________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयवक्रस्य [पृ० ३४९ ५० १६__ पृ० ३४९ पं० १६, २०, पृ० ३५० पं० ७-१०. तेजोयोगाद् ऊष्मगुणः तद्वद् स्नेहा । अस्य कारिकाचतुष्टयस्यार्थः सिद्धसेनगणिकृतायां तत्त्वार्थसूत्रवृत्तौ [८१३ ] दृश्यते ।
पृ० ३५० ५० १५. नरनरकदेवतिर्यग्गतिसंग्रहभवनवास्याद्यनेकप्रैमेद...। संग्रहेण समासतो नर-नरकदेव-तिर्यग्गतिभेदेन चतुर्धा जीवाः । भवनवासिप्रभृतयो देवादीनां प्रभेदाः । 5. पृ० ३५० ५० १७. जीवपरिणाम हेतू..। जीवपरिणामो हेतुर्येषां ते जीवपरिणामहेतवः पुद्गलाः कर्मतया परिणमन्ति । एवं पौद्गलिकं कर्म निमित्तीकृत्य जीवोऽपि तथैव परिणमति इत्याशयोऽत्र भाति । “जीवपरिणामहेहूँ कम्मत्तं पोग्गला परिणमंति । पोग्गलकम्मणिमित्तं तहेव जीवो वि परिणमदि ॥ ८६ ॥ ण वि कुव्वदि कम्मगुणे जीवो कम्म तहेव जीवगुणे । अण्णोण्णणिमित्तेण दु परिणाम जाण दोण्हं पि ॥ ८७ ॥ एदेण कारणेण दु कत्ता आदा सएण
भावेण । पुग्गलकम्मकदाणं ण दु कत्ता सवभावाणं ॥८८॥ णिच्छयणयस्स एवं आदा अप्पाणमेव हि करेदि । वेदयदि 10 पुणो तं चेव जाण अत्ता दु अत्ताणं ॥ ८९॥” इति कुन्दकुन्दाचार्यरचिते समयसारे । “जोगणिमित्तं गहणं जोगो मण
वयणकायसंभूदो । भावणिमित्तो बंधो भावो रदिरागदोसमोहजुदो ॥ ७५ ॥ जीवपरिणामहेदू कम्मत्तण पोग्गला परिणमंति । ण दु णाणपरिणदो पुण जीवं(वो) कम्मं समादियदि ॥ ७६ ॥” इति मूलाचारे समयसाराधिकारे।
पृ० ३५० पं० २०-२२. यथा चा तत्प्रयुक्तत्वात् । दृश्यतां पृ० ३४७ पं० १-४ । पृ० ३५० पं० २४. शानदर्शनावरण संप्रमेदानि । दृश्यतां टिपृ० ६५ पं० १७ । पृ० ३५० पं० २५, पृ०३५१५०४-६. अक्षरानन्त' सब्वजीवाणं...। दृश्यतां टिपृ. ६७ पं० ६ टि०२। पृ० ३५१५० १५. पुमांसं गिलति" दृश्यतां पृ० १९० पं० १७।। पृ० ३५२ पं० ३. सम्भूय । दृश्यतां पृ० ३२९ पं० १-२।। पृ०३५२ पं० ४,२४. एवं च कृत्वा । दृश्यतां पृ० ३५९ पं० १६, पृ. ३५७ पं० १३ । पृ० ३५२ पं० ५,२८. प्रधानमध्यमा । दृश्यतां पृ० ३६५ पं० १७ । पृ० ३५२ पं० ६. °विकल्पसम्भवः । अत्र विकल्पासम्भव...' इति सम्यग् भाति ।
पृ० ३५४ पं० १५. गङ्गास्रोतस्यान्यथा प्रवृत्तस्य कर्मणोऽन्यथा प्रवर्तन मिति । अत्र 'गङ्गास्रोतस्या न्यथा प्रवृत्तस्यान्यथा प्रवर्तनम् , न त्वन्यथा प्रवृत्तस्य कर्मणोऽन्यथा प्रवर्तनमिति।' ईदृशोऽपि पाठः सम्भाव्यते।
