________________
पृ० ३०२ ५० ९.]
टिप्पणानि ।
पृ० २९६ पं० ९. सत्त्वसत्त्वं । य०प्रतिस्थः 'सत्त्वं सत्त्वं' इत्यपि पाठोऽत्र समीचीनः । दृश्यतां पृ०२९५५०२६। . पृ० २९७ पं० १८. एवं समापित प्रसङ्गः। 'एवमवसायितप्रसङ्गः' इत्यपि पाठोऽत्र प्रत्यनुसारेण स्यात् ।
पृ० २९८ पं०७-११. ननूक्तमन्वयवीत एव, अंबाह - .."गुरुरप्रकाशको दृष्टः । अत्र 'अन्वयवीते' इति सप्तम्यन्तो निर्देशो भाति । “अत्राह-कथं पुनः [पृ० २९८ पं० ७ ]...."कार्यकारणात्मकानाम्" [पृ० २९८ पं० ११] इति पाठः कुतश्चित् सांख्यग्रन्थाद् [वार्षगणतन्त्राद् ] अब नयचक्रवृत्तिकृनिरुद्धृत इति भाति । अन्वयवीत- 5 प्रयोगः पृ०३०१ पं०७, पृ०३१४ पं०७, पृ.१२ पं०१७ इत्यत्र च द्रष्टव्यः ।
_पृ० २९९ पं० १-२. एतेनाध्यात्मिकानां कार्यकारणात्मकानां भेदानाम् । पाठोऽयं मूले न ग्राह्यः । दृश्यतां टिपृ० ८३ पं० ४-५ ।
पृ० २९९ ५० ३४-३५. एतेन....."समन्वयदर्शनात् । इदं मूले न ग्राह्यम् , दृश्यतां टिपृ० ८३ पं० ४-५,७ । पृ० ३०० पं० १४. दृष्टं । अत्र 'दृष्टः' इति युक्तं भाति ।
10 . पृ० ३०१ पं० ७-९. अस्ति प्रधानं.....'चन्दनशकलादिवत् । दृश्यतां पृ० २६५ - २६६, पृ० ३१४ ।। पं. ७, पृ० १२ पं० १७।
पृ० ३०१ पं० ९. तदात्मकानि । अत्र य०प्रत्यनुसारी 'तदारब्धानि' इति पाठ एव समीचीनो भाति । . पृ० ३०२५० ९. रातीति । “रा दाने ।" -पा० धा० अदादि ।
वस्तु अस्तित्वे सत्त्वे परिणमति, सत् सदेव भवति, नात्यन्तं विनाशि स्यात् , विनाशस्य पर्यायान्तरगमनमात्ररूपत्वात् , दीपादिविनाशस्यापि तमिस्रादिरूपतया परिणामात् । तथा नास्तित्वमत्यन्ताभावरूपं यत् खर विषाणादि तद् नास्तित्वेऽत्यन्ताभाव एव वर्तते । नात्यन्तमसतः सत्त्वमस्ति खरविषाणस्येवेति । उक्तं च-'नासतो जायते भावो नाभावो जायते सतः ।' अथवा अस्तिस्वमिति धर्म्यभेदात् सदस्तित्वे सत्त्वे वर्तते यथा पटः पटत्वे एव । नास्तित्वं चेह नास्तित्वेऽसत्त्वे वर्तते, यथा अपटोऽपटत्वे एवेति ।" इति अभयदेवसूरिचितार्या भगवतीसूत्रवृत्ती १।३।३२।।
