Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 593
________________ १०० न्यायागमानुसारिणीवृत्यलङ्कतस्य नयचक्रस्य टिप्पणेषु [प्रथमः तत्र प्रत्यक्षमनुमानं च प्रमाणे द्वे एव, यस्माद् लक्षणद्वयं प्रमेयम्, न हि स्वसामान्यलक्षणाभ्यामन्यत् प्रमेयमस्ति । स्वलक्षणविषयं हि प्रत्यक्षम्, सामान्यलक्षणविषयमनुमानमिति प्रतिपादयिष्यामः । यत् तहीदमनित्यादिभिरा. कारैर्वर्णादि गृह्यतेऽसद्वा तत् कथम् ? तद् ग्रहणमस्ति, अपितु तत्र सन्धाने न प्रमाणान्तरम् । *स्वसामान्यलक्षणाभ्यां हि अव्यपदेश्यवर्णत्वाभ्यां वर्णादि गृहीत्वा, सामान्यलक्षणं वर्णादि 'अनित्यम्' इति अनित्यत्वादिना मनसा सन्धत्ते । तस्मान्न १“एवं सामान्यलक्षणम भिधाय विशेषलक्षणमाह -'प्रत्यक्षमनुमानं च प्रमाणे ।'..... यस्माल्लक्षणद्वयं प्रमेयम् । ...... यदाह - 'न हि स्वसामान्यलक्षणाभ्यामपरं प्रमेयमस्ति । स्वलक्षणविषयं प्रत्यक्षम्, सामान्यलक्षणविषयमनुमानमिति प्रतिपादयिष्यामः। [पृ० १७० ] 1....."उक्तं चाचार्येण - 'यस्माल्लक्षणद्वयं प्रमेयम्' इति [पृ० २१३]"प्र०वार्तिकालं० पृ० १६९ । तुलना-नयचक्रवृत्ति. पृ० ८८ पं० ३, ४, १८-२४, टि. १० । “तत्र फल-स्वरूपगोचर-संख्यासु चतस्रो विप्रतिपत्तयः, तासु संख्याविप्रतिपत्तिनिराकरणार्थमाह-प्रत्यक्षमनुमानं चेत्यादि [पृ० ११ B] |... 'प्रत्यक्षमनुमानं च' इत्येकं वाक्यम् , 'प्रमाणे' इति च द्वितीयम् । एवं च विवियते-प्रमाणे एव, न प्रमाणानि एक प्रमाण वेत्यर्थः । तस्मादेव वृत्तौ अवधारणं कृतम् -द्वे एव इति । वाक्यस्य व्यवच्छेदफलत्वात् 'एव'शब्दाभावेऽपि तदर्थो लभ्यते । ......के ते द्वे इति....."उच्यते-प्रत्यक्षमनुमानं चेति [पृ० १२ B] | ..."अत्र कारणमाह-यस्मालक्षणद्वयं प्रमेयमिति । तद् विवृणोति-न हीत्यादिना [पृ० १३ A]...प्रमेयद्वित्वात् प्रमाणद्वित्वमिति कथमित्याह -स्वलक्षणविषयं हील्यादिना। 'हि'शब्दोऽवधारणार्थः - स्खलक्षणविषयं प्रत्यक्षमेव सामान्यलक्षणविषयमनुमानमेव । प्रमाणान्तरं नास्ति । इमं चार्थ विस्तरेण 'खलक्षणमनिर्देश्यं ग्राह्यमेदात्' [प्र० समु० २।२] इत्यादिना प्रतिपादयिष्याम इति दर्शयितुमाह-प्रतिपादयिष्याम इति [पृ० १४ B] 1"-विशाला। २“मन्यत्"-नयचक्रवृत्ति. पृ० ८८,प्र०वा०म० पृ. १३२ । “मपरं" - प्र० वार्तिकालं० पृ० १६९ । ३ “खलक्षणविषयं हि प्रत्यक्षम् , सामान्यलक्षणविषयमनुमानम् ।" - तत्त्वार्थरा० पृ. ५६ पं० ३०। ४ दृश्यतां टिपृ. ९९ टि. ८ । “यत् तहीदमनित्यादिभिराकारैर्वर्णादि गृह्यते तत् कथम् ?"-प्र० वार्तिकालं० पृ. २२७ । “यत् तीत्यादि । यदि प्रमेयनियमः 'स्वसामान्यलक्षणाभ्यामन्यत् प्रमेयं नारत्येव' इत्यभ्युपगम्यते तर्हि नीलादिषु कृतकत्वादिलिङ्गदर्शनात् 'रूपमनित्यम्' इत्यादि ग्रहणं न स्यात् । तथाहि-नीलादि खलक्षणम्, अनित्यत्वं च सामान्यलक्षणम् ।.."