Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 580
________________ पृ० ३११ पं० २४-२५.] टिप्पण | ટક चहेतुत्वेन प्रयोगे सर्वसंख्यया ६५५३६ हेतवो भवन्ति । सांयोगिकभङ्गसंख्यानयनोपायः प्रवचनसारोद्धारवृत्त्यादौ विस्तरेण वर्णितः । तदनुसारेणात्र षोडश पदानि इत्थं स्थाप्यन्ते - १० 99 9 २ ३ ४ ५ ६ ७ ८ ९ १६ १५ १४ १३ | १२ | ११ १० ९ ८ ७ ६ १२ | १३ | १४ ५ ४ ३ अत्र च प्रवचनसारोद्धारवृत्त्यादिवर्णितप्रक्रियानुसारेण प्रत्येकं १६ भङ्गाः, द्विक्संयोगे १२०, त्रिकसंयोगे ५६०, चतुष्कसंयोगे १८२०, पञ्चकसंयोगे ४३६८, षकसंयोगे ८००८, सप्तकसंयोगे ११४४०, अष्टकसंयोगे १२८७०, नवकसंयोगे ११४४०, दशकसंयोगे ८००८, एकादशकसंयोगे ४३६८, द्वादशकसंयोगे १८२०, त्रयोदशकसंयोगे ५६०, चर्तु - 5 दशकसंयोगे १२०, पञ्चदशकसंयोगे १६, षोडशकसंयोगे १, इत्येवं सर्वसंख्यया ६५५३५ भङ्गा भवन्ति । प्रवचनसारोद्वारवृत्त्यादिवर्णनानुसारेण एतन्मध्ये एकस्य प्रक्षेपेण षोडशानां हेतूनां ६५५३६ भङ्गा लभ्यन्ते । अतो 'हेत्वग्रं पञ्चषष्टिसहस्राणि पञ्चशतानि च षटूत्रिंशानि' इत्यभिहितमत्र नयचक्रवृत्तिकृद्भिरिति ध्येयम् । । १ २ ३ ४ ५ ६ ७ १० ९ . ७ ६ ५ १ "इदानीं 'थंडिला चउवीस उ सेहस्से त्ति द्वारमेकनवतितममाह - अणावायमसंलोए परस्साणुवधायए । समे अज्झसिरे यावि अचिरकालकर्यमि य ॥ ७०९ ॥ विच्छिन्ने दूरमोगाढेऽनासन्ने बिलवज्जिए । तसपाणबीयरहिए उच्चाराईणि वोसिरे || ७१० ॥ अनापातमसंलोकम् १ परस्यानौपघातिकम् २ समम् ३ अशुषिरम् ४ अचिरकालकृतम् ५ विस्तीर्णम् ६ दूरमवगाढम् ७ अनासन्नम् ८ बिलवर्जितम् ९ त्रसप्राणबीजरहितम् १० यत् स्थण्डिलं तत्र उच्चारादीनि पुरीषप्रश्रवणप्रभृतीनि व्युत्सृजेत् । [ पृ० २०४]अमीषां चानन्तरोदितानां दशानां पदानामेकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवदशकैः संयोगाः कर्तव्याः। तेषु च भङ्गाः सर्वसंख्यया चतुर्विंशत्यधिकं सहस्रम् । अथ कस्मिन् संयोगे कियन्तो भङ्गकाः ? उच्यन्ते, इह भङ्गानामानयनार्थमियं करणगाथा – 'उभयमुहं रासिदुगं हेडिलाणंतरेण भय पढमं । लद्धऽहरासिविभत्ते तस्सुवरि गुणित्तु संजोगा ॥' [ पञ्चवस्तु ॥ ४०३ ॥ ], अस्या अक्षरगमनिका -इह दशानां पदानां द्व्यादिसंयोगभङ्गा आनेतुमभिप्रेता-स्ततस्तावत्प्रमाणौ द्वौ राशी उभयमुखौ स्थाप्येते । किमुक्तं भवति ? एककादीन् दशकपर्यन्तानङ्कान् पूर्वानुपूर्व्या उपरि स्थापयित्वा तेषामधस्तात् पश्चानुपूर्व्या भूय एककादयो दशकपर्यन्ता अङ्काः स्थापनीयाः । स्थापना चेयम् - १५ | १६ २ 9 ८ ९ १० ३ २ १ For Private & Personal Use Only अत्राधस्तनराशिपर्यन्तवर्तिन एककस्योपरि यो दशकस्ते एककसंयोगे दश भङ्गा द्रष्टव्याः । न च तत्र करणगाथाया व्यापारः, द्व्यादिसंयोगभङ्गानयनायैव तस्याः प्रवृत्तत्वात् । ततोऽधस्तन राशिपर्यन्तवर्तिन एककस्यानन्तरेण द्विकलक्षणेनोपरितनराशौ पश्चानुपूर्व्या प्रथममङ्कं दशकरूपं भजेत्, तस्य भागाकारं कुर्यात् । ततो लब्धाः पञ्च । यतो दश द्विधा विभक्ताः पञ्चैव भवन्ति । 'लद्धऽहरा सिविभत्ते 'ति अधोराशिना द्विकलक्षणेनोपरितने प्रथमे अङ्के दशकलक्षणे विभक्ते सति लब्धेन अङ्केन पञ्चकेन तस्य द्विकलक्षणस्योपरितनमङ्कं नवकलक्षणं गुणयेत् ताडयेद्, जाताः पञ्चचत्वारिंशत् । इत्थं च गुणयित्वा संयोगाः संयोगभङ्गा वाच्याः, यथा द्विकसंयोगे भङ्गाः पञ्चचत्वारिंशदिति । ततो भूयोऽपि त्रिकसंयोगभङ्गानयनाय प्रथमपादरहिता करणगाथा व्यापार्यते यथा - अधस्तनराशिस्थितेन द्विकादनन्तरेण त्रिकेणोपरितनरा शिव्यवस्थितं त्रिकोपरितनाष्टकरूपाङ्कापेक्षया आद्यं पञ्चचत्वारिंशलक्षणमङ्कं भजेत्, ततो लब्धाः पञ्चदश, यतः पञ्चचत्वारिंशत् त्रिधा विभक्ताः पञ्चदशैव भवन्ति । तैश्चाधोराशिना उपरितने अङ्के विभक्ते लब्धैः पञ्चदशभिस्त्रिकलक्षणस्याङ्कस्योपरितन मष्ट क्लक्षणमङ्कं गुणयेत् । गुणिते च सति जातं विंशत्युत्तरं शतम् । एतावन्तस्त्रिकसंयोगे भङ्गाः । एवं चैककसंयोगे १० दश भङ्गाः, द्विकसंयोगे ४५ पञ्चचत्वारिंशत्, त्रिकसंयोगे १२० . विंशं शतम्, चतुष्कसंयोगे २१० द्वे शते दशोत्तरे, पञ्चकसंयोगे २५२ द्वे शते द्विपञ्चाशदधिके, षकसंयोगे २१० द्वे शते दशोत्तरे, सप्तकसंयोगे १२० विंशं शतम्, अष्टकसंयोगे ४५ पञ्चचत्वारिंशत्, नवकसंयोगे १० दश दशकसंयोगे १ एकः । सर्वमीलने च त्रयोविंशत्युत्तरं सहस्रमशुद्धभङ्गानां भवति । चतुर्विंशस्तु शुद्धो भङ्गो यद्यपि करणेन नागच्छति तथाप्येतन्मध्ये तं प्रक्षिप्य भङ्गसङ्ख्या पूरणीयाः यतः सर्वभङ्गप्रसारे क्रियमाणे पर्यन्ते शुद्धभङ्गस्या गतिः । उक्तं च [ पञ्चवस्तुग्रन्थे ] - दस पणयाल विसोत्तरसयं च दो सय दसुत्तरा दो य । बावन्न दो दसुत्तर विसुत्तरं पंचचत्ता य ॥ ४०४ ॥ दस एक्को य कमेणं भंगा एगादिचारणाए सुं । सुद्धेण समं मिलिया भंगसहस्सं चउन्चीसं ॥ ४०५ ॥” इति प्रवचनसारोद्धारवृत्तौ पृ० २०४, २०६ - २०७ । Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662