________________
___ 10
सुखदुःखमोहानामैक्यापादनम्] द्वादशारं नयचक्रम्
३०५ क्षण्यविशेषणपक्षविरचनां भेदलक्षणाभिमतेभ्य एव हेतुभ्योऽभेदसिद्धिः शक्या आपादयितुं स्फुटेनैव न्यायाध्वना-सुवं मोहादनन्यत्, अपुरुषत्वेऽचलत्वात्, मोहखात्मवत् । दुःखादनन्यत्, अनियमशीलत्वात्, दुःखखात्मवत् । दुःखं सुखात्... "दुःखखात्मवत् ।
नन्वेवं विरुद्धाव्यभिचारिवदुभयानिश्चयः, न, उक्तत्वात् , भावितत्वाच सदा ल्लोष्टवत् , सत्त्वरजोभ्यामनन्यो मोहत्वाल्लोष्टवत् । तथा शरीरेन्द्रियगत आत्मैकदेशस्तदेकदेशभूताभ्यां रजस्तमोभ्यामनन्यः प्रसादकार्यत्वाल्लोष्टवत् , एवं लाघवप्रसवादिभ्यः। तथा सत्त्वतमोभ्यामनन्यः शोषत्वाल्लोष्टवत् । एवं तापादिभ्यः । तथा सत्त्वरजोभ्यामनन्यो वरणत्वात् , एवं सदनादिभ्य इति । एवं तावद् यथाहेत्वैकान्तिकत्वं प्रति त एवान्यत्वहेतवः 'अनन्यत्वहेतवः' इत्युक्तास्त्वत्प्रयुक्तलक्षणवैलक्षण्यविशेषणपक्ष- २२३ १ विरचनया लघ्वादय एव ।
अथवा मुक्त्वापि वा । लक्षणभेदहेतूनां 'सुखं मोहाद् गुरोरन्यल्लघुत्वादू महालोहपिण्डार्कतूलवत्' इत्यादिविशेषणमन्तरेण भेदो न शक्यः साधयितुमिति तद्रचनाकुसृतिर्यथा त्वया क्रियते तथैव मया कृता, किन्तु तां मुक्त्वापि लक्षणभेदवैलक्षण्यविशेषणपक्षविरचनां सत्त्वादिभेदलक्षणाभिमतेभ्य एव त्वदुक्तेभ्यो लघ्वादिहेतुभ्योऽभेदसिद्धिः शक्या आपादयितुं स्फुटेनैव न्यायाध्वना भ्रान्तिजननेन विनेत्यर्थः । तद्यथा-सुखं मोहादनन्यत् , अपुरुषत्वेऽचलत्वात् , मोहस्वात्मवत् , 1 अपुरुषत्वविशेषितः 15 'अचलत्वात्' इति हेतुः पुरुषादचलादू व्यावय॑ते मा भूदनैकान्तिक इति । दुःखादनन्यत् सुखमिति वर्तते, अनियमशीलत्वात् , अत्रापि अपुरुषत्वविशेषणं द्रष्टव्यमधिकारात्, दुःखस्वात्मवदिति । तथा दुःखं सुखादित्यादि साधनचतुष्टयं सुखादनन्यत्वसाधनद्वयवदपुरुष त्व]विशिष्टं दुःखमोहयोः संयोगनिष्पन्नमिति साधनषट्कं गतार्थं यावद दुःखस्वात्मवदिति ।
इतर आह-नन्वेवं विरुद्धाव्यभिचारिवदुभयानिश्चयः । यथोक्तम् - यथोक्तलक्षणयो-20 योर्विरुद्धयोर्नित्यानित्यसाधकयोरेकत्र सन्निपतितयोर्हेत्वोरेकस्मिन् धर्मिणि शब्दे परस्परनिवारितव्याप्त्योः श्रावणकृतकत्वयोः शब्दत्वघटादिदृष्टान्तयोरुभयत्र संशयो भवति [ ] इति, तथेह आवाभ्यामुक्तैरन्यत्वानन्यत्वहेतुभिरुभयानिश्चयोऽस्तु, मा भूत् त्वत्प्रोक्तानामेवैकान्तिकत्वमिति ।।
अत्रोच्यते-न, उक्तत्वात् , नैष उभयानिश्चयो युज्यते, अस्माभिः भिन्नात्मकतायां तु इत्यादि प्रक्रम्य सुखं दुःखादनन्यत् अनात्मत्वे सत्यवरणाद्यात्मकत्वात् दुःखस्वात्मवदित्यादिभिरैकान्तिकैर्हेतुभिर-25 नन्यत्वस्य लिखितत्वात् । अथवा नोक्तत्वादिति त्वत्प्रयुक्तानामन्यत्वहेतूनां लघुत्वादीनामुक्तदोषत्वात् सर्वेऽ
१ 'दुःखं सुखादनन्यदनियमशीलत्वात् सुखस्वात्मवत् , मोहादनन्यदप्रकाशात्मकत्वात् मोहखात्मवत् । मोहः सुखादनन्यः अचलत्वात् सुखखात्मवत् , दुःखादनन्यः अप्रकाशकत्वात् दुःखखात्मवत् ।' इति मूलं सम्भाव्यते ॥ २ °कदेशभताभ्यां प्र० ॥ ३ सत्वतमोभ्या प्र० ॥ ४°चना ल' य०॥ ५°पि चापलक्षण' य० ॥ ६ सदादिभेद प्र०॥ ७॥ एतच्चिदान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ८दुःखादीत्यादि य०॥ ९ * * एतच्चिह्नान्तर्गतः साधन इत्यत आरभ्य वदिति इत्यन्तः पाठो य० प्रतिषु नास्ति ॥ १० (सुखानन्यत्व )?॥ १२ “एकस्मिंश्च द्वयोर्हेत्वोर्यथोक्तलक्षणयोर्विरुद्धयोः सन्निपाते सति संशयदर्शनादयमन्यः सन्दिग्ध इति केचित् ।" इति प्रशस्तपादभाष्ये बुद्धि निरूपणे ॥ १२ तस्माभिः प्र०॥ १३ दृश्यतां पृ० २६० पं० ४॥ १४ दृश्यतां पृ. २७८ पं० १ ॥ १५ दृश्यतां पृ० ३०० ५० ५॥
नय० ३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org