________________
१००
न्यायागमानुसारिणीवृत्यलङ्कतस्य नयचक्रस्य टिप्पणेषु
[प्रथमः
तत्र प्रत्यक्षमनुमानं च प्रमाणे द्वे एव, यस्माद् लक्षणद्वयं प्रमेयम्, न हि स्वसामान्यलक्षणाभ्यामन्यत् प्रमेयमस्ति । स्वलक्षणविषयं हि प्रत्यक्षम्, सामान्यलक्षणविषयमनुमानमिति प्रतिपादयिष्यामः । यत् तहीदमनित्यादिभिरा. कारैर्वर्णादि गृह्यतेऽसद्वा तत् कथम् ? तद् ग्रहणमस्ति, अपितु तत्र सन्धाने न प्रमाणान्तरम् । *स्वसामान्यलक्षणाभ्यां हि अव्यपदेश्यवर्णत्वाभ्यां वर्णादि गृहीत्वा, सामान्यलक्षणं वर्णादि 'अनित्यम्' इति अनित्यत्वादिना मनसा सन्धत्ते । तस्मान्न
१“एवं सामान्यलक्षणम भिधाय विशेषलक्षणमाह -'प्रत्यक्षमनुमानं च प्रमाणे ।'..... यस्माल्लक्षणद्वयं प्रमेयम् । ...... यदाह - 'न हि स्वसामान्यलक्षणाभ्यामपरं प्रमेयमस्ति । स्वलक्षणविषयं प्रत्यक्षम्, सामान्यलक्षणविषयमनुमानमिति प्रतिपादयिष्यामः। [पृ० १७० ] 1....."उक्तं चाचार्येण - 'यस्माल्लक्षणद्वयं प्रमेयम्' इति [पृ० २१३]"प्र०वार्तिकालं० पृ० १६९ । तुलना-नयचक्रवृत्ति. पृ० ८८ पं० ३, ४, १८-२४, टि. १० । “तत्र फल-स्वरूपगोचर-संख्यासु चतस्रो विप्रतिपत्तयः, तासु संख्याविप्रतिपत्तिनिराकरणार्थमाह-प्रत्यक्षमनुमानं चेत्यादि [पृ० ११ B] |... 'प्रत्यक्षमनुमानं च' इत्येकं वाक्यम् , 'प्रमाणे' इति च द्वितीयम् । एवं च विवियते-प्रमाणे एव, न प्रमाणानि एक प्रमाण वेत्यर्थः । तस्मादेव वृत्तौ अवधारणं कृतम् -द्वे एव इति । वाक्यस्य व्यवच्छेदफलत्वात् 'एव'शब्दाभावेऽपि तदर्थो लभ्यते । ......के ते द्वे इति....."उच्यते-प्रत्यक्षमनुमानं चेति [पृ० १२ B] | ..."अत्र कारणमाह-यस्मालक्षणद्वयं प्रमेयमिति । तद् विवृणोति-न हीत्यादिना [पृ० १३ A]...प्रमेयद्वित्वात् प्रमाणद्वित्वमिति कथमित्याह -स्वलक्षणविषयं हील्यादिना। 'हि'शब्दोऽवधारणार्थः - स्खलक्षणविषयं प्रत्यक्षमेव सामान्यलक्षणविषयमनुमानमेव । प्रमाणान्तरं नास्ति । इमं चार्थ विस्तरेण 'खलक्षणमनिर्देश्यं ग्राह्यमेदात्' [प्र० समु० २।२] इत्यादिना प्रतिपादयिष्याम इति दर्शयितुमाह-प्रतिपादयिष्याम इति [पृ० १४ B] 1"-विशाला। २“मन्यत्"-नयचक्रवृत्ति. पृ० ८८,प्र०वा०म० पृ. १३२ । “मपरं" - प्र० वार्तिकालं० पृ० १६९ । ३ “खलक्षणविषयं हि प्रत्यक्षम् , सामान्यलक्षणविषयमनुमानम् ।" - तत्त्वार्थरा० पृ. ५६ पं० ३०। ४ दृश्यतां टिपृ. ९९ टि. ८ । “यत् तहीदमनित्यादिभिराकारैर्वर्णादि गृह्यते तत् कथम् ?"-प्र० वार्तिकालं० पृ. २२७ । “यत् तीत्यादि । यदि प्रमेयनियमः 'स्वसामान्यलक्षणाभ्यामन्यत् प्रमेयं नारत्येव' इत्यभ्युपगम्यते तर्हि नीलादिषु कृतकत्वादिलिङ्गदर्शनात् 'रूपमनित्यम्' इत्यादि ग्रहणं न स्यात् । तथाहि-नीलादि खलक्षणम्, अनित्यत्वं च सामान्यलक्षणम् ।.."