________________
३०६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे गुणेषु सन्द्रावस्य । विरुद्धाव्यभिचारिणि चोक्तम्- प्रत्यक्षागमबलीयस्त्वात् तत एव निश्चयोऽन्विष्यते [प्र० स० वृ० ] इति । बलीयस्त्वं चास्मद्धेतूनामाद्यहेतुभावनात् ।
प्येतेऽप्रसिद्धसाध्यधर्मसमन्वयव्यावृत्तयः, अनुमाननिराकृतपक्षाः, अनवधारणे विपर्ययहेतवः, अवधारणे चापक्षधर्मा एवेति । तस्मादनैकान्तिकाः । तेषां चैकान्तिका अस्मदुक्ता निवर्तका एवेति न 5 तुल्यमावयोः।
इतश्चातुल्यमावयोः-भावितत्वाच्च गुणेषु सदा सन्द्रावस्य, बहुधा भावितं हि सदा सत्त्वादयो गुणाः सन्दुता एव प्रधानमहदहङ्कारादिसर्वावस्थासु न जातु पृथग्भूतसमवस्थाश्चेति । किञ्चान्यत् , विरुद्धाव्यभिचारिणि चोक्तम्, विरुद्धाव्यभिचारिण्यपि न परस्परनिवारितव्याप्तित्वमात्रात् संशय एव, किं तर्हि ? प्रत्यक्षागमबलीयस्त्वात् तत एव निश्चयोऽन्विष्यते इति युक्तम् , तयोविरुद्धाव्यभिचारिणोः पक्षधुर्म10 योर्यः प्रत्यक्षीकृतार्थेनागमेन बलीयान् प्रत्यक्षसंवादिना प्रत्यक्षेणागमेन च जनितबलाद्वा प्रत्यक्षेणैवागमेनैव
वा यथाप्रसिद्धि यो बलीयांस्तत एव निश्चयोऽन्विष्यत इत्यादिव्याख्याविकल्पेषु प्रत्यक्षागमेन घटादिषु प्रसिद्धसाध्यानित्यत्वान्वयस्य कृतकत्वहेतोबलीयस्त्वात् ततोऽनित्य इति निश्चयः स्यात्, न तु श्रावणत्वस्य शब्दत्वे प्रत्यक्षीकर्तुं शक्योऽन्वयः शब्दत्वस्याप्रसिद्धत्वादिति, तद्वत् किमिह साधर्म्यमिति चेत् , उच्यते-बलीयस्त्वं
१ बौद्धाचार्यदिङ्गागविरचि सायाः प्रमाणसमुच्चयत्तेर्भोटभाषानुवादे परार्थानुमानपरिच्छेदेऽधोनिर्दिष्टः पाठ उपलभ्यते-"गङ्-गि-छे स्य-जिद् र्तग् पर् खस्-लेन् पर् ब्येद्-प देडि-छे ऽदि ग्नन्-छिग्स् अिद् दु ऽग्युर् रो शेन् । गल्-ते ऽदि ल यङ्म-तंग प-जिद् क्यि ग्तन्-छिग्स ब्यस् प-जिद् ल सोगस् पऽगऽ-शिग् स्तोन् पर् मि ब्येद् न नि ऽग्युर् न । ग्निग मिग्स्-प न ऽगल ब दङ दोन् चिग ल मि सिद्-पडि पियर् थे-छोम् ग्यि ग्यु यिन् नो । ऽदि ल यङ् म्ङोन्-सुम् दङ्लुङ् स्तोब्स दङ् ल्दन्-पऽि फिर दे-खोन् लस् डेस्-प बचल-पर ब्यहो।"[Tanjur, Mdo, Narthang Edition, No. 95. p. 134 B] अस्य चायमर्थ:-"यदा शब्दत्वं नित्यमभ्युपगम्यते तदा अयं [शब्दो नित्यः श्रावणत्वात् शब्दत्ववत् ] हेतुरेव स्यादिति चेत्, स्याद् यदि अत्रापि अनित्यत्वस्य हेतुः कृतकत्वादिः कश्चिन्न प्रदर्येत । उभयोरुपलब्धौ विरुद्धयोरेकस्मिन्नर्थेऽसम्भवात् संशयहेतुः । अत्र च प्रत्यक्षागमबलीयस्त्वात् तत एव निश्चयोऽन्विष्यते।" दिङ्गागविरचिते न्यायमुखेऽपि एतदर्थक एव पाठ उपलभ्यते । यद्यपि न्यायमुखग्रन्थः संस्कृतभाषायां नोपलभ्यते सम्प्रति तथापि Yuen-Chwang इत्यनेन १३०० वर्षेभ्यः पूर्व विहितं चीनभाषानुवादमवलम्ब्य Giuseppe Tucci इत्यनेन विहिते English भाषानुवादे निम्नलिखितः पाठ उपलभ्यते-Some object : “the reason : because it is audible" is not enUT, as you assume, but it must be a valid reason when we discuss against a [ वैशेषिक who] thinks that soundness is eternal". [ My reply is] that this argument can be valid until the opponent has not indicated that the reason of non-eternity is the fact of being product etc. But if validity can be reached in either way, since contradiction regarding one and the same object is inadmissible, this kind of reason proves to be a doubtful reason. Moreover in this world the force of direct perception and of authority of the scripture [ AGAMA ] is stronger than any argument and therfore we must search after truth on the basis of these [two means of knowledge], p. 34, 35.॥ २न्वेष्यते प्र० । धुक्तम् भा० । द्युक्तम् डे० ली० । त्युक्तम् वि० । युक्तम् पा० २० ही० ॥ ४ मथर्यत्पत्यक्षी भा० । र्मयोर्यत्यक्षी य० ॥ ५ तद्वक्तिमिद य० । तद्वक्तिमित्याह भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org