तस्मा दिदं सामान्यविशेषरूपं प्रमेयान्तरमेव ।...तस्मात् 'रूपमनित्यम्' इत्यादि सामान्यविशेषविषयग्रहणं प्रामाणान्तरमेव । तथाहि-न तत् प्रत्यक्षं सामान्यस्यापि ग्रहणात् । [पृ० १४ B] | नाप्यनुमानम् , विशेषस्यापि ग्रहणात् लिङ्गाभावेऽपि तथाप्रतीतिसम्भवाच्च । तत् कथमिति तद् ग्रहणं कथं न प्रमाणान्तरमित्यर्थः । असकृदिति । अनेनापि विशेषदृष्टं नाम यदनुमानं तत् प्रमाणान्तरमिति दर्शयति ।...... एकदा प्रत्यक्षेणानिधूमपरिच्छेदे पुनरपि परम्परया तेनैव धूमेन 'स एवायमग्निः' इति परिच्छिन त्ति तदा विशेषदृष्टं नाम अग्निग्रहणं प्रमाणान्तरम् , अनुमानस्य सामान्यतो दृष्टत्वात् । [पृ. १५ A7"-विशाला। "प्रमेयनियमे वर्णानित्यता न प्रती यते । प्रमाणमन्यत् तद्बुद्धिविना लिङ्गेन सम्भवात् ॥२। ७६ ॥ विशेषदृष्टे लिङ्गस्य सम्बन्धस्याप्रसिद्धितः । तत् प्रमाणान्तरं मेयबहुत्वात् बहुतापि वा ॥ २।७७ ॥ प्रमाणानामनेकस्य वृत्तेरेकत्र वा यथा । विशेषदृष्टेनैकत्रिसंख्यापोहो न वा भवेत् ॥ २॥७८ ॥ विषयानियमादन्यप्रमेयस्य च सम्भवात् ।” इति प्रमाणवार्तिककारिकाणां मनोरथनन्दिवृत्तेः [पृ. १३९] प्रमाणवार्तिकालङ्काराच्च [पृ० २२७] अयं पूर्वपक्षो विस्तरेण वेदितव्यः। ५"असकृति [प्रमाण]समुच्चयं व्याचष्टे ।”-प्र० वा० म०टि० पृ० १३९। ६ "तथा ग्रहणमस्ति"-Psv-2 | "त्र्यादि संख्या निरासश्च नास्ति, प्रमेयान्तरसंभवात् । यस्मात् प्रमेयद्वित्वेन प्रमाणद्वयोक्तौ यदा प्रमेयान्तरसम्भवः तदा तद्मकं प्रमाणान्तरं स्यादिति न द्वे एव प्रमाणे इति चेत्, तहहणमस्ति इत्यत्र नापलापः क्रियते, अपितु तत्र सन्धान(ने?)न प्रमाणान्तरम [पृ० १५ A]। इदं तावत् पूर्वस्य उत्रम् । तत्र इति अनित्यादौ वर्णादौ च, सन्धान योजनम्, यत् तद्योजने प्रवृत्तं तन्निमित्तं ज्ञानं तद् न प्रमाणान्तरम् [ पृ० १५ B11"-विशाला०। ७ * * PSV-2. अनुसारेणेत्थमस्माभिः संस्कृते ऽनूदितम् । प्रमाणवार्तिकालंकारे त्वत्र अन्यथा पाठः । तथाहि "स्वसामान्यलक्षणाभ्यां ह्यव्यपदेश्य-वर्णत्वाभ्यां वर्णादि गृहीत्वा अनित्यतया च 'अनित्यं वर्णादि' इति मनसा सन्धत्ते' [ इति ] यदुक्तमाचार्येण तत्रायं क्रमो वर्णितः 'योजनाद् वर्णसामान्ये' [प्र. वा० २।७९] इत्यादिना । अनुमानेन वर्णत्वसामान्येऽनित्यताप्रतिपत्तौ प्रमाणान्तरम् ।"-प्र० वार्तिकालं० पृ. २३६ । “तद्योजनमपि कथमित्याह-स्वसामान्यलक्षणाभ्यामित्यादि । आदौ तावद् वर्णादि अव्यपदेश्यं खलक्षणं प्रत्यक्षेण गृह्णाति, पश्चात् [देखो नऽम् VT.%D] तदेव वर्णत्वादिसामान्यलक्षणं वा सविकल्पेन मनोविज्ञानेन । तस्मात् सामान्यलक्षणमनित्यत्वाद्यपि 'यत् किञ्चित् कृतकं तत् सर्वमनित्यम्' इत्येवं गृहीत्वा ततः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662