________________
३०८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् तृतीये विध्युभयारे मेव नास्ति, न ह्यनात्मनां नाम धर्मः कश्चिदस्ति, न दुःखं न सुखं नान्यत् ।
नन्वन्यपदार्थविषयत्वाद् बहुव्रीहेः नास्ति प्रसादाद्यात्मा वरणाद्यात्मा वा स कोऽप्यन्यः स्यात् सद्धर्मवान् । एवमपि यथा 'स्थूलशिरा राहुः' इत्यत्र असत आख्या राहोः शिरोव्यतिरिक्तस्य । असदाख्यया व्यपदेशिवद्भावं कृत्वा व्यवहारो दृष्टस्त5थेदमपि स्यात् । तदनभ्युपगमे धर्मधर्मिस्वरूपविरोधौ । धर्मिखरूपविरोधस्तावत्
आत्मनोऽनन्यदेव दुःखम् , प्रसादाद्यनात्मकत्वात् , आत्मखतत्त्ववत्, अन्यथा सुखान्यत्वप्रसादाद्यनात्मकत्वानुपपत्तेः । धर्मखरूपविरोधोऽपि चैवमेव । ततश्च प्रकृतिह्यनात्मनां नाम धर्मः कश्चिदस्ति, यदि प्रसादाद्यात्मा न भवतीत्यनात्मकं दुःखमुच्यते, अथ आत्मैव नास्तीत्यनात्मकमित्युच्यते, द्विधाप्यसिद्धं दुःखस्यानात्मकत्वं धर्म्यसिद्ध्यापत्तेः । कथमिति चेत् , उच्यते - 10न दुःखं न सुखं नान्यद् मोहः पुरुषो वा, त्वत्परिकल्पितं दुःखं प्रसादाद्यनात्मकत्वात् खपुष्पवत्
स्यादिति धर्म्यभावादपक्षधर्मत्वम् । २२४-२ इतर आह - नन्वन्यपदार्थेत्यादि यावत् सद्धर्मवान् । ननु बहुव्रीहेरन्यपदार्थविषयत्वात् तत्सू
चनसमासान्तकप्प्रत्ययान्तत्वादनात्मकश्रुतेः नोस्ति प्रसादाद्यात्मा [वरणाद्यात्मा ] वा चित्रगुदेवदत्तवत् स कोऽपि वरणादिभ्यः प्रसादादिभ्यश्चान्यः सन्नेव, नासद्धर्मवान् धर्मी पक्षो भवितुमर्हतीति । 15. अत्रोच्यते - नैतदुपपद्यते, बहुव्रीहेरप्यन्यपदार्थविषयत्वानैकान्त्यात्, एवमपीत्यादि यावद्धर्मधर्मि
स्वरूपविरोध(विति । स्थूलं शिरोऽस्य स्थूलशिरा राहुः, कपोऽतत्रत्वाद् बहुव्रीहेरेव तत्रत्वात् , तस्य चान्यपदार्थत्वव्यभिचारं दर्शयति तद्गुणसंविज्ञानपक्षाश्रयणेन, भवति बहुव्रीहौ तहुणसंविधानमपि [पाँ० म० भा० २।११६६, २।२।२४ ] इति वचनात् , न हि स्थूल शिरोलक्षितस्तद्व्यतिरिक्तो राहुरस्ति चित्रगवविशिष्ट
देवदत्तवत् , तदेव हि स्थूलं शिरो राहुः, तद्वदसत आख्या राहोः शिरोव्यतिरिक्तस्य । आख्या व्यपदेशः 20 स्थूलेन शिरसा व्यपदेशेन चित्राभिरिव व्यपदेशिनो देवदत्तस्य व्यतिरिक्तस्य, तद्वदव्यतिरिक्तस्यापि
राहोस्तयाख्यया व्यपदेशिवद्भावं कृत्वा व्यवहारो दृष्टोऽसतोऽपि तथेदमपि स्यात् । तस्य व्यपदेशिवद्भावव्यवहारस्यानभ्युपगमे उक्तोपपत्त्या दृष्टमिमसदाख्यया व्यपदेशिवद्भावव्यवहारमनभ्युपगच्छतस्ते धर्मधर्मिस्वरूपविरोधौ दोषौ भवतः । धर्मिस्वरूपविरोधस्तावदात्मनोऽनन्यदेव दुःखं पुरुषादित्यर्थः । प्रसादाद्य
नात्मकत्वात् , बहुव्रीहिसामर्थ्यात् प्रसादाद्यात्मनोऽन्यत्वादित्यर्थः । आत्मस्वतत्त्ववत् , पुरुषस्वात्मव25 दित्यर्थः । पुरुषत्वापत्तिश्च दुःखस्य धर्मिस्वरूपवैपरीत्यम् , अतो धर्मिस्वरूपविरोधः । किं कारणम् ? अन्यथा २२५-१ सुखान्यत्वप्रसादाद्यनात्मकत्वानुपपत्तेः, पुरुषत्वापत्तिमन्तरेण सुखस्य दुःखादन्यत्वं वरणाद्यनात्मकत्वं १त्मनं प्र०॥ २°द्धापत्तेः प्र०॥ ३ ( तत्सूचक ?)॥ ४ श्रुते प्र० ॥ ५ 'नास्य [ वरणाद्यात्मा ]
'इत्यपि पाठोऽत्र स्यात् ॥ ६न्यः सद्धर्मवान भा० न्यः सन्नेव, नासन् , धर्मवान्' इत्यपि पाठोऽत्र स्यात् ।। ७°प्यन्यर्थविष य० । प्यनर्थविष भा० ॥ ८°धादिति य० ॥ ९ "भवति बहुव्रीहौ तद्गुणसंविज्ञानमपि । तद्यथा-'शुक्लवाससमानय' 'लोहितोष्णीषाः प्रचरन्ति' इति तद्गुण आनीयते तद्गुणाश्च प्रचरन्ति ।” पा० म० भा० २।१।६६, २।२।२४। "भवति हि बहुव्रीही तद्गुणसंविज्ञानमपि । तद्यथा-'चित्रवाससमानय' 'लोहितोष्णीषा ऋत्विजः प्रचरन्ति' इति तद्गुण आनीयते तद्गुणाश्च प्रचरन्ति ।" पा० म० भा० १।१।२६ ॥ १० दस आख्या प्र० । ११ अत्र चित्राभिर्गोभिरिव इत्यपि पाठः स्यात् ॥ १२ श्च सुखस्य धर्मि प्र०॥ १३ सुखदुःखाद प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org