । दृश्यतां टिपृ० १४ पं० २०।। 5 पृ० ३०८ ५० ५, १४. धर्मधर्मिस्वरूपविरोधौ । इमौ पक्षदोषौ । अनयोश्च स्वरूपं प्रेमाणसमुच्चयवृत्ति[ ३।२]प्रमाणवार्तिकमनोरथनन्दिवृत्ति[ ४।१५१-१६३] प्रमाणवार्तिकालंकारा[ ४।१५१-१६३ ]दिभ्योऽवसेयम् । . पृ० ३०८ पं० १२. बहुव्रीहेरन्यपदार्थविषयत्वात् । दृश्यतां टिपृ० ५७ पं० ११ ।
पृ० ३०८ पं० १३,१६. कप् । “उरःप्रभृतिभ्यः कप् । इनः स्त्रियाम् । नघृतश्च । शेषाद्विभाषा ।" - पा० ५।४।१५१-४ । 10- पृ० ३०८ पं० १७. तहुणसंविज्ञान । “बहुव्रीहिसमासः । अयं च तद्गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च भवति ।
तत्र तद्गुणसंविज्ञानो यथा 'लम्बकर्णः' इत्यादि । लम्बौ कौँ यस्यासौ लम्बकर्णः, लम्बकर्णत्वं तस्यैव गुणः । अतद्गुणसंविज्ञानस्तु यथा 'पर्वतादि क्षेत्रम्' इत्यादि । पर्वत आदिर्यस्य तत् पर्वतादि क्षेत्रम् । न पर्वतः क्षेत्रगुणः, किं तर्हि ? उपलक्षणमात्रमिति भावना।" - न्यायप्रवेशक्० पृ० १३ ।
पृ० ३०९ पं० २४. सुखादन्यस्य । अत्र 'सुखादनन्यस्य' इति शुद्ध प्रतीयते । 15 पृ० ३०९ पं० २६. भवतीत्यशक्यं । अत्र ‘भवतीति शक्यं' इति सम्यग् भाति ।
पृ० ३११ पं० २४-२५. लाघवगौरवे त्वपनीय..... पञ्चषष्टिसहस्राणि पश्च शतानि च षट्त्रिंशानि । प्राग् [पृ० ३११ पं० २४ ] निर्दिष्टे सप्तत्यधिके साधनशते लघुत्व-गुरुत्वयोरन्तर्भूतत्वाद् 'लाघवगौरवे त्वपनीय' इत्युक्तमत्र । एवं च अवशिष्टानां 'प्रसादात्, प्रसवात् , अभिष्वङ्गात् , उद्धर्षात् , प्रीतेः, शोषात् , तापात्, भेदात् , उपष्टम्भात् , उद्वेगात् , अपद्वेषात् , वरणात् , सदनात् , अपध्वंसनात् , बैभत्स्यात् , दैन्यात्' इति षोडशानां धर्माणां प्रत्येकं द्विकादिसंयोगेन
१ हेतुदोषा अपि एतादृशा अन्ये सन्तीति ध्येयम् , तथाहि - "विरुद्धश्चतुःप्रकारः, तद्यथा- धर्मखरूपविपरीतसाधनः धर्मविशेषविपरीतसाधनः, धर्मिस्वरूपविपरीतसाधनः, धर्मिविशेषविपरीतसाधनश्चेति । तत्र धर्मस्वरूपविपरीतसाधनो यथा-नित्यः शब्दः कृतकत्वात् प्रयत्नानन्तरीयकत्वाद्वेति । अयं हेतुर्विपक्षे एव भावाद् विरुद्धः । धर्मिविशेषविपरीतसाधनो यथा-परार्थाश्च. क्षुरादयः, संघातत्वात् , शयनासनाद्यङ्गवदिति । अयं हेतुर्यथा पारायं चक्षुरादीनां साधयति तथा संहतत्वमपि परस्यात्मनः साधयति, उभयत्राव्यभिचारात् । धर्मिखरूपविपरीतसाधनो यथा-न द्रव्यं न कर्म न गुणो भावः, एकद्रव्यवत्त्वादु गुणकर्मसु च भावात् , सामान्यविशेषवदिति । अयं हि हेतुर्यथा द्रव्यादिप्रतिषेधं साधयति तथा भावस्याभावत्वमपि साधयति । उभयत्राव्यभिचारात् । धर्मिविशेषविपरीतसाधनो यथा- अयमेव हेतुरस्मिन्नेव पूर्वपक्षेऽस्यैव धर्मिणो यो विशेषः सत्प्रत्ययकर्तत्वं नाम तद्विपरीतमसत्प्रत्ययकर्तृत्वमपि साधयति उभयत्राव्यभिचारात् ।”-न्यायप्रवेशक.पृ० ५। २ दृश्यतां टिपृ० ७३ पं० १३ । ३ "तस्य बहुव्रीहेर्गुणा अवयवा आरम्भकविशेषा यैर्बहुव्रीहिरारभ्यते ते तद्गुणाः, तेषां संविज्ञानं यत्र । यद्वा तस्य बहुव्रीहिवाच्यस्य गुणस्तद्गुणः, तस्य संविज्ञानं यत्रेति स तथा । 'पर्वतादिकम्' इत्यत्र 'आदि' शब्दः समीपार्थः ।” - न्यायप्रवेशकवृत्तिपञ्जिका. पृ० ४२ ।
1 "धर्मः पर्याय इत्यनान्तरम् , तस्य स्वरूपमसाधारणमात्मलक्षणं धर्मस्वरूपम् , तस्य विपरीतसाधन इति समासः । एवं शेषेष्वपि द्रष्टव्यमिति । अधुनोदाहरणमाह - यथा नित्यः शब्दः कृतकत्वादित्यादि । अत्र धर्मस्वरूपं नित्यत्वम् , अयं च हेतुस्त द्विपरीतमनित्यत्वं साधयति तेनैवाविनाभूतत्वात् । तथा चाह - विपक्ष एव भावाद् विरुद्धः । ....."-न्यायप्रवेशकवृ० पृ. २७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org