Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 430
________________ प्रधानसाधकहेतूनामतथार्थत्वाभिधानम् ] द्वादशारं नयचक्रम् त्रयविषयसमन्वय...... 'वीतानां व्यवहारसम्प्रसिद्ध . . . . . . . . हेतुत्वावधारणार्थानां चावीतानामतथार्थत्वात् समस्ततन्त्रार्थविघटनमेव । [तत्वार्थ० ५।२३] इति सामान्येन अणवः स्कन्धाश्च [तत्त्वार्थ० ५।२५ ] मूर्तत्वात् पृथिवीवद् वाय्वादयोऽपि । शब्दबन्ध सौम्यस्थौल्यादयस्तु स्कन्धेष्वेव पुद्गलेष्विति । आकाशस्यावगाहोकारस्य नैते धर्माः सन्तीति वादपरमेश्वरमतम् , अतो वियदर्जान्युदाहरणानि इत्युक्तम् । ___इत्थं सुखदुःखमोहानां जात्यन्तरत्वासिद्धिरापादिता । तस्मादेव च वीतावीतानां सुखादित्रैगुण्यकारणपूर्वकत्वानुमानस्यानुमानाभासतेत्यत आह - त्रयविषयसमन्वयेत्यादि यावद् वीतानाम् , व्यवहारसम्प्रसिद्धेत्यादि यावच्च हेतुत्वावधारणार्थानां चावीतानामतथार्थत्वादिति । तेषां वीतावीतानां लक्षणं तद्यथाप्रागनुमानं सप्रभेदं व्याख्याय तेषां यदेतत् सामान्यतो दृष्टं शेषवदेष हेतुरतीन्द्रियाणां भावानां समधिगमे, तस्य प्रयोगोपचारविशेषाद् द्वैविध्यम् , वीत इति सामान्येन, विशेषेण तु स्वरूपाद् वीतसिद्धिः, यदा हेतुः 10 १शब्दसम्बद्ध प्र० । “रूपरसगन्धवर्णवन्तः पुद्गलाः । ५।२३ । शब्दबन्धसौक्ष्म्यस्थौल्यभेदतमश्छायातपोद्योतवन्तश्च । ५।२४ । अगवः स्कन्धाश्च । ५।२५ ।" इति तत्त्वार्थसूत्रे ॥ २ यवस्तु प्र०॥ ३ “गतिस्थि. त्युपग्रहो धर्माधर्मयोरुपकारः ।५।१७। आकाशस्यावगाहः ।५।१८' इति तत्त्वार्थसूत्रे ॥ ४°देव व वीता प्र०॥ ५ दृश्यतां पृ० २३२-१॥ ६ “प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वकमाप्त श्रुतिराप्तवचनं तु॥ ५ ॥ सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात्......॥ ६॥" साङ्ख्यका० ॥ ७"तस्मात् सिद्धं सामान्यतो दृष्टादतीन्द्रियाणामर्थानां समधिगमः । तस्य प्रयोगमात्रभेदाद् द्वैविध्यम् - वीतः अवीत इति । तयोर्लक्षणमामनन्ति'यदा हेतुः स्वरूपेण साध्यसिद्धौ प्रयुज्यते । स वीतोऽर्थान्तरक्षेपादितरः परिशेषितः ॥ १ ॥' स्वरूपं हि साधनस्य द्विविधम्-साधारणमसाधारणं च । तत्र साधारणं साध्यसहभावि' । असाधारणं पुनः परिमाणमन्वयः सङ्घातपरार्थत्वमित्यादि । तत्र यदा हेतुः परपक्षम[न]पेक्ष्य यथार्थेन स्वरूपेण साध्यसिद्धावपदिश्यते तदा वीताख्यो भवति । यदा तु स्वसाध्यादर्थान्तरभूतानां प्रासङ्गिकाणां क्षेपमपोहं कृत्वा परिशेषतः साध्यसिद्धावपदिश्यते तदाऽवीताख्यो भवति । तद्यथा-न चेत् परमाणुपुरुषेश्वरकर्मदैवकालस्वभावयदृच्छाभ्यो जगदुत्पत्तिः सम्भवति परिशेषतः प्रधानादिति तदा पुनर. वीताख्यो भवति । तत्र यदा वीतो हेतुः.....'