________________
३०९
सुखदुःखमोहानामैक्यापादनम्] द्वादशारं नयचक्रम् पुरुषयोरप्येकतैव । एवं दुःखमोहयोरपि ।
अथ मा भूदेष दोष इत्यनात्मविशेषणत्वात् तद्वत्, तथा सति यथा किम् ? दृष्टान्तः 'इदं तत्' इति निदर्शयितुं न शक्यते। न हि सुखादन्यदस्ति किश्चिदुक्तवदपुरुषम् । यच्च सुखादनन्यत् तदनात्मत्वे न प्रसादाद्यनात्मक न लघ्वाद्यनात्मक चेति निदर्शयितुं न शक्यते।
15
दुःखस्य वा सुखादन्यत्वं प्रसादाद्यनात्मकत्वं मोहस्य ताभ्यामन्यत्वं प्रसादादिशोषाद्यनात्मकत्वं च नोपपद्यते भावितन्यायत्वात् सुखदुःखमोहानामैक्यवृत्तित्वस्य । तस्मात् पुरुषस्वरूपापत्तेः प्रसादादिशोषादि[वरणादि]कार्याणां सुखदुःखमोहानां धर्मिस्वरूपविपरीततेति । किश्चान्यत् , योऽपि धर्मस्वरूपविरोधः सोऽपीत्थमुच्यते, तद्यथा -धर्मस्वरूपविरोधोऽपि चैवमेव, यथा पुरुषत्वापत्तौ सुखादीनां सुखाद्यात्मपरित्यागेन धर्मिस्वरूपविरोधः तथा पौंस्नापत्तौ त्रयाणामैक्यापत्तौ चान्यधर्मस्वरूपविरोधश्च । ततश्च प्रकृतिपुरुषयो-10 रप्येकतैव, तस्माद्धेतोः पुरुषत्वापत्तेरनन्यत्वापत्तेश्च प्रकृतिः पुरुषादन्या पुमान् वा प्रकृतेरन्य इति नोपपद्यते । ततोऽस्मदभीष्टम् 'एकमेव कारणम्' इत्येतद् दर्शनं साधीयः । एवं दुःखमोहयोरपि, यथा 'सुखं दुःखादन्यत्' इत्येतत् किं त्वान्मात्रात् ? त्रैलक्षण्यात् ? इत्यतः प्रभृति यावत् प्रकृतिपुरुषयोरप्येकतैव इत्युक्तं तथा 'दुःखं सुखमोहाभ्यामन्यत् , मोहः सुखदुःखाभ्यामन्यः' इत्येतेष्वपि चतुर्पु 'सुखं मोहादन्यत्' इति च साधने स एंव ग्रन्थो योज्य इति ।
अथ मा भूदेष दोष इत्यनात्मविशेषणत्वात् त्वद्वत् । एतद्दोषपरिहारार्थं यथा त्वया 'अनात्मत्वे सति अवरणाद्यात्मकत्वात् सुखं दुःखादनन्यद् मोहवत्' इत्याद्यभिहितं तथाहमपि 'अनात्मत्वे सति लघुत्वात् सुखं दुःखादन्यद् मोहवत्' इत्याब्रवीमीति, अतो धर्मधर्मिस्वरूपविरोधौ प्रकृतिपुरुषदोषश्च नेति । अत्रोच्यते-तथा सति यथा किम् ? इति । एवं सति 'यथा' किं सुखादन्यत् २२५-२ आत्मानं मुक्त्वेति । दृष्टान्तः 'इदं तत्' इति निदर्शयितुं न शक्यते इदं तत् सुखात् पुरुषाच्चान्यद् 20 वस्त्विति समन्वयस्याभावः, यदनात्मत्वे सति लघुत्वादिधर्म तत् सुखात् पुरुषाच्चान्यदिति वस्त्वन्तराभावात्। तद्दर्शयन्नाह - न हि सुखादन्यदस्ति किश्चिदुक्तवदपुरुषम् ? पुरुषव्यतिरिक्तं हि सर्वं परस्पराविविक्तसुखाँदिस्वतत्त्वमेवेत्युक्तम् । तस्मादन्यत् सुखमेव सर्वमिति समन्वयाभावः । अत एव चान्यत्वेन पक्षीकृते सुखादौ पुरुषव्यतिरिक्तसपक्षाभावात् सुखादेरपि सुखादन्यस्य विपक्षत्वाद् विपक्षाद्धेतोर्व्यावृत्त्यर्थं यदुच्यते यच्च सुखादनन्यत् तदनात्मत्वे न प्रसादाद्यनात्मकं न लध्वाद्यनात्मकं चेति निदर्शयितुं न 25 शक्यते, न च मोहादि सुखादन्यन्न भवतीत्यशक्यं दर्शयितुमिति विपक्षाव्यावृत्तिरपि । अतो विपक्ष एव सत्त्वाद् विरुद्धाश्च ते हेतव इत्यभिप्रायः ।।
१ त्वाभ्या य० । ( वाभ्या ?)॥ २ धर्मिस्व प्र०॥ ३ दृश्यतां पृ० ३०७ पं० ५॥ ४ एवं प्र० ॥ ५ अनात्मकत्वे सवरणा प्र० । दृश्यतां पृ० २७८ पं० २॥ ६ ( इत्यादि ब्रवीमि ? ) ॥ ७ यद्यानात्मत्वे भा०। (यथानात्मत्वे ?)। * * एतच्चिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ८°दिभ्यतत्व भा० ॥ ९ सुखादिपुरुष य० ॥ १० °त्मकत्वं भा० ॥ ११त्मकत्वं प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org