________________
सुख दुःखमोहानामैक्यापादनम् ] द्वादशारं नयचक्रम् शकत्वात् । तत्संयोगाच, एवं मोहादपि । परधर्मेण चलत्वादप्रकाशकत्वात् प्रवृत्तिशीलत्वात् तत्संयोगाच्च, एवं मोहादपि । एवं गुरुत्वादप्रकाशकत्वात् तत्संयोगाच्च, एवं मोहादपि । द्वाभ्यामप्यनन्यत् सहिताभ्याम् । एत एव सर्व इत्यनया दिशा अभ्यूह्याः खपरधर्माः प्रसादादयश्च । इतरेतरसंयोगेन च भङ्गविकल्पाः सङ्कलनीयाः। एवमेव चैत एव दुःखमोहयोरपि । अन्येऽप्यचेतनत्व... शरीराद्यापत्ति: । स्वादिप्रकृतिधर्मः। इत्यतः कुतः सङ्कलना प्रत्येकद्वित्रिचतुरादिसंयोगधर्मानन्त्यात् । चलाप्रकाशात्मकत्वाद् दुःखादनन्य इति स एव लोष्टो दृष्टान्तो भावितसुखायेकात्मकत्वात् । एवं तावत् परधर्मेण । एवं च स्थितेऽस्वधर्मेणापि लोष्टाद्यर्थानां सुखाद्यकात्मकत्वे स्थितेऽनन्यत्वे लघुत्वादिहेतवोऽपि साधका इति तदर्शयति - सुखं दुःखादनन्यल्लघुत्वात् 'लोष्टवदिति वर्तते । एवमप्रवृत्तिशीलत्वात् प्रकाशकत्वात् । एतानि च चत्वारि साधनानि, प्रत्येकं त्रीणि तान्येव समुदितान्येकमिति । अत्र द्विक-10 संयोगेनापि त्रीणि-लध्वप्रवृत्तिशीलत्वात् , लघुप्रकाशात्मकत्वात् , अप्रवृत्तिप्रकाशात्मकत्वादिति । एवं मोहादपीति, 'मोहात् सुखमनन्यत्' इत्यत्रापि त एव हेतवस्तावन्तः । परधर्मेण सुखस्य दुःखधर्माभ्यां प्रत्येकं द्वे समुदायेनैकमिति त्रीणि - चलत्वादप्रकाशकत्वाच्चलाप्रकाशकत्वादिति । प्रवृत्तिशीलत्वादित्यपि, तत्संयोगेनेतराभ्यामपि सप्त साधनानि । एवं मोहादपीति मोहादनन्यच्चलत्वादित्यादिभ्यस्तेभ्य [एव] । एवं सुखं दुःखादनन्यद् गुरुत्वादप्रकाशकत्वात् तत्संयोगाच्चेति मोहधर्मेभ्यस्त्रिभ्यः । एवं मोहादपीति 15 तेभ्य एव मोहधर्मेभ्यस्त्रिभ्यो मोहादप्यनन्यत् सुखमिति।द्वाभ्यामप्यनन्यत् सहिताभ्यामिति दुःखमोहाभ्यामनन्यत् सुखं लघुत्वादित्यादिभ्यस्तेभ्य एव हेतुभ्यो द्वित्रिचतुरादिसंयोगेन तत् प्रत्येकं चानुगन्तव्यमित्यत आह-एत एव सर्व इत्यनया दिशाभ्यूह्याः, न केवलमेत एव लघुत्वादयश्चलत्वादयो गुरुत्वादयो २२७-१ वा स्वपरधर्मा हेतवः, किं तर्हि ? स्वपरधर्माः प्रसादादयश्च, प्रसादलाघवादयः शोषतापभेदादयो वरणसदनापध्वंसनादयश्च । इतरेतरेत्यादि, द्वित्रिचतुरादिसंयोगेन , भङ्गविकल्याः सङ्कलनीयाः ।20. एवमेव चैत एव दुःखमोहयोरपीति सुखात् परस्परतश्चानन्यत्वं योज्यं प्रतिज्ञानां च प्रत्येकं द्वित्रिसंयोगेन चेति सुखस्य दुःखाद् मोहाद् द्वाभ्यां चानन्यतया तिस्रः, एवं दुःखस्य तिस्रः, मोहस्य तिस्रः, त्रयाणां परस्परतोऽनन्यतयैकैवेति दश प्रतिज्ञाः । एतासु सुखधर्मा लध्वादयः, दुःखधर्माश्वलादयः, मोहधर्मी गुर्वप्रकाशौ, प्रत्येकं द्विकादिसंयोगेन सप्तत्यधिकं शतं साँधनानाम् । लाघवगौरवे त्वपनीय प्रसादादिशोषादिवरणादीनां च हेत्वग्रं पञ्चषष्टिसहस्राणि पञ्च शतानि च षट्त्रिंशानि । किश्चान्यत्, न केवलमेत एव 25 हेतवः, अन्येऽप्यचेतनत्वेत्यादि समासदण्डकमध्ये यावच्छरीराद्यापत्तित्वादिप्रकृतिधर्मैः सामान्यभूतै
१°न्यदिति प्र० ॥ २ स्थिते स्वध य० ॥ ३ लोष्टादिवदिति य० ॥ ४ तत् य० प्रतिषु नास्ति ॥ ५ * * एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ६ 'लघुत्वात् , अप्रवृत्तिशीलत्वात् , प्रकाशकत्वात् , लध्वप्रवृत्तिशीलत्वात् , लवप्रकाशकत्वात् , अप्रवृत्तिप्रकाशात्मकत्वात् , लवप्रवृत्तिप्रकाशात्मकत्वात्' इति सप्तानां सुखधर्माणां 'चलत्वात् , अप्रकाशकत्वात् , प्रवृत्तिशीलत्वात् , चलाप्रकाशकत्वात, चलप्रवृत्तिशीलत्वात् , अप्रकाशकप्रवृत्तिशीलत्वात् , चलाप्रकाशकप्रवृत्तिशीलत्वात्' इति सप्तानां दुःखधर्माणां 'गुरुत्वात् , अप्रकाशकत्वात् , गुर्वप्रकाशकत्वात्' इति मोहधर्माणां च त्रयाणां सङ्कलनया सप्तदशानां हेतूनां 'सुखं दुःखादनन्यत्' इत्यादिभिर्दशभिः प्रतिज्ञाभिर्गुणने सप्तत्यधिकं शतं साधनानां लभ्यते ॥ ७ "सुखानां शब्दस्पर्शरसरूपगन्धानां प्रसादलाघवप्रसवाभिध्वडोद्धर्षप्रीतयः कार्यम् , दुःखानां शोषतापभेदोपष्टम्भोंद्वेगापद्वेषाः, मूढानां वरणसदनापध्वंसनबैभत्स्य दैन्यगौरवाणि।" इति पूर्व [पृ० १२ पं० १८-२०] व्यावर्णितेभ्योऽष्टादशभ्यो धर्मेभ्यो लाघवगौरवयोरपनयने कृतेऽवशिष्टानां षोडशानां धर्माण प्रत्येक द्विकादिसंयोगेन च इयं हेत्वग्रसङ्ख्या बोध्या।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org