१'षोऽन्तकर्मणि' पा०धा०दिवादि०] इति धातोर्ण्यन्तस्य रूपमिदम् । 'समापितप्रसङ्गः' इति भावः । २“अत्राह-न खलु सत्त्वरजस्तमांसि जात्यन्तराणि, कुतः? स्वभावेष्ववस्थानात् ।....."तदेवमवस्थितस्वभावत्वादेकं सत्त्वरजस्तमांसि । अत्रोच्यते-जात्यन्तरममूनि त्रीणि, लक्षणपृथक्त्वव्यवस्थानात् । कथमिति चेत्, तदुच्यते-सत्त्वं लघु प्रकाशकमिष्टमपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः॥ [सांख्यका० १३ ], अत्र यत् पूर्वस्यामार्यायामभिहितं सत्त्वं तल्लघुत्वलक्षणं प्रकाशकलक्षणं च । यदा सत्त्वमुत्कटं भवति देवदत्ते तदा लघून्यङ्गानि विशुद्धानीन्द्रियाणि स्वविषयग्रहणसमर्थानि भवन्ति । तदा मन्तव्यमद्य मे सत्त्वमुत्कटत्वेन वर्तते इष्टं च स्वरूपसाधनहेतुत्वात् । उपष्टम्भकं चलं च रजः। उपष्टम्भकं प्रेरकमुन्नाडिरित्यर्थः, यथा मत्तवृषो वृषं दृष्ट्वा उद्धतो भवति तद्वत् , अथवा गर्वः चला(कलह)क्रियेत्यर्थः । एवं यस्मिन् देवदत्ते यज्ञदत्ते वा रज उत्कटं भवति स कलहं मृगयते । किश्चान्यत् , चलचित्तश्च भवति-ग्राम गच्छामि, स्त्रियं कामये, तपः करोमीत्यादि। एवं नित्यमुत्सुकमना भवति । एतद् रजोलक्षणम् । तम आह - गुरु वरणकमेव तमः । यद् गुरुत्वमावरणत्वं चास्ति तत्तमः । यदा गुरूण्यङ्गानि भवन्ति इन्द्रियाण्यलसानि स्वविषयग्रहणासमर्थानि भवन्ति तदा मन्तव्यमेतत् तम उत्कटत्वेन वर्तत इति। तस्माज्जात्यन्तराण्येव सत्त्वरजस्तमांसि ।..... प्रदीपवत् अर्थतः कार्यवशात् परस्परविरुद्धानामप्यमीषां वृत्तिदृष्टा यथा तैलाग्निवर्तिकासंयोगात् परस्परविरुद्धा अपि पदार्थाः संहत्य एकमर्थ प्रकाशरूपं निष्पादयन्ति एवं गुणा अपि परस्पर विरुद्धाः संहत्य पुरुषार्थ कुर्वन्ति।" - सांख्यकारिकामाठरवृत्ति.।।
- 1 "यत् किञ्चित् कार्य-करणे लघु प्रकाशकं च तत् सत्त्वरूपमिति प्रत्यवगन्तव्यम् । तत्र कार्यस्य तावदुद्गमनहेतुर्धमों लघुत्वम् , करणस्य वृत्तिपटुत्वहेतुः । प्रकाशस्तु पृथिवीधर्मस्य छायालक्षणस्य तमसस्तिरस्कारेण द्रव्यान्तरप्रकाशनम् , करणस्यापि ग्रहणसंकल्पाभिमानाध्यवसायविषयेषु यथास्वं प्रवर्तनम् । ... यः कश्चिदुपस्तम्भश्चलता चोपलभ्यते तद् रजोरूपमित्यवगन्तव्यम् । तत्रोपस्तम्भः प्रयत्नः, चलता क्रिया । ... ... 'यत् किञ्चिद् गौरवं वरणं चोपलभ्यते तत् तमोरूपमिति प्रत्यवगन्तव्यम् । तत्र गुरुत्वं कार्यस्याधोगमनहेतुर्धर्मः, करणस्य वृत्तिमन्दता । वरणमपि कार्यगतं च द्रव्यान्तरतिरोधानम् , करणगता चाशुद्धिः प्रकाशप्रतिद्वन्द्रिभूता । ..... एषां नानात्वमवसीयते ।" - सांख्यकारिकायुक्तिदीपिकावृत्ति. पृ. ७०-७१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org