________________
प्रधानसाधकहेतूनामतथार्थत्वाभिधानम् ] द्वादशारं नयचक्रम्
त्रयविषयसमन्वय...... 'वीतानां व्यवहारसम्प्रसिद्ध . . . . . . . . हेतुत्वावधारणार्थानां चावीतानामतथार्थत्वात् समस्ततन्त्रार्थविघटनमेव । [तत्वार्थ० ५।२३] इति सामान्येन अणवः स्कन्धाश्च [तत्त्वार्थ० ५।२५ ] मूर्तत्वात् पृथिवीवद् वाय्वादयोऽपि । शब्दबन्ध सौम्यस्थौल्यादयस्तु स्कन्धेष्वेव पुद्गलेष्विति । आकाशस्यावगाहोकारस्य नैते धर्माः सन्तीति वादपरमेश्वरमतम् , अतो वियदर्जान्युदाहरणानि इत्युक्तम् । ___इत्थं सुखदुःखमोहानां जात्यन्तरत्वासिद्धिरापादिता । तस्मादेव च वीतावीतानां सुखादित्रैगुण्यकारणपूर्वकत्वानुमानस्यानुमानाभासतेत्यत आह - त्रयविषयसमन्वयेत्यादि यावद् वीतानाम् , व्यवहारसम्प्रसिद्धेत्यादि यावच्च हेतुत्वावधारणार्थानां चावीतानामतथार्थत्वादिति । तेषां वीतावीतानां लक्षणं तद्यथाप्रागनुमानं सप्रभेदं व्याख्याय तेषां यदेतत् सामान्यतो दृष्टं शेषवदेष हेतुरतीन्द्रियाणां भावानां समधिगमे, तस्य प्रयोगोपचारविशेषाद् द्वैविध्यम् , वीत इति सामान्येन, विशेषेण तु स्वरूपाद् वीतसिद्धिः, यदा हेतुः 10
१शब्दसम्बद्ध प्र० । “रूपरसगन्धवर्णवन्तः पुद्गलाः । ५।२३ । शब्दबन्धसौक्ष्म्यस्थौल्यभेदतमश्छायातपोद्योतवन्तश्च । ५।२४ । अगवः स्कन्धाश्च । ५।२५ ।" इति तत्त्वार्थसूत्रे ॥ २ यवस्तु प्र०॥ ३ “गतिस्थि. त्युपग्रहो धर्माधर्मयोरुपकारः ।५।१७। आकाशस्यावगाहः ।५।१८' इति तत्त्वार्थसूत्रे ॥ ४°देव व वीता प्र०॥ ५ दृश्यतां पृ० २३२-१॥ ६ “प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वकमाप्त श्रुतिराप्तवचनं तु॥ ५ ॥ सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात्......॥ ६॥" साङ्ख्यका० ॥ ७"तस्मात् सिद्धं सामान्यतो दृष्टादतीन्द्रियाणामर्थानां समधिगमः । तस्य प्रयोगमात्रभेदाद् द्वैविध्यम् - वीतः अवीत इति । तयोर्लक्षणमामनन्ति'यदा हेतुः स्वरूपेण साध्यसिद्धौ प्रयुज्यते । स वीतोऽर्थान्तरक्षेपादितरः परिशेषितः ॥ १ ॥' स्वरूपं हि साधनस्य द्विविधम्-साधारणमसाधारणं च । तत्र साधारणं साध्यसहभावि' । असाधारणं पुनः परिमाणमन्वयः सङ्घातपरार्थत्वमित्यादि । तत्र यदा हेतुः परपक्षम[न]पेक्ष्य यथार्थेन स्वरूपेण साध्यसिद्धावपदिश्यते तदा वीताख्यो भवति । यदा तु स्वसाध्यादर्थान्तरभूतानां प्रासङ्गिकाणां क्षेपमपोहं कृत्वा परिशेषतः साध्यसिद्धावपदिश्यते तदाऽवीताख्यो भवति । तद्यथा-न चेत् परमाणुपुरुषेश्वरकर्मदैवकालस्वभावयदृच्छाभ्यो जगदुत्पत्तिः सम्भवति परिशेषतः प्रधानादिति तदा पुनर. वीताख्यो भवति । तत्र यदा वीतो हेतुः.....'