________________
.न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ० ३० पं० ४.१६पृ. ३०३ पं० ४. १६. गुणसन्द्रावो । दृश्यतां टिपृ० १६ पं० ३५।
पृ० ३०३ पं० २९. पंचपलसइया तुला । प्रायः सर्वासु प्राचीनासु अनुयोगद्वारसूत्रप्रतिषु 'पंचुत्तरपलसतिया तुला' इति पाठ उपलभ्यते । 'पंचपलसइया' इति पाठस्यापि 'पञ्चाधिकपलशतिका' इत्यर्थ उचितो भाति ।
__ पृ० ३०४ पं० २,१३. यथाहेत्वैकान्तिकत्वत्प्रयुक्तलक्षणवैलक्षण्यविशेषणपक्षविरचनया। दृश्यतां 5 पृ० ३०५ पं० ९ । लक्षणवलक्षण्यं गुरुत्वादि विशेषणं यस्मिन् पक्षे साध्यनिर्देशे स तथा, तद्विरचनयेत्यर्थः । 'सुखं मोहाद् गुरोरन्यत्। पृ० ३०० पं. १] इत्यादिषु मोहादेः गुरुत्वादिना लक्षणवैलक्षण्येन विशेषितत्वादेवमभिहितमत्रेति ध्येयम् ।
पृ० ३०४ पं० ३,१३. विपर्यसनीयाः। दृश्यतां टिपृ० ११ पं० २०।। पृ० ३०४ पं० ५. प्रवृत्ति । अत्र 'अप्रवृत्ति...' इति शुद्धम् । मुक्त्वापि । दृश्यतां टिपृ० ८४ पं० ४-६ ।
पृ० ३०४ पं० २७. शरीरेन्द्रिय । दृश्यतां पृ० ३०० पं० २ । 10 पृ० ३०५ पं० ११,१३. मुक्त्वापि । दृश्यतां टिपृ० ८४ पं० ४-६ ।
पृ० ३०५ पं० २०. विरुद्धाव्यभिचारि...। “अनैकान्तिकः षट्प्रकार- साधारणः १, असाधारणः २, सपक्षकदेशवृत्तिविपक्षव्यापी ३, विपक्षकदेशवृत्तिः सपक्षव्यापी ४, उभयपक्षकदेशवृत्तिः ५, विरुद्धाव्यभिचारी चेति ६ । तत्र साधारणः-शब्दः प्रमेयत्वान्नित्य इति ।..'असाधारणः-श्रावणत्वान्नित्य इति । तद्धि नित्यानित्यपक्षाभ्यां व्यावृत्तत्वाद् नित्यानित्यविनिर्मुक्तस्य चान्यस्यासम्भवात् संशयहेतुः-किंभूतस्यास्य श्रावणत्वमिति ।....विरुद्वाव्यभिचारी यथा-अनित्यः 15 शब्दः कृतकत्वाद् घटवत्, नित्यः शब्दः श्रावणत्वात् शब्दत्ववदिति । उभयोः संशयहेतुत्वाद् द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव ।" -न्यायप्रवेशक. पृ. ३-५ । प्रमाणसमुच्चयेऽपि परार्थानुमानपरिच्छेदे दिमागेन निरूपितोऽयं विरुद्धा
वेरुद्वाव्यभिचार्यपि संशयहेतुरुक्तः। स इह नोक्तः, अनुमानविषये तस्यासम्भवात् । न हि सम्भवोऽस्ति कार्यस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य वा विरुद्धतायाः। न चान्योऽव्यभिचारी। तस्मादवस्तुदर्शनबलप्रवृत्तमागमोश्रयमनु. मानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः ।......" इति प्रमाण विनिश्चये, पृ० २२४. Choni medition । प्राय ईश एव पाठो न्यायबिन्दावपि दृश्यते ३।११०-१४ । “स्वलक्षणयुक्तयोर्हेत्वोरेकत्र धर्मिणि विरोधेनोपनि पाते सति विरुद्धाव्यभिचारी।"-हेतुबिन्दु. पृ. ७० ।।
१“अधिकृतहेत्वनुमेयविरुद्धार्थसाधको विरुद्धः । विरुद्धं न व्यभिचरतीति विरुद्धाव्यभिचारी । उपन्यस्तः सन् तथाविधार्थानिराकृतेः प्रतियोगिनं न व्यभिचरतीति भावः ।.."अन्ये तु विरुद्धश्चासाव्यभिचारी च विरुद्धाव्यभिचारीति व्याचक्षते । इदं पुनरयुक्तमेव विरोधादनेकान्तवादापत्तेश्च । उदाहरणमाह-यथा अनित्यः शब्दः कृतकत्वाद् घटवदिति वैशेषिकेणोक्ते मीमांसक आह-नित्यः शब्दः श्रावणत्वात् शब्दत्ववत् ।.... एकत्र धर्मिणि कृतकत्व-श्रावणत्वाख्यौ हेतू सन्देहं कुरुतः-किं कृतकत्वाद् घटवदनित्यः आहोखिच्छ्रावणत्वाच्छब्दत्ववन्नित्य इति ।....."किं समस्तयोः सन्देहहेतुत्वम् उत व्यस्तयोः ? यदि समस्तयोः सन्देहहेतुत्वं तदा असाधारणान्न भिद्यते, यतः श्रावणत्वं चासाधारणत्वेनोक्तम् । अथ व्यस्तयोः, तदपि न, व्यस्तयोः सम्यग्घेतुत्वात् । अत्रोच्यते समस्तयोरेव संशयहेतुत्वम् । ननूक्तम् - असाधारणान्न भिद्यते। तन्न, यतो भिद्यत एव, परस्परसापेक्षो विरुद्धाव्यभिचारी चेति । एककोऽसहायोऽसाधारणः । स चानेनांशेनाचार्येण भिन्न उपात्त इति । तस्माददोषः । उक्तं च मूलग्रन्थे-'द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव' । अनुद्भाविते तु तदभाव इति।" इति हरिभद्रसूरिरचितायां न्यायप्रवेशकवृत्तौ पृ. २६-२७ । २ दृश्यतां टिपृ० ८५ पं०४ । प्रमाणविनिश्चयस्य संस्कृतभाषायामिदानीमनुपलब्धेः भोटभाषानुवादमवलम्ब्य इदमस्माभिलिखितमिति ध्येयम् ।
1 पार्श्वदेवरचितायां न्यायप्रवेशकवृत्तिपञ्जिकायामस्य व्याख्यानं विलोकनीयम् । 2 "विरुद्धार्थसाधनाद् विरुद्धौ च तावव्यभिचारिणौ चेति विरुद्धाव्यभिचारिणौ अवयवधर्मेण समुदाये निर्देशाद् विरुद्धाव्यभिचारी' इत्युच्यते । अथवा विरुद्धयोरव्यभिचारः, सेऽत्रास्तीति विरुद्धाव्यभिचारी । स विरुद्धकार्थासम्भवात् संशयहेतुः।" इति प्रमाणसमुच्चयस्य जिनेन्द्रबुद्धिरचितायां 'विशालामल. वती'टीकायाम् , पृ० १६८ B-१६९ A. Derge edition. । संस्कृतेऽस्या अनुपलम्भादस्या भोटभाषानुवादः संस्कृते परि
खितः । "हेत्वन्तरसाधितस्य विरुद्धं यत् तन्न व्यभिचरतीति विरुद्धाव्यभिचारी । यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात् अव्यभिचारी च स्वसाध्याव्यभिचाराद् विरुद्धाव्यभिचारी ।" इति धर्मोत्तररचितायां न्यायबिन्दुटीकायाम ३।११०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org