________________
३१२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् तृतीये विध्युभयारे __नन्वेवं स्ववचनविरोधादि, न, तवात्मन एवोपालम्भात्, प्रधान........ अभ्युपगमात् । हेतुविरुद्धतोक्तावप्येवमेव । इति स्फुटमेव सुखं सदा व्यक्तशब्दस्पर्शरूपरसगन्धमेवेत्यभ्युपगम्यतां तेभ्य एव लघ्वादिहेतुभ्यो वियदादिवत् । स्वमतेन तु व्यक्तशब्दस्पर्शरूपरसगन्धवत्प्रतिज्ञायां वियद्व न्युदाहरणानि । 5रविशेषितैश्च अपुरुषत्वे सति सत्त्वात् प्रमेयत्वात् सर्वगतत्वादकृतकत्वादित्यादि वा यावत् किञ्चिदिहास्ति २२७२ सर्वं तदनन्यत्वे त्रिलक्षणतां प्रतिपद्यते धर्मजातमित्यतः कुतः सङ्कलना ? न शक्यमेव सङ्कलयितुं
प्रत्येकद्वित्रिचतुरादिसंयोगधर्मानन्त्यादिति स्वपक्षसाधनहेतुसौलभ्यं दर्शयति भावितत्रैगुण्यैकात्मकलोष्टादिवस्तुन्यायव्यापित्वादिति ।
__ इतर आह - नन्वेवं स्ववचनविरोधादीति, 'सुखं दुःखादनन्यत्' इति प्रत्यक्षं सुखदुःखयोः 10 प्रतिपुरुषं स्वानुभवेन पृथक्त्वसिद्धेः शरीरविकारादिभिरनुमेयत्वाच्च लोकप्रसिद्धेरभ्युपगतत्वाच्च त्वयापि स्ववचनेन च 'सुखं दुःखम्' इति पृथगुच्चारणात् स्ववचनाभ्युपगमलोकप्रसिद्धिप्रत्यक्षानुमानविरोधदोषा अनन्यत्वप्रतिज्ञाया इति । एतच्चायुक्तम् , तैवात्मन एवोपोलम्भात्, यस्मादेव पुनः स्वसिद्धान्त एव स्ववचनादिविरोध उन्नीयते त्वया आत्मन एव, न मम, मामुद्दिश्यात्मनोऽपरिहारेण वचनवक्रतयो
च्यते । कुत इति चेत्, उच्यते-प्रधानेत्यादि यावदभ्युपगमात् । प्रधानमेकं सुखदुःखमोहात्मकत्वा15 दभिन्नगुणात्मकं साम्येन चावस्थितमिति कस्यायं स्ववचनविरोधः ? तथा परस्परमुपकुर्वन्ति सत्त्वादयः
शब्दादिभावेन च व्यवतिष्ठन्ते प्रत्येकं सुखाद्यात्मनेति सुखादित्र्यात्मकत्वं न घटादावेकस्मिन्नेव चेति त्वयैवाभ्युपगतत्वादैक्यं नान्यत्वोक्तेश्चेति कस्य स्ववचनादिविरोधदोषाः ? इति स्वस्थेन चेतसा चिन्त्यताम् , मम तु त्वदोषोद्भावनपरप्रयासत्वाददोषः, एवमस्मदोषोत्कीर्तनद्वारेण स्वदोषोत्कीर्तनमेवैतद् भवत इति ।
किश्चान्यत् , हेतुविरुद्धतोक्तावप्येवमेव, यथोक्तमेते हेतवः सप्रपञ्चाः सविशेषणनिर्विशेषणाः प्रतिज्ञादोषोद्भावनद्वारेण विरुद्धाव्यभिचार्युद्भावनद्वारेण चैतेऽस्मत्पक्षस्यानन्यत्वस्य साधका इति तथा हेतुविरुद्धताप्यन्यत्वपक्षे प्राग्व्याख्यातसमन्वयव्यावृत्त्यभावविधिना अनन्यत्वपक्ष एव दर्शनादिति ।
तदुपसंहारार्थमाह - इति स्फुटमेवेत्यादि यावद् वियदादिवदिति, इतिशब्दोपसंहारार्थत्वात् । यदभिलष्यते त्वया प्रधानं नाम गुणसाम्यावस्थानं किञ्चिदस्तीति तन्नाभिलषणीयम् । सुखं सदा व्यक्तशब्दस्पर्शरूपरसर्गन्धमेवेत्यभ्युपगम्यतां स्फुटमेव, किमन्योपदेशेन परदोषाभिधानेन वा ? तत्त्व25 वादिनैव भवितव्यमृजुना। तेभ्य एव लघ्वादिभ्यो हेतुभ्यो वियदादिवत् , यथा आकाशवाय्यग्न्यब्भुवः पञ्च महाभूतानि व्यक्तशब्दादिभावानि तथा सुखमिति लध्वादिभ्य एव हेतुभ्यः पृथिव्यामिव शब्दादयः पञ्चापि शेषेष्वपि चतुर्षु भूतेषु व्यक्ता इत्यभ्युपगम्यताम् । परिणतिविशेषात्तु हिङ्गुगन्धवत् सूपे लवणरसवच्चाप्सु कस्यचिदेव प्रत्यक्षता शब्दादेनं शेषस्याभिभवादिभिरिति । परमतेनैवैतदुक्तम् । स्वमतेन तु व्यक्तशब्दस्पर्शरूपरसगन्धवत्प्रतिज्ञायां वियद्वर्जान्युदाहरणानीति, स्पर्शरसगन्धवर्णवन्तः पुद्गलाः
१ तदात्मन भा० वि० ॥ २ पल' प्र०॥ ३°दितिविरोध प्र० ॥ ४न मन मोमुद्दिश्य प्र० ॥ ५ त्मनोपरि पा० २० ही० । त्मने परि' वि० । मनपरि डे० लीं । त्मपरि° भा० ॥ ६°त्वादिभिन्न भा० ॥ ७ यद्यभिप्र०॥ ८°गन्धं वे भा० । गन्धवे य० ॥ ९°न्यापादनेन य० ॥
२२८-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org