________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ तृतीये विध्युभयारे
अत्यन्तगुरुतायामेतदेव पतेत्, संयोगभावेऽपि पतनप्रतिबन्ध्यविषह्यगुरुत्वात् तन्तुप्रतिबन्धानिवार्य पातोपलवत् । योगिनोऽपि च सुतरां पतनमेव स्यात्, शिलाबद्धशिलावत् । अत्यन्तलघुतायां न कदाचिदपि पतनं स्यात् । कन्यानुदूरवत्तु व्यवहारोऽयमपेक्षाकृतो वादरस्कन्धविषयः । एवमेवापेक्षिक लोह पिण्डकार्कतूलगुरुत्व लघुत्वेऽनवस्थितैकत्वे ।
.३०२
निष्कृय अवधार्य चतः ज्ञानतः परमार्थनयतो वा सर्वथा लघु सर्वं वा लघु न विद्यते तथा सर्वगुरु द्रव्यम्, परमाणु द्विप्रदेशाद्यसङ्ख्येयान्तानां केषाञ्चिदनन्तप्रदेशानां च स्कन्धानां शेषद्रव्याणां चागुरुलघुस्वात्, ततः परमनन्तानन्त प्रदेशानां बादराणामापेक्षिकलघुगुरु परिणामित्वात्, व्यवहारनयेन तु युज्यते लघुत्वं गुरुत्वं वा अन्योन्यस्मात् लघुर्गुरुर्वेति । वैतं रातीति वातरा बदरप्रमीणा बादरा वा स्कन्धाः स्थूला 10 इत्यर्थः । ण इतरेसु, नेतरेसु, प्रागुक्तपरमाण्वादिषु सूक्ष्मेष्वगुरुलघुत्वमेवेत्यर्थः ।
अत्यन्तगुरुतायामित्यादि निरपेक्षैकान्तगुरुतार्यांमेतदेव पतेत् पतनक्रियमेव स्यात् न तिष्ठेद् नोद्धुं गच्छेद् गुरुत्वात्, दृष्टान्तो वक्ष्यमाणः । स्यान्मतम् - पतेदेव गुरु यदि प्रतिबन्धी न स्यात्, अस् तु संयोगः प्रतिबन्धी पतनस्य फलस्येव वृन्तमिति, अतो विशेषयामः - संयोगभावेऽपि पतनप्रतिबन्ध्यविषह्यगुरुत्वादिति, प्रतिबन्धिना यद् विषह्यं न भवति गुरु तत् पतेदेव, स चास्य नास्ति प्रतिबन्धी 15 त्वयैकान्तगुरुत्वाभ्युपगमात् । तन्तुप्रतिबन्धानिवार्य पातोपलवत्, एकेन तन्तुना प्रतिबन्धिना सत्यपि २२१-१ संयोगभावे तदविषह्यगुरुत्वात् पतत्येव यथोपलस्तथैतत् पतेदेव सुखं लघुत्वशून्यगुरुत्वादिति । योगिनोऽपि चेत्यादि, योऽपि चास्य योगी प्रतिबन्धकस्तस्यापि च योगिनः प्रतिबन्धिनो गुरुत्वात् तत्पतनोपचयहेतुत्वात् सुतरां पतनमेव स्यात् पतेदेव तेनापि हि सह शिलाबद्ध शिलावदिति पातहेतुत्वं द्रढयति । एवं तावदत्यन्तगुरुत्वे पतनमेव प्रसक्तम् । अथवा मा भूदेष दोष इत्यत्यन्तलघुत्वमिष्यते ततोऽत्यन्तलघुतायां 20 न कदाचिदपि पतनं स्यात्, पाताख्यो भाव एव न स्यात् तस्योत्पत्तिकारणाभावात्, तच्च कारणं गुरुत्वं पतनस्य, तदभावात् खपुष्पवत् न स्यात् । स्यान्मतम् - दृष्टविरुद्धमुच्यते गुरुलघुत्वदर्शनात् 'अर्कतूलो लघुर्गुरुर्लोहपिण्डः' इति दृष्टत्वादिति । एष न दोषः यस्मात् वैंवहारतो तु जुज्जति इत्युक्तत्वादित्यत आहकन्यानुदरवत्त व्यवहारोऽयमपेक्षाकृतो बादरस्कन्धविषय इति, यथा 'अनुदरा कन्या' इत्यन्यासा - मुदरवतीनामुदरेण सदृशमुदरमस्या नास्तीत्युदरवत्येव 'अनुदारा' इत्युच्यते व्यवहारतस्तथा बादरस्कन्धेषु 25 लघुगुरुत्वे । यदपि च लोहपिण्डार्क तूलोदाहरणं तदपि तत्तुल्यापेक्षिकलघुगुरुत्वे एव साधयतीत्यत आहएवमेवापेक्षिकेत्यादि यावदनवस्थितैकत्वे | अल्पवाचिनि कनि लोहपिण्डकः पलमात्रप्रमाणोऽर्कतूल
१ शेषद्रव्याणां धर्मास्तिकायादीनामित्यर्थः ॥ २ लघुगुरु प्र० । अयमपि लघुगुरु' इति पाठः कथञ्चित् सङ्गच्छत एव, दृश्यतां पृ० ३०१ टि० १ ॥ ३ वातं वातं रातीति भा० ॥ ४ माण प्र० ॥ ५ नतरेषु प्र० ॥ ६ मेतेदेव पतेत् भा० । अत्र मेतत् पतेदेव इत्यपि पाठः स्यात् ॥ ७ शिलाबद्धशिलाबद्ध य० ॥ ८ अत्र अथ मा इत्यपि पाठः स्यात् ॥ ९ इत्यन्त ं प्र० । १० व्यव य० ॥ ११ युज्यतीत्युक्त प्र० । दृश्यतां पृ० ३०१ पं० ५ ॥ १२ अल्पबाधिनि कनि प्र० । 'लोहपिण्डकः' इत्ययं शब्दः 'कन्' प्रत्ययान्तः, स च 'कन्' प्रत्ययः 'अल्प'वाची “अल्पे” [ पा० ५।३।८५ ] इति सूत्रेण विधीयमानत्वादित्याशयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org