________________
सुखदुःखमोहान्यत्वसाधकहेतूनां निरासः ] द्वादशारं नयचक्रम्
३०३
अथ ममात्र किम् ? द्रव्यं चैतदेवं लघुगुरुत्वापेक्षया तदेव दृष्टम्, न गुणाः । सत्त्वादयो गुणास्त्विमे लघुत्वादिलक्षणा मयोच्यन्ते, द्रव्यता तेषां सन्द्रावे एकत्वापत्तौ भवति ।
आ अद्यापि यदि गुणसन्द्रावो द्रव्यमिष्यते ततस्तवाप्येतद्द्रव्यमेव, कुतोऽस्यासन्द्रावः ? सत्त्वादयो गुणा लघुत्वादिलक्षणास्तत्सन्दुतिलक्षणं द्रव्यमेव, शब्दादि-5 भावेन व्यवस्थानात्, शब्दादिखात्मवत् ।
अनापन्नतद्रूपस्य असन्द्रुतस्य शब्दादिभावापत्तिकालो व्यवस्थानशब्देनोच्यत
भाराल्लघीयान् 'पेलशतिका तुला, विंशतिस्तुला भारः ' ] इति परिभाषितत्वात् । अयस्पिण्डो गुरुरपि लघुरर्कतूलो लघुरपि गुरुर्दृष्ट इत्यनवस्थितैकगुरुत्वलघुत्वतत्त्वे गुरुलघुत्वे, आपेक्षिकत्वादस्मान् 10 प्रति न गुरुत्वलघुत्वे परस्परतोऽन्ये, ततो नायस्पिण्डार्कतूलदृष्टान्तोऽस्ति ।
२२१-२
इतर आह- अथ ममात्र किमित्यादि यावदेकत्वापत्तौ भवतीति । यदि युष्मत्सिद्धान्तेनानवस्थिततत्त्वे लघुगुरुत्वे युज्येते ततो युक्तमुक्तम् - अस्मान् प्रत्य सिद्धं 'लघुरेव' इति । ततो ममात्र किम् ? यत् पुनरेतदुक्तं 'भवन्तं च प्रत्यसिद्धम्' इति तदयुक्तमुक्तम् । यदपि च भवत्सिद्धान्तेनोक्तं तदपि नोपपद्यते, यस्माद् द्रव्यं चैतदेवं लघुगुरुत्वापेक्षया तदेव दृष्टमिति न गुरुलघ्वादयो गुणाः सत्त्वरजस्तमांसि च, लघ्वादि प्रकाशाद्यात्मका गुणास्त्विमे तल्लक्षणा मयोच्यन्ते, तेषां गुणानां सन्द्रावे सङ्गमे, तदर्थव्यक्ति: 15 एकत्वापत्ताविति, तत्रैतस्मिन् गुणैकगमने द्रव्यता भवति गुणसन्द्रावो द्रव्यम् [ पा० म० भा० ५।१।११९] इतिलक्षणात्, ते च गुणाः परस्परतोऽन्ये, तस्मान्नासिद्धमित्यभिप्रायः ।
आचार्य आह - आ अद्यापीत्यादि यावच्छब्दादिस्वात्मवदिति । नन्वेतत्प्रतिपादनमेव वर्तते 'अनन्यत्वं गुणानाम्, तस्मादेकैककारणम्' । यदि भवता गुणसन्द्रावो द्रव्यमिष्यते ततस्तवाऽप्येतद् द्रव्यमेव, न गुणाः पृथक्, सँन्दुतानामेवावस्थानात् कुतोऽस्यासन्द्रावः ? न प्रधानावस्थायां नापि 20 व्यक्तावस्थायामसन्द्रावः, यतोऽस्यासन्द्रावादद्रव्यत्वं स्यात् । तस्माद् द्रव्यमेव, न पृथगू लध्यादयो गुणा इति । तत्रापि च प्रतिज्ञायते - सत्त्वादयो गुणा लघुत्वादिलक्षणाः तत्सन्द्रुतिलक्षणं द्रव्यमेव, शब्दादिभावेन व्यवस्थानात्, यो यः शब्दादिभावेन व्यवतिष्ठते स सोऽर्थो लघ्वादिलक्षणगुणसन्द्रुति द्रव्यमेव, शब्दादिस्वात्मवत् यथा शब्दादिखात्मानः सत्त्वादिगुणसन्द्रुतिलक्षणं द्रव्यमेव शब्दादिभावेन व्यवस्थानात् तथा लघुगुरुत्वादिलक्षणाः सत्त्वादय इति ।
"
अनापन्न तद्रूपेत्यादि यावदुच्यत इति चेदिति । शब्दादिरूपमनापन्नस्य सत्त्वस्यासन्दुतस्य गुणान्तरासङ्गतस्य तदनात्मकस्य स्वेनैव रूपेण स्थितस्य प्रागारम्भादारभमाणस्य च यः शब्दादिभावापत्तिकालो यावदनिष्पन्नशब्दादित्वकाल इत्यर्थः सा ह्यवस्था 'संवं शब्दकार्य प्रख्याय शब्दात्मना व्यव
१ "तुला स्त्रियां पलशतम्, भारः स्याद् विंशतिस्तुलाः ।" इति अमरको २९८७ । “पंचपलसइया तुला, दस तुलाओ अद्धभारो, वीसं तुलाओ भारो ।” इति अनुयोगद्वारसूत्रे, सू० १३३ ॥ २ स्थि० । 'वस्थैकगु ३ रतोनन्ये प्र० ॥ ४ दृश्यतां पृ० ३०१ पं० २ ॥ ५ प्रसिद्धम् प्र० ॥ ६ संभूताना' प्र० ॥ ७ कुता भा० । कुतस्यां य० ॥ ८ सत्वस्यासत्वस्या प्र० ॥ ९ दृश्यतां पृ० २८८ पं० २ ॥
भा० ॥
Jain Education International
For Private & Personal Use Only
25
२२२-१
www.jainelibrary.org