________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य मयचक्रस्य [पृ० ३३३, पं०८___ पृ० ३३३ पं० ८. सायोज्यं । यद्यपि 'सायुज्यम् , इति शब्दप्रयोगः सम्प्रति प्रसिद्धः तथापि नयचक्रवृत्ती 'सायोज्यम्' इति शब्दप्रयोगस्य पुनः पुनः [पृ० ३४१ पं० २३-२४, पृ० ३४३ पं० १९ ] दर्शनात् स एवात्रादृतोऽस्माभिः।
पृ. ३३३ पं० २५. आख्यातशब्दः..। दृश्यतां पृ० ४४८ टि० २ ।
पृ० ३३३ पं० २७. यथा । अत्र भा०प्रत्यनुसारेण 'यस्माद्' इत्यपि स्यात् । 5 पृ० ३३४ पं० १. गुणसन्द्रावः। एतच्च लक्षणं कस्मिंश्चित् सांख्यग्रन्थे [ वार्षगणतन्त्रे ? ] सम्भाव्यते । दृश्यतां टिपृ० १६ पं०३५-पृ० १७ पं० १६ ।
पृ० ३३४ पं० ३-५. दुविहा. किमिदं...। द्विविधा प्रज्ञापना प्रज्ञप्ता-जीवप्रज्ञापना अजीवप्रज्ञापना च । किमिदं भदन्त! लोक इति प्रोच्यते ? गौतम! जीवाश्चैव अजीवाश्चैव । एवं रत्नप्रभा यावत् ईषयाग्भारा समयावलिकादि।' इत्यर्थः।
तुलना-पृ० २२८ पं०५-६. टि. १-२। 10 पृ० ३३४ पं० ५. समयावलियादि [ ] । अत्र 'समयावलियादि [ ]। इति तृतीयो विध्यु भयारः।' इत्यपि मूलं स्यात् ।
पृ० ३३५ पं० २. नन्वेवं..। दृश्यतां पृ० ३३९५० १८ । पृ० ३३५ पं० ६. सदसवेद्या । दृश्यतां तत्त्वार्थसू० ८।५-१४ ।
पृ० ३३५ पं० ७. सामान्यतोदृष्टा ।। “अथ तत्पूर्वकं त्रिविधमनुमानम् - पूर्ववत् शेषवत् सामान्यतोदृष्टं 15 च ।"-न्यायसू०।११५। "त्रिविधमनुमानमाख्यातम् ।"-सांख्यका० ५।
पृ. ३३५ पं० ८. अन्नप्राणत्ववत् । दृश्यतां पृ० १९९५० १२ । “अन्नं वै प्राणिनः प्राणाः"-न्यायभा० १११११।
पृ० ३३६ ५० ७. स्वकर्म। तुलना- "स्वकर्मणा युक्त एव सर्वो ह्युत्पद्यते जनः । स तथाकृष्यते तेन न यथा स्वयमिच्छति ॥” इति शीलाङ्काचार्यकृतायां सूत्रकृताङ्गवृत्तौ पृ० २१० ।
पृ० ३३६ पं० १६. यः स्वतन्त्रो भवितापि स एव । अत्र प्रतिस्थपाठानुसारेण 'कः स्वतन्त्रः ? भविता यः स 20 एव ।' इत्यपि पाठः स्यात् ।
पृ० ३३७ पं० २,१७. द्रव्यादिपञ्च...। दृश्यतां पृ० ३३८ टि०१। पृ० ३३८ पं० ५. दोषौ । अत्र 'दोषी' इत्यनावश्यकं भाति, दृश्यतां पृ० ३४१ पं० १३ । पृ. ३३९ पं० ३,१९. भवति । दृश्यतां पृ. ३२५ पं०४।
पृ० ३३९ पं० १०. यथा च......। दृश्यतां पृ० ३२७ पं०१। 25 पृ० ३४० पं० १,९,१०. शक्तिमत्प्रवृ पक्त्रादिवत् । दृश्यतां पृ० ३२६ पं० ३।
पृ० ३४० ५० १२. एवमेव चास्य । दृश्यतां पृ० ३२८ पं० १,८। टिपृ० ८९ पं० १ टि. १ । पृ०३४. पं० २३. प्रवर्तत इति । अत्र 'प्रवर्तक इति' इत्येव पाठो युक्तः प्रतीयते।
पृ. ३४१ पं. ६, २२-२३. तहणमोक्षणवत् । नयचक्रवृत्तौ अत्र 'तणमोक्षणात्' इति पाठः, अग्रे तु [पृ० ३४३ पं० १७] 'तणमोक्षणवत्' इति पाठो दृश्यते । अत एकतर एव कश्चिदपि पाठ उभयत्राप्यादरणीयः। 30 'तहणमोक्षणात्' इति तु सम्यग् भाति । वशीति । एको वशी स्वतन्त्रो निष्क्रियाणां बहूनां जीवानाम् । सर्वा हि क्रिया नात्मनि समवेताः, किन्तु देहेन्द्रियेषु । आत्मा तु निष्क्रियो निर्गुणः सत्त्वादिगुणरहितः कूटस्थः सन् अनात्मधोनात्मनि अध्यस्य अभिमन्यते - कर्ता, भोक्का, सुखी, दुःखी, कृशः, स्थूलः, मनुष्यः, अमुष्य पुत्रः, अस्य नप्तेति ।....'एकं बीजस्थानीयं भूतं सूक्ष्मं बहुधा यः करोति । तमात्मस्थं बुद्धौ स्थितं येऽनुपश्यन्ति साक्षाजानन्ति धीरा बुद्धिमन्तः तेषामात्मविदां सुखं शाश्वतम्, नेतरेषामनात्मविदाम् ।" इति शंकराचार्यरचिते श्वेताश्वतरोपनिषद्भाष्ये।।
१"तत्पूर्वकमित्यनेन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं लिङ्गदर्शनं चाभिसम्बध्यते । लिङ्गलिङ्गिनोः सम्बद्धयोदर्शनेन लिजिस्मृतिरभिसम्बध्यते । स्मृत्या लिङ्गदर्शनेन चाप्रत्यक्षोऽर्थोऽनुमीयते । पूर्ववदिति यत्र कारणेन कार्यमनुमीयते यथा मेघोनत्या भविष्यति वृष्टिरिति।शेषवत् तद् यत्र कार्येण कारणमनुमीयते । पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्टा स्रोतसोऽनुमीयते - भूता वृष्टिरिति । सामान्यतोदृष्टम् - व्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्र दर्शनमिति, तथा चादित्यस्य, तस्मादस्ति अप्रत्यक्षापि आदित्यस्य व्रज्या इति ।" इति न्यायभाष्ये। २ "अनुमानं त्रिप्रकारमाचायः व्याख्यातम् - पूर्ववत् शेषवत् सामान्यतो दृष्ठं च ।” इति सांख्यकारिकायुक्तिदीपिकायां पृ० ४३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org