________________
टिप्पणानि ।
पृ० ३४१ पं० ७, २३-२४. सायोज्यं । दृश्यतां टिपृ० ९० पं० १ ।
पृ० ३४१ पं० ९. रथकारे । अत्र 'ईश्वरे' इति पाठो युक्तः प्रतीयते ।
पृ० ३४९ पं० १२. ].
पृ० ३४१ पं० १७. शरीरादीन्युत्पा' । अत्र 'शरीरादीनुत्पा' इति सम्यग् भाति ।
पृ० ३४३ पं० ३,१९. तत्सायोज्य । दृश्यतां टिपृ० ९० पं० १ ।
पृ० ३४३ पं० १२. शीतलिका । यथा लूता रोगत्वेऽपि 'शीतलिका' इति पर्यायेण लोकैरभिधीयते एवम् 5 अत्यन्तपरवशत्वमपि त्वया 'ऐश्वर्यम्' इत्यभिधीयते इत्याशयः ।
पृ० ३४३ पं० १४. हिंसा सङ्गदोषे । दृश्यतां पृ० ३१७ पं० २ टि० २-३ | ( हिंसा'''सङ्गदोषैः ? )। पृ० ३४३ पं० १५. दुःखात्मकत्वाच्चाननुग्रहः । अत्र 'दुःखहेतुत्वाद् दुःखात्मकत्वाच्चाननुग्रहः' इत्यपि पाठः स्यात् ।
पृ० ३४३ पं० २७. प्रोक्त इति । ( प्राप्त इति ? ) ।
10
पृ० ३४४ पं० २, १२,१३ कारण्ये प्रोक्ते । द्विवचनान्तमिदम्। आदौ स एव । दृश्यतां पृ० ३४६ पं० १८ । पृ० ३४४ पं० १०, पृ० ३४५ पं० १. सर्गादौ अन्तवत् । दृश्यतां पृ० ३४५ पं० १५-१६ ।
पृ० ३४५ पं० ३. धारणाद्धानाद्वा धर्मः । “दुर्गतिप्रसृतान् जन्तून् यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः ॥” इति प्रसिद्धा कारिकात्रानुसन्धेया ।
९१
पृ० ३४५ पं० १९–२०. यस्याभावे इतरत् कार्यम् । दृश्यतां पृ० ३४२ पं० २,३,१८ ।
पृ० ३४७ पं० १–४. आदिकरत्वं तत्प्रयुक्तत्वात् । दृश्यतां पृ० ३५० पं० १–४, २०-२२ ॥
पृ० ३४७ पं० ५,२६. तदेव । ( तदिव ? ) । ' दृष्टान्तत्वं च ' [ पृ० ३४७ पं० २६] इति वचनात् 'तदिव'
इत्यपि स्यादत्र ।
...
...
पृ० ३४७ पं० ७.
अभिव्यञ्जयन्। 'अभिव्यञ्जयन् पदार्थ आदिकरत्वाद् वस्तु भवति' इत्याशयः । अत्रार्थेऽस्वारस्ये तु 'अभिव्यञ्जयद् भवति वस्तु' इति कल्पनीयम् ।
20
पृ० ३४८ पं० ६. परमाणुवर्गणा अग्रहणवर्गणा। ग्रहणयोग्यायोग्यवर्गणास्वरूपं कर्मप्रकृति[ गा० १८-२० ]वृत्ति · तत्त्वार्थसूत्रासेद्ध सेनीयवृत्ति [ ८।२ ]प्रभृतिग्रन्थेष्वपि निरूपितमस्ति । तेभ्यः कश्चिद् विशेषोऽप्यत्रत्य निरूपणे विलोक्यते इति ध्येयम् ।
पृ० ३४८ पं० ९. स्वेदेनेव । विशेषावश्यकभाष्यकोहार्यवृत्तावपीदृश एव पाठः । “न स आदातुं स्कन्धानतिसूक्ष्मान् बादरांश्च शक्नोति । स्वेदेन न बध्यन्ते जात्वणवः शर्कराश्च तथा ॥” इति सिद्धसेनगणिकृतायां तत्त्वार्थसूत्रवृत्तौ [12] उद्धृते 25 लोकेऽपि दृश्यते ।
पृ० ३४८ पं० १२. औदारिककारणत्वेन । अत्र प्रतिषु 'औदारिककारत्वेन' इति पाठः । तदनुसारेणात्र 'औदारिककायवे' इत्यपि पाठः स्यात् ।
Jain Education International
पृ० ३४९ पं० १२. जोगेहि । “जोगेहिं तयणुरूवं परिणमइ गिव्हिऊण पंच तणू । पाउग्गे वालंबइ भासाणुमणत्तणे खंधे ॥ १७ ॥” इति शिवशर्मसूरिकृतायां कर्म प्रकृतौ ।
15
For Private & Personal Use Only
१ अस्या मलयगिरिकृता व्याख्या इत्थम् - " जोगेहिंति । योगैरनन्तरोक्तस्वरूपैः प्रायोग्यान् स्कन्धान् पुद्गलस्कन्धान् गृहीत्वा यथायोगं पंच तणुति पञ्च शरीराणि परिणमयति औदारिकादिपञ्चशरीरतया परिणमयतीत्यर्थः । कथं पुनर्गृह्णा चेत्, अत आह- तदनुरूपं योगानुरूपम् । तथाहि - जघन्ययोगे वर्तमानः स्तोकान् पुद्गलस्कन्धान् गृह्णाति, मध्यमे मध्यमान्, उत्कृष्टे च योगे वर्तमानः प्रभूतानिति । अथवा तच्छब्देन पञ्च शरीराणि सम्बध्यन्ते । ततश्च तदनुरूपं पञ्चशरीरानुरूपं शरीर पञ्चकप्रायोग्यतयेत्यर्थः, पुद्गलस्कन्धान् गृह्णाति । तथा भाषाप्राणापानमनस्त्वप्रायोग्यान् पुद्गलस्कन्धान् प्रथमतो गृह्णाति, गृहीत्वा च भाषादित्वेन परिणमयति । परिणमय्य च तन्निसर्गहेतु सामर्थ्यविशेषसिद्धये तान् पुद्गलस्कन्धानालम्बते । ततस्तदवष्टम्भतो जातसामर्थ्यविशेषः सन् विसृजति नान्यथा । तथाहि - यथा वृषदंशः स्वानि अङ्गानि ऊर्ध्वं गमनाय प्रथमतः संकोचव्याजेनावलम्बते ततस्तदवष्टम्भतो जातसामर्थ्यविशेषः सन् तानि अङ्गानि ऊर्ध्वं प्रक्षिपति, नान्यथा शक्नोति, 'द्रव्यनिमित्तं वीर्यं संसारिणामुपजायते' इति वचनप्रामाण्यात् । तथेहापि भावनीयमिति । ”
30
www.jainelibrary.org