________________
पृ० ३०६ पं० १९.]
टिप्पणानि ।
पृ० ३०६ पं० १,९,२१. प्रत्यक्षागमबलीयस्त्वात् । “यदि संशयहेतुः, कुतोऽत्र निश्चय उत्पद्यत इति चेत्, अत्र चेत्यादि । 'अत्र'शब्देन विरुद्धाव्यभिचारिविषयसामान्य दर्यते, न तु अयमेकः । प्रत्यक्षेण अविसंवादी आगमः प्रत्यक्षागमः मध्यमपदलोपात् शाकपार्थिववत् वज्रमुद्रिकावञ्च । 'प्रत्यक्ष'वचनं प्रमाणोपलक्षणार्थम् , प्रमाणाविसंवाद्यागमबलीयस्त्वादित्यर्थः । इदमुक्तं भवति-आगमसिद्ध लिङ्गमधिकृत्य विरुद्धाव्यभिचारी उक्तः । स एतैरेव च आगमो बलीयानभ्युपगम्यते । बलीयांश्च स प्रमाणेनानुग्रहाद् भवति । तस्मात् ततः प्रमाणाद् निश्चयोऽन्वेष्यते । तच्छब्देन गुणभूतमपि प्रमाणमभि-5 सम्बध्यते । अथवा तत एव प्रमाणाविसंवाद्यागमाद् निश्चयोऽन्वेष्यते । तथोक्त्यापि 'प्रमाणादेव निश्चयोऽन्वेष्यते' इत्यर्थादुक्तं भवति।" इति प्रमाणसमुच्चयस्य जिनेन्द्रबुद्धिरचितायां 'विशालामलवती'टीकायाम् , परि० ३, पृ० १७२ A. Derge edition.
पृ० ३०६ पं० २,९,११,२१. अन्विष्यते । अत्र प्रतिस्थः 'अन्वेष्यते' इति पाठ एवाङ्गीकार्यः ।
पृ० ३०६ पं० १०-११. प्रत्यक्षीकृतार्थेनागमेन बलीयान् प्रत्यक्षसंवादिना, प्रत्यक्षेणा.....", प्रत्यक्षेजैवा व्याख्याविकल्पेषु । क्रमेणात्र त्यो व्याख्याविकल्पा निर्दिष्टा इति भाति ।
पृ. ३०६ पं० १९. यदा शब्दत्वं...। अत्र “यदा तर्हि शब्दत्वं नित्यमभ्युपैति तदायं हेतुरेव स्यात् , यद्यत्र अनित्यत्वहेतुम् [अपि?] कृतकत्वादि कश्चिन्न दर्शयेत् । उभयोपलब्धौ विरुद्धैकार्थासम्भवात् संशयहेतुः ।" ईदृशः पाठः प्रमाणसमुच्चयवृत्तौ तृतीये परार्थानुमानपरिच्छेदे।
10
१ दृश्यतां टिपृ० ८४ पं० १८१२ “अन्वेष्यते स्म । एष गतौ' [पा० धा० भ्वादि०] । 'इषिः [पा० धा० दिवादि०] ण्यन्तो वा।"- अमरकोषसुधा. ३।१।१०५। ३ दृश्यतां टिपृ० ८५ पं० २। ४ “यदा तीत्यादि । अयमसाधारणत्वात संशयहेतु रित्युक्तम् । यदा शब्दत्वश्रावणत्वे नित्ये अभ्युपगच्छति तदा कुतोऽस्य संशयहेतुभूतमसाधारणत्वम् । कथम् ? तदाऽयमित्यादि ।अनुभयाश्रितत्वावस्थायामसाधारणत्वात् संशयहेतुत्वमुक्तम् । यदा शब्दत्वमपि श्रावणमभ्युपगच्छति तदाऽयमुभयाश्रित एवं स्यात् , न चायं तदा असाधारण इष्यते। तस्मात् तदाऽयं हेतुरेव स्यात् अनित्याद् व्यावृत्तत्वात् तझ्यवच्छेदेन नित्यत्वगमकत्वाच्च । यद्यत्र अनित्यत्वहेतुमपि वैशेषिको न दर्शयेत् तदा हेतुत्वमपि स्यादिति सम्बन्धः । विरुद्धका
