________________
३०७
सुखदुःखमोहानामैक्यापादनम्] द्वादशारं नयचक्रम्
मा मंस्थास्त्वदीया हेतवो बलीयांसः, अस्मत्पक्षसाधनत्वायेतो विपरिवर्तयितुं शक्यत्वात् । तद्यथा-सुखादन्यद् दुःखम्, प्रसादाद्यनात्मकत्वात्, पुरुषवत् । मोहश्च दुःखादन्यः, तत एव, तद्वत् । मोहादन्ये सुखदुःखे, वरणाचनात्मकत्वात् , पुरुषवत् ।
किं त्वान्मात्रादेव विपरिवर्तनम् ? त्रैलक्षण्यात्? त्रैलक्षण्याचेत्, आदिलक्षण-5 चास्मद्धेतूनामाद्यहेतुभावनात् , भिन्नात्मकतायां तु इत्यादि प्रक्रम्य अनात्मत्वे सति अवरणाद्यात्मकत्वादित्यादिभिराद्यहेतुभिः प्रत्यक्षागमबलीयस्त्वमापादितम् । तस्मान्न समं नाविति ।
__ इतर आह-मा मंस्थास्त्वदीया हेतवो बलीयांसः 'अवरणाद्यात्मकत्वादयः' इति । तदबलत्वं २२४-१ च अस्मत्पक्षसाधनत्वायेतो विपरिवर्तयितुं शक्यत्वात् । तद्यथा - पूर्वहेतवस्तावदबलाः, यतः शक्यन्ते त इतोऽपि सुतरां पुरुषनिवृत्त्यर्थमनात्मत्वविशेषणाहतेऽपि विपरिवर्तयितुम् । तद्यथा-सुखादन्यद् दुःखं 10 प्रसादाद्यनात्मकत्वात् पुरुषवत् , असमर्थसमासेनागमकेनाप्यर्थं गृहीत्वा नैबिवोक्त्यनुसारेणोक्तम् । मोहश्च दुःखादन्यः, तत एव, तद्वदिति । चशब्दाद् दुःखादन्यौ सुखमोही शोषाद्यनात्मकत्वात् पुरुषवत् , तथैव व्याख्या, द्वे साधने समस्योक्ते मोहादन्ये सुखदुःखे वरणाद्यनात्मकत्वात् पुरुषवदिति तथैवेति । अत्रोच्यते - किं त्वान्मात्रादेव विपरिवर्तनम् ? त्रैलक्षण्यात् १ इति प्रश्नः । प्रतारणार्थभाववाचिप्रत्ययसहितपञ्चम्यन्तशब्दप्रयोगमात्रात् पक्षधर्मसादृश्यात् त्रैलक्षण्यशून्यान्न परिवर्तनमित्यभिप्रायः। 15 स्यान्मतम् – न त्यान्मात्रात्, किं तर्हि ? त्रैलक्षण्याच्चेदेवं चेन्मन्यसे, तद्युक्तम् ; यस्मादादिलक्षणमेव नास्ति, इह पक्षधर्मत्वमेव तावन्नास्ति यदाधारण शेषद्वयम् । कथं पक्षधर्मो नास्तीति चेत् , यस्माद् न
१तायास्तु प्र० । दृश्यतां पृ० २७०५४॥ २ दृश्यतां पृ० २७८ पं० २॥ ३नी आवयोरित्यर्थः ॥ ४ "वृत्तिस्तर्हि कस्मान्न भवति? अगमकत्वात् । इह समानार्थेन वाक्येन भवितव्यं समासेन च । यश्चेहार्थो वाक्येन गम्यते 'महत्कष्टं श्रित.' इति नासौ जातुचित् समासेन गम्यते 'महत्कष्टश्रितः' इति । एतस्माद्धेतोबूंमः-अगमकत्वादिति । न ब्रूमः 'अपशब्दः स्यात्' इति । यत्र च गमको भवति, भवति तत्र वृत्तिः, तद्यथा-'देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः, देवदत्तस्य दासभार्या' इति । यद्यगमकत्वं हेतुः, नार्थः समर्थग्रहणेन, इहापि 'भार्था राज्ञः, पुरुषो देवदत्तस्य' इति योऽर्थो वाक्येन गम्यते नासौ जातुचित् समासेन गम्यते 'भार्या राजपुरुषो देवदत्तस्य' इति, तस्मानार्थः समर्थग्रहणेन । इदं तर्हि प्रयोजनम् - अयमस्त्यसमर्थसभासो नसमासो गमकः, तस्य साधुत्वं मा भूत् 'अकिश्चित्कुर्वाणम् , अमाषं हरमाणम् , अगाधा. दुस्सृष्टम्' इति । एतदपि नास्ति प्रयोजनम् , अवश्यं कस्यचिद् नपमासस्यासमर्थसमासस्य गमकस्य साधुत्वं वक्तव्यम्'असूर्यपश्यानि मुखानि, अपुनर्गेयाः श्लोकाः, अश्राद्धभोजी ब्राह्मणः, अलवणभोजी ब्राह्मणः' इति । सुडनपुंसकस्येत्येतन्निय. मार्थ भविष्यति- एतस्य वा असमधेसमासस्य नसमासस्य गमकस्य साधुत्वं भवति नान्यस्येति ।" इति पातञ्जलमहाभाष्ये २।१।१। “अश्राद्धभोजी । किं योऽश्राद्धं भुङ्के सोऽश्राद्धभोजी ? किं चातः ? यदासावश्राद्धं न भुले तदास्य व्रतलोपः स्यात् , तद्यथा-स्थायी यदा न तिष्ठति तदास्य व्रतलोपो भवति । एवं तर्हि णिन्यन्तेन समासो भविष्यति, न श्राद्धभोजी अश्राद्धभोजीति । नैवं शक्यम् , खरे हि दोषः स्यात् 'अश्राद्धभोजी' [६।२।२] इत्येवं स्वरः प्रसज्येत 'अश्राद्धभोजी' [ ६।२।१३९] इति चेष्यते । एवं तर्हि नञ एवायं भुजिप्रतिषेधवाचिनः श्राद्धशब्देनासमर्थसमासः न भोजी श्राद्धस्येति । स तर्हि असमर्थसमासो वक्तव्यः । यद्यपि वक्तव्यः अवैतर्हि बहूनि प्रयोजनानि । कानि? असूर्यपश्यानि मुखानि, अपुनर्गेयाः श्लोकाः, अश्राद्धभोजी ब्राह्मणः, सुडनपुंसकस्य [१।१।४३] इति ।" इति पातञ्जलमहाभाष्ये ३१२१८०॥ ५ तहीकोक्य भा० । तहीकोक्त्य य० । दृश्यतां पृ० २३२ टि०७॥ ६ सुखाद्यात्म य०॥ ७°ण्याचेदेवं भा० । ण्यचेदेवं य० ॥ ८°धारणशिष प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org