वाक्यभावमुपनीयते तदा अवयविवाक्यं परिकल्प्यते । तस्य पुनरवयवाः....."साध्यावधारणं प्रतिज्ञा। साधनसमासवचनं हेतुः । साध्यतेऽनेनेति साधनं लिङ्गम् , समासः संक्षेपः, साधनस्य समासवचनं साधनसमासवचनम् । साधनग्रहणं तदाभासप्रतिषेधार्थम् , न हि तानि साधनं संशयविपर्ययहेतुत्वात् । समासग्रहणमवयवान्तरावकाशप्रदानार्थम् । लिङ्गनिर्देशमात्रं हेतुः । यस्तु तस्य साध्यसहभावित्वलक्षणः प्रपञ्चः सोऽवयवान्तराणीत्युक्त भवति । उदाहरणं त्वत्र नि(तन्नि ?)दर्शनं दृष्टान्तः, तस्य साधनस्य साध्येन सहभावित्वनिदर्शनं दृष्टान्तः, तद्यथासंहत्यकारिणां परार्थत्वं दृष्टं यथा शयनासनरथचरणानाम् ।.."साध्यदृष्टान्तयोरेकक्रिया उपसंहारः उपनयः, साध्यस्य चक्षुरादिपारार्थ्यलक्षणस्य दृष्टान्तस्य च शयनादेरेकक्रिया उपसंहारः । तत्रार्थान्तरभूतत्वात् साध्यदृष्टान्तयोरञ्जसा नैकक्रिया उपपद्यते, तेनैव तस्यानिदर्शनादित्यतो धर्मसामान्याद् यथेदं तथेदमित्य कक्रिया उपचर्यते । यथा शयनादयः संहतत्वात् परार्था एवं चक्षुरादिभिरपि परार्थैर्भवितव्यम् । योऽसौ परः स पुरुषः । तद्वशात् प्रतिज्ञाभ्यासो निगमनम् । हेतुदृष्टान्तोपसंहारापेक्षया पुनरभ्यासस्तन्निगमनम् , तद्यथा-तस्मादस्ति पुरुषः । इत्येषामवयवानां विशिष्टार्थसमुदायो वाक्यमित्यतिदिश्यते ।....... वीतः, तस्य पुरस्तात् प्रयोगं न्याय्यमाचार्या मन्यन्ते । किं कारणम् ? अवीतलक्षणाविरोधात् , अवीतस्य हि लक्षणं परिशेषतः साध्यानुग्रहः । तत्रान्वयादिना स्वरूपेणानधिगते प्रधानलक्षणे धर्मिणि परपक्षप्रतिषेधमात्रेण उपसंहारे क्रियमाणे परिशेषलक्षणं बाध्यते । कस्मात् ? इह प्रतिषेधमात्रमादावुच्यते, तेन यथा हेतुविरोधात् परमाण्वादिभ्यो न व्यक्तमुत्पद्यते तथा हेत्वभावात प्रधानादपि नोत्पद्यते इति शक्यं कल्पयितुम् , अतस्तद्व्यवच्छेदोऽपि चावीताद् गम्यते, तथा सति कः परिशेषः स्यात् ? खरूपेण तु परिच्छिन्ने धर्मिणि उपसंहारो यथावदवकल्पते-न चेत् परमाण्वादिभ्य उत्पद्यते परिशेषतः प्रधानादेव व्यक्तमुत्पद्यते । परिशेष इति यथोक्तेभ्योऽन्वयादिभ्य इत्युक्तं भवति । तस्मात् प्राग् वीतप्रयोगः । इति सिद्धं सामान्यतो दृष्टादनुमानादतीन्द्रियाणामर्थानां समधिगम इति ।" इति साङ्ख्यकारिकाया युक्तिदीपिकावृत्ती, का० ६ ॥ नय०४० For Private & Personal Use Only
www.jainelibrary.org
Jain Education International