वाक्यभावमुपनीयते तदा अवयविवाक्यं परिकल्प्यते । तस्य पुनरवयवाः....."साध्यावधारणं प्रतिज्ञा। साधनसमासवचनं हेतुः । साध्यतेऽनेनेति साधनं लिङ्गम् , समासः संक्षेपः, साधनस्य समासवचनं साधनसमासवचनम् । साधनग्रहणं तदाभासप्रतिषेधार्थम् , न हि तानि साधनं संशयविपर्ययहेतुत्वात् । समासग्रहणमवयवान्तरावकाशप्रदानार्थम् । लिङ्गनिर्देशमात्रं हेतुः । यस्तु तस्य साध्यसहभावित्वलक्षणः प्रपञ्चः सोऽवयवान्तराणीत्युक्त भवति । उदाहरणं त्वत्र नि(तन्नि ?)दर्शनं दृष्टान्तः, तस्य साधनस्य साध्येन सहभावित्वनिदर्शनं दृष्टान्तः, तद्यथासंहत्यकारिणां परार्थत्वं दृष्टं यथा शयनासनरथचरणानाम् ।.."साध्यदृष्टान्तयोरेकक्रिया उपसंहारः उपनयः, साध्यस्य चक्षुरादिपारार्थ्यलक्षणस्य दृष्टान्तस्य च शयनादेरेकक्रिया उपसंहारः । तत्रार्थान्तरभूतत्वात् साध्यदृष्टान्तयोरञ्जसा नैकक्रिया उपपद्यते, तेनैव तस्यानिदर्शनादित्यतो धर्मसामान्याद् यथेदं तथेदमित्य कक्रिया उपचर्यते । यथा शयनादयः संहतत्वात् परार्था एवं चक्षुरादिभिरपि परार्थैर्भवितव्यम् । योऽसौ परः स पुरुषः । तद्वशात् प्रतिज्ञाभ्यासो निगमनम् । हेतुदृष्टान्तोपसंहारापेक्षया पुनरभ्यासस्तन्निगमनम् , तद्यथा-तस्मादस्ति पुरुषः । इत्येषामवयवानां विशिष्टार्थसमुदायो वाक्यमित्यतिदिश्यते ।....... वीतः, तस्य पुरस्तात् प्रयोगं न्याय्यमाचार्या मन्यन्ते । किं कारणम् ? अवीतलक्षणाविरोधात् , अवीतस्य हि लक्षणं परिशेषतः साध्यानुग्रहः । तत्रान्वयादिना स्वरूपेणानधिगते प्रधानलक्षणे धर्मिणि परपक्षप्रतिषेधमात्रेण उपसंहारे क्रियमाणे परिशेषलक्षणं बाध्यते । कस्मात् ? इह प्रतिषेधमात्रमादावुच्यते, तेन यथा हेतुविरोधात् परमाण्वादिभ्यो न व्यक्तमुत्पद्यते तथा हेत्वभावात प्रधानादपि नोत्पद्यते इति शक्यं कल्पयितुम् , अतस्तद्व्यवच्छेदोऽपि चावीताद् गम्यते, तथा सति कः परिशेषः स्यात् ? खरूपेण तु परिच्छिन्ने धर्मिणि उपसंहारो यथावदवकल्पते-न चेत् परमाण्वादिभ्य उत्पद्यते परिशेषतः प्रधानादेव व्यक्तमुत्पद्यते । परिशेष इति यथोक्तेभ्योऽन्वयादिभ्य इत्युक्तं भवति । तस्मात् प्राग् वीतप्रयोगः । इति सिद्धं सामान्यतो दृष्टादनुमानादतीन्द्रियाणामर्थानां समधिगम इति ।" इति साङ्ख्यकारिकाया युक्तिदीपिकावृत्ती, का० ६ ॥ नय०४० For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662