________________
३०४
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [तृतीये विध्युभयारे इति चेत्, न, पूर्वतुल्यत्वात् नान्तरेण प्रवृत्त्यायेकत्वगतिं व्यवस्थापत्तेः ।
___अतो यथाहेत्वैकान्तिकत्वत्प्रयुक्तलक्षणवैलक्षण्यविशेषणपक्षविरचनया त एवान्यत्वहेतवो विपर्यसनीयाः-सुखं मोहाद् गुरोरनन्यत्, लघुत्वात् , लोहपिण्डवदर्कतूलवत् शब्दभावव्यवतिष्ठमानसुखादिवद्वा । तथा दुःखात् प्रवृत्तिशीलादन5 न्यत्, प्रवृत्तिशीलत्वात्, वायुवदाकाशवदित्यादि । मुक्त्वापि वा लक्षणभेदवैल
तिष्ठमानम्' इति व्यवस्थानशब्देनोच्यते, अन्यथा व्यवस्थितमेव शब्दादिभावेन स्यात् सत्त्वमिति । एतच्च न, पूर्वतुल्यत्वात् , यथा प्रांगुक्तं लध्वादिलक्षणसत्त्वाद्यै क्यापत्तिर्द्रव्यम् , तच्च कदाचित् सत्त्वादिपृथगवस्थानाभावात् तत्सन्द्रुतिलक्षणमेवोक्तम् , तथेहापि न स कश्चित् कालोऽस्ति यः प्रवृत्तिनियमविरहितप्रकाशमात्रावस्थानोपलक्षितो यदि* प्रधानावस्थायां यदि व्यक्तावस्थायामिति, अत आह - नान्तरेण 10 प्रवृत्त्यायेकत्वगतिं व्यवस्थापत्तेरिति । आदिग्रहणान्नियमो गृह्यते, प्रवृत्तिनियमावन्तरेण न व्यवस्थापत्तिरस्ति, अतो हेतोर्नान्तरेण प्रवृत्त्यायेकत्वगतिं व्यवस्थापत्तेः पूर्वेण तुल्यत्वम् , इति नास्ति सत्त्वादिपृथक्त्वं तवापीति ।
____ अतो यथाहेत्वैकान्तिकेत्यादि यावद् विपर्यसनीयाः । एतस्मादेव सत्त्वाद्येकत्वाद् यो यो हेतुर्यथाहेतु 'सुखं मोहाद् गुरोरन्यद् लघुत्वात्' इत्यादि त्वत्प्रयुक्तः स स हेतुर्विशेषेणास्मत्पक्षं साधयन्नैका15 न्तिको भवति । तं प्रति यथैकान्तिको भवति तथोच्यते - सुखं मोहाद् गुरोरनन्यल्लघुत्वात् , यद् यल्लघु तत् तद् गुरोरैनन्यत्, लोहपिण्डवदर्कतूलवत् , यथा प्राँग्वर्णितमापेक्षिकमर्कतूलगुरुत्वं
लोहपिण्डलघुत्वं चेति तद् द्वयं सहितं दृष्टान्तः । शब्दभावव्यवतिष्ठमानसुखादिवद्वेति लौकिकार्था२२२, तिक्रमेऽपि त्वन्मतेनैव दृष्टान्तान्तरमिति । तथा दुःखात् प्रवृत्तिशीलादनन्यत् , सुखमिति वर्तते ।
कुतः ? अप्रवृत्तिशीलत्वाद् वायुवदाकाशवदिति पृथक्त्वाभावाद् दर्शयति, यथा वायुराकाशं वा 20 सुखात्मकं दुःखात् प्रवृत्तिशीलादनन्यत् तथेहांपीत्यादिग्रहणाद् दुःखं सुखादनन्यदप्रबृत्तिशीलात् ,
प्रवृत्तिशीलत्वात् , यद्यत् प्रवृत्तिशीलं तत् तदप्रवृत्तिशीलादनन्यद् वाय्वाकाशवत् । तथा सुखं दुःखमोहाभ्यामप्रकाशकाभ्यामनन्यत् , प्रकाशकत्वात्, घटप्रदीपादिसुखवत् । तथा दुःखं मोहादनन्यदचलात् , चलत्वात् , [घट] पर्वतादिदुःखवत् ; तथा सुखात् प्रकाशकादनन्यत् , अप्रकाशकत्वात् , प्रदीपघटादिदुःखवत् । तथा मोहः सुखदुःखाभ्यामगुरुभ्यामनन्यः, गुरुत्वात् , पृथिव्यग्न्यादिगुरुत्ववत्। एवं च सुखत्वाद् 25 दुःखत्वाद् मोहत्वात् प्रसादादिकार्यत्वादित्यादयोऽप्यनन्यत्वहेतव एव । प्रत्येकमितरगुणस्वरूपानन्यत्वं प्रति
ज्ञाय तत्तद्रूपविनिवृत्तिहेतुतो यत् किञ्चिद् वस्तूदाहृत्य साध्यम् , सर्वस्य लोष्टादेर्लघुप्रकाशेतरादिपरस्परापृथग्भूतगुणात्मकत्वात् । तद्यथा- शरीरेन्द्रियगत आत्मैकदेशस्तदेकदेशभूताभ्यां रजस्तमोभ्यामनन्यः सुखत्वा
१ दृश्यता पृ० ३०३ पं० २॥ २* * एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ३ दृश्यतां पृ० ३०३ पं०५॥ ४ दृश्यतां पृ० ३०० पं० १॥ ५सुखं नोहरों प्र०॥ ६ रन्यत् प्र०॥ ७प्रागुवणि भा० ॥ ८ तद्वयं प्र० ॥ ९ °पीति आदि प्र०॥ १० * * एतच्चिह्नान्तर्गतः पाठो भा० प्रतौ नास्ति ॥ ११ लादप्रवृत्तिशीलत्वात् यद्यप्रवृत्ति य० ॥ १२ ततद्रूप प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org