र्थासम्भवादिति विरुद्धयोर्नित्यत्वानित्यत्वधर्मयोरेकस्मिन् धर्मिण्यसम्भवात् । विरुद्धत्वं च तयोः परस्परपरिहारस्थितिलक्षणत्वात् । विरुद्धस्यैकस्यार्थस्यासम्भवादिति अन्ये। अनेको हि विरुद्धः सम्भवति । यथा आकाशं नित्यमप्यनित्यमिति एकत्र नास्तीति । तस्मात् संशयः स्यात्, विरुद्धार्थाभिधायिकथाद्वयवत् ।" इति जिनेन्द्रबुद्धिरचितायां प्रमाणसमुच्चयटीकायाम्, पृ० १७१ B- १७२ A. Derge edition. “यथाह - यदा तर्हि शब्दत्वं नित्यमभ्युपगच्छति तदाय हेतुरेव स्यात्, यद्यत्रानित्यत्वहेतुं कृतकत्वादि कश्चिद् न दर्शयेत् [प्र. समु० वृ०] इति । ईंदमप्रकाश्यमसंवरणीयमिति कष्टतरं व्यसनं कथं निर्वोढुं शक्येत ।....."पुरुषप्रतिभाकृतं च साधनत्वं भवति । तद् वस्तुतो न किञ्चित् साधनमसाधनं वा।"-हेतुबिन्दु. पृ० २५ B. Choni edition. "ननु 'अन्यस्त्वनिश्चितः' इति पञ्चप्रकारोऽनैकान्तिक उक्तः, न चेदं युक्तम् , शेषवतो विरुद्धाव्यभिचारिणश्चापरस्याप्यनैकान्तिकत्वात् । न, अभिप्रायापरिज्ञानात् ।..... अप्रतिबद्धोऽनैकान्तिक इति वाक्यार्थः । शेषवद्विरुद्धाव्यभिचारिणोरपीदमेव लक्षणमिति तयोरप्यनैकान्तिकत्वं न निवार्यम् ।......"अव्यभिचारित्वं कथमिति चेत्, अभ्युपग[मद्वारेणेति न दोषः । तथा चाह - यदा तर्हि शब्दत्वं नित्यमभ्युपैति तदायं हेतुरेव स्यात् । ....."आचार्यः प्राह - स्याद् गमकः यद्यत्र कृतकत्वमपि कश्चिदनित्यत्वे हेतुं न ब्रूयात् । उभयं तु गमकमुपलभमानस्य खाभ्युपगमादेव संशयः। तस्माद् वैशेषिकस्यैवमभ्युपगच्छतोऽतिसङ्कटप्रवेशः ।......तस्मात् पराभ्युपगमेन विरुद्धाव्यभिचारी नान्यथेत्याचार्यस्याभिप्रायोऽवगन्तव्यः, 'यदा तर्हि शब्दत्वं नित्यमभ्युपैति' इति वचनात् ।” -प्रमाणवार्तिकालंकार. पृ. ६४६-७।
1 "अयं च किल पक्षो दिङ्गागाचार्य स्याप्यभिमत इति पर उपदर्शयन्नाह - यथाह दिङ्गागाचार्यः । किमाह ? यदा तहत्यिादि। 'श्रावणत्वस्य हि न कथविद् व्यवच्छेदहेतुत्व'मिति दिङ्गागाचार्येणोक्ते परेणाभिहितम् - यदा तर्हि वैयाकरणः शब्दत्वं नित्यमभ्युपगच्छति तदाय भावणत्वलक्षणः पक्षधर्मों हेतुरेव स्यात् 'नित्यः शब्दः श्रावणत्वात् शब्दत्ववत्' इति । एवं परेणोक्ते सति आचार्येणोक्तम् - यद्यत्र शब्दत्वाख्ये धर्मिणि अनित्यत्वहेतुं कृतकत्वप्रयत्नानन्तरीयकत्वादिलक्षणं कश्चिद् वैशेषिकादिर्न दर्शयेत् तदायमप्रद. शितप्रतिहेतुहें तुरेव भवेत् इति ।" इति अर्चटकृतायां हेतुबिन्दुवृत्तौ पृ० २१८। 2 हेतुबिन्दुभोटभाषानुवादानुसारेणेदमस्माभिलिखितम् , मुद्रिते हेतुबिन्दौ [पृ. ७१] तु टीकया सह बहु मिश्रितोऽत्र पाठ इति ध्येयम् । 3 दृश्यतां टिपृ० ७५ पं० १।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org