________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ तृतीये विध्युभयारे
अथ तु यद् विभक्तखतत्त्वं दुःखमोहाभ्यां सुखादन्यन्न भवति तत् प्रसादाद्यनात्मकमपि न भवति यथा सुखम् । तथा सति तथानियमवत् तथाप्रवर्तनात् तथाव्यक्तेश्च नियमप्रवृत्तिप्रकाशात्मकं सुखमेवेति ऐक्यं मोहादीनामभ्युपगतं त्वयैवेति को वादार्थ उभयोरपि ? तत्रैव त्ववरणाद्यात्मकत्वादिवद् विदोषा लघ्वादि6 तवोsपि सुखादावपि च विपरिहारपक्षीकृतेऽपि च ।
३१०
परधर्मेणापि सुखं दुःखादनन्यत्, चलाप्रकाशकत्वात्, अविभक्ताशेषगुणात्मक लोष्टवत् । एवं च स्थिते सुखं दुःखादनन्यत्, लघुत्वादप्रवृत्तिशीलत्वात् प्रका
अथ यदि यत् सुखमिति । अथ मतं तव यद् विभक्तस्वतत्त्वं दुःखमोहाभ्यां तत् सुखं सुखादन्यन्न भवति तत् प्रसादाद्यनात्मकमपि न भवतीति विविक्तस्वरूपस्य सुखस्य दुःखादन्यत्वात् प्रसादा10 द्यात्मकत्वाच्च तदेव शक्यते वैधर्म्येण निदर्शयितुम् । अत एव च तमः सुखादन्यद् विविक्तस्वरूपमप्रसादामैकपुरुषं चेति साधर्म्यदृष्टान्तश्च स्यादिति । एवमितरसाधनेष्वपि उभयदोषपरिहार इति । अत्रोच्यते - तथा सतीत्यादि यावत् को वादार्थ उभयोरपि ? इति । एवं सति तेन प्रकारेण नियमोऽयं यत् सुखादन्यन्न भवति तत् प्रसादाद्यनात्मकमपि न भवत्येवेति एतेन प्रकारेण नियमवत् सुखमेवानन्यत् प्रसादाद्या२२६-१त्मकं भवति चेति तथा तस्य वस्तुनः प्रवर्तनात् तथाव्यक्तेश्च नियमप्रवृत्तिप्रकाशात्मकं सुखमेवेति 15 तदभ्युपगमेनैवैक्यं मोहादीनामापन्नमस्मिन् साधने, एतदभ्युपगमवच्च शेषसाधनेष्वपि 'दुःखादन्यत् सुखं मोहश्च' इत्येवमादिषु 'यद् यदनात्त्वे दुःखादन्यन्न भवति तच्छोषादिवरणाद्यनात्मकमपि न भवति' इत्येवं नियमाद् व्यक्तेः प्रवृत्तेश्चैक्यं मोहादीनामभ्युपगतं त्वयैवेतीतरेतरैकत्वाभ्युपगमः । इतिशब्दो हेत्वर्थे, इत्यतः को वादार्थः वादप्रयोजनमुभयोरावयोः ? त्वयैवैक्याभ्युपगमान्न वादार्थस्तव ममापि प्रतिपन्नार्थप्रतिपादनवैफल्यादिति । एवं तावदवरणाद्यात्मकत्वादिहेतवः प्रथमोक्तानन्यत्वपक्षस्यैव साधका अनात्मत्वविशेषणा 20 अपि नान्यत्वपक्षस्येति प्रतिपादिताः ।
तत्रैवान्यत्पक्ष एव त्वरणाद्यात्मकत्वादिवद् विदोषा लघ्वादिहेतवोऽपि, नान्यत्वपक्षे, तत्र सदोषा एवेत्यभिप्रायः । ननु लध्वादयोऽनन्यत्वहेतव उक्ता एव, किं पुनरनुशयेन ? इति, अत्रोच्यते - सुखादावपि च न सत्त्वादिष्वेव तत्रापि च विपरिहारपक्षीकृतेऽपि च, न यथा त्वया 'सुखं मोहाद् गुरोरन्यत्' इति परिहारपक्षीकृते चैव ।
25 परधर्मेणापि 'दुखं सुखादनन्यत् लघुत्वात्' इत्येतेनापि न केवलम् अनात्मत्वे चलत्वादेवेतीत्थं विशिष्टेन प्रतिपादनविधिना अनन्यत्वहेतव इति । अपिशब्दात् स्वधर्मेण 'सुखं दुःखादनन्यलघुत्वात्' इत्यादिभिः सुकर प्रतिपादनमेवेत्यर्थः । परधर्मेण तावत् सुखं दुःखादनन्यत् चलाप्रकाशकत्वात्, चलमप्रकाशकं प्रवृत्तिशीलं दुःखम् [ ] इति वचनादू दुःखधर्मेण सुखं • ततोऽनन्यदिति साध्यते । अविभक्ताशेषगुणात्मकलोष्टवदिति दृष्टान्तः प्रागुपवर्णितः, अविभक्तः 30 दुःखमोहात्मक सत्त्वरजस्तमोगुणात्मको लोष्ट इति त्रित्यैक्यानतिक्रमाच्च त एवाशेषगुणाः, तदात्मको लोष्टः
सुख
२२६-२
१त्मकपुरुषं प्र० ॥ २त्मकत्वे य० ॥ ३ दृश्यतां पृ० ३०४ पं० ३ ॥ ४ कृताचेव भा० । कृतात्वेव य० । अत्र 'कृतेष्वेव' इत्यपि पाठः स्यात् ॥ ५ शत्वात् प्र० ॥ ६ः सुख० का सुख य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org