पृ० ३५५ पं० १०. अकारणमपि कर्म, सहायापेक्षत्वात् । पुरुषकारम......। 'अपि'शब्देन कारणत्वमपि ग्राह्यम् । अत्र अकारणत्वे साध्ये सहायापेक्षत्वं हेतुः। तथा च यतः पुरुषकारं सहायमपेक्षते ततोऽकारणमपि कर्म 25 इत्याशयो भाति ।
पृ० ३५६ पं० ७. गम्यते । 'गम्यते द्रव्येणैव द्रव्यं क्रियते......' इत्यपि मूलं स्यादत्र, दृश्यतां पृ० ३७३ पं०२४।
20
१ “यथा दीप ऊष्मगुणयोगाद् वा स्नेहमादाय अर्चीरूपेण परिणमयति तथा रागादिगुणयोगात् कायादियोगवा आत्मदीपः स्कन्धानादाय कर्मतया परिणमनमापादयति । कायादिकरणयोगाच्चात्मनो वीर्यपरिणतिर्भवतीति योगशब्देनोच्यते । त(य?)था मृण्मयघटस्याग्निसंयोगाद् रक्तत्वादिपरिणतिर्घटस्यैव तथा आत्मनः कायादिकरणयोगे वीर्यपरिणतिरात्मन एव प्रादुरस्ति, न द्रव्यान्तरस्येति । यथा च स्नेहाभ्यक्ते वपुषि जलावाससि वा परागो लगति मलीभवति च तथा रागादिस्नेहाभ्यजनस्यात्मनः कार्मणशरीरपरिणामोऽपूर्वकर्मग्रहणे योग्यतामास्कन्दति ।" इति तत्त्वार्थसूत्रवृत्तौ ८।३। २ प्रभेदजिज्ञासुभिः तत्त्वार्थसूत्र[ अध्याय. २-४ ]प्रभृतिग्रन्था विलोकनीयाः । ३ “अथ यद्यपि जीवपुद्गलपरिणामयोरन्योन्यनिमित्तमात्रत्वमस्ति तथापि निश्चयनयेन तयोर्न कर्मकर्तृभाव इत्यावेदयति जीवपरिणामहेतु......। यथा कुम्भकारनिमित्तेन मृत्तिका घटरूपेण परिणमति तथा जीवसम्बन्धि मिथ्यात्वरागादिपरिणामहेतुं लब्ध्वा कर्मवर्गणायोग्यं पुदलद्रव्यं कर्मत्वेन परिणमति । पुग्गलकम्मणिमित्तं......॥ ८६ ॥ यथैव च घटनिमित्तेन ‘एवं घटं करोमि' इति कुम्भकारः परिणमति तथैवोदयागतपुद्गलकर्म हेतुं कृत्वा जीवोऽपि निर्विकारचिच्चमत्कारपरिणतिमलभमानः सन् मिथ्यात्वरागादिभावेन परिणमतीति ।” इति जयसेनकृता व्याख्या । “यतो जीवपरिणामं निमित्तीकृत्य पुद्गलाः कर्मत्वेन परिणमन्ति पुद्गलकर्म निमित्तीकृत्य जीवोऽपि परिणमतीति ... .."इतरेतरनिमित्तमात्रभवनेनैव द्वयोरपि परिणामः ।.....'ततः स्थितमेतज्जीवस्य स्वपरिणामैरेव सह कर्तृकर्मभावो भोक्तभोग्यभावश्च ।" इति अमृतचन्द्रकृता व्याख्या। ४ प्रभेदजिज्ञासुभिः तत्त्वार्थसूत्र[ अध्याय. ८]-कर्मग्रन्थादयो विलोकनीयाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org