तस्मा दिदं सामान्यविशेषरूपं प्रमेयान्तरमेव ।...तस्मात् 'रूपमनित्यम्' इत्यादि सामान्यविशेषविषयग्रहणं प्रामाणान्तरमेव । तथाहि-न तत् प्रत्यक्षं सामान्यस्यापि ग्रहणात् । [पृ० १४ B] | नाप्यनुमानम् , विशेषस्यापि ग्रहणात् लिङ्गाभावेऽपि तथाप्रतीतिसम्भवाच्च । तत् कथमिति तद् ग्रहणं कथं न प्रमाणान्तरमित्यर्थः । असकृदिति । अनेनापि विशेषदृष्टं नाम यदनुमानं तत् प्रमाणान्तरमिति दर्शयति ।...... एकदा प्रत्यक्षेणानिधूमपरिच्छेदे पुनरपि परम्परया तेनैव धूमेन 'स एवायमग्निः' इति परिच्छिन त्ति तदा विशेषदृष्टं नाम अग्निग्रहणं प्रमाणान्तरम् , अनुमानस्य सामान्यतो दृष्टत्वात् । [पृ. १५ A7"-विशाला। "प्रमेयनियमे वर्णानित्यता न प्रती यते । प्रमाणमन्यत् तद्बुद्धिविना लिङ्गेन सम्भवात् ॥२। ७६ ॥ विशेषदृष्टे लिङ्गस्य सम्बन्धस्याप्रसिद्धितः । तत् प्रमाणान्तरं मेयबहुत्वात् बहुतापि वा ॥ २।७७ ॥ प्रमाणानामनेकस्य वृत्तेरेकत्र वा यथा । विशेषदृष्टेनैकत्रिसंख्यापोहो न वा भवेत् ॥ २॥७८ ॥ विषयानियमादन्यप्रमेयस्य च सम्भवात् ।” इति प्रमाणवार्तिककारिकाणां मनोरथनन्दिवृत्तेः [पृ. १३९] प्रमाणवार्तिकालङ्काराच्च [पृ० २२७] अयं पूर्वपक्षो विस्तरेण वेदितव्यः। ५"असकृति [प्रमाण]समुच्चयं व्याचष्टे ।”-प्र० वा० म०टि० पृ० १३९। ६ "तथा ग्रहणमस्ति"-Psv-2 | "त्र्यादि संख्या निरासश्च नास्ति, प्रमेयान्तरसंभवात् । यस्मात् प्रमेयद्वित्वेन प्रमाणद्वयोक्तौ यदा प्रमेयान्तरसम्भवः तदा तद्मकं प्रमाणान्तरं स्यादिति न द्वे एव प्रमाणे इति चेत्, तहहणमस्ति इत्यत्र नापलापः क्रियते, अपितु तत्र सन्धान(ने?)न प्रमाणान्तरम [पृ० १५ A]। इदं तावत् पूर्वस्य उत्रम् । तत्र इति अनित्यादौ वर्णादौ च, सन्धान योजनम्, यत् तद्योजने प्रवृत्तं तन्निमित्तं ज्ञानं तद् न प्रमाणान्तरम् [ पृ० १५ B11"-विशाला०। ७ * * PSV-2. अनुसारेणेत्थमस्माभिः संस्कृते ऽनूदितम् । प्रमाणवार्तिकालंकारे त्वत्र अन्यथा पाठः । तथाहि "स्वसामान्यलक्षणाभ्यां ह्यव्यपदेश्य-वर्णत्वाभ्यां वर्णादि गृहीत्वा अनित्यतया च 'अनित्यं वर्णादि' इति मनसा सन्धत्ते' [ इति ] यदुक्तमाचार्येण तत्रायं क्रमो वर्णितः 'योजनाद् वर्णसामान्ये' [प्र. वा० २।७९] इत्यादिना । अनुमानेन वर्णत्वसामान्येऽनित्यताप्रतिपत्तौ प्रमाणान्तरम् ।"-प्र० वार्तिकालं० पृ. २३६ । “तद्योजनमपि कथमित्याह-स्वसामान्यलक्षणाभ्यामित्यादि । आदौ तावद् वर्णादि अव्यपदेश्यं खलक्षणं प्रत्यक्षेण गृह्णाति, पश्चात् [देखो नऽम् VT.%D] तदेव वर्णत्वादिसामान्यलक्षणं वा सविकल्पेन मनोविज्ञानेन । तस्मात् सामान्यलक्षणमनित्यत्वाद्यपि 'यत् किञ्चित् कृतकं तत् सर्वमनित्यम्' इत्येवं गृहीत्वा ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org