________________
३०१
सुखदुःखमोहान्यत्वसाधकहेतूनां निरासः] द्वादशारं नयचक्रम् कृतवपक्षप्रत्यक्षीकरणार्थाश्च । अनवधृतलघ्वादिधर्मतायामितरात्मकमपीति अतथातैव । असजातीयलक्षणव्यावृत्तार्थविषयतायामसिद्धं पक्षधर्मत्वमस्मान् प्रति भवन्तं च । तद्यथा
रणिच्छयतो सव्वलहुं सव्वगुरुं वा ण विजए दव्वं ।
ववहारतो तु जुजति बायरखंधेसु ण इतरेसु ॥ [ बृहत्कल्प० ६५] किश्चान्यत् , स्वत एवानुमाननिराकृतस्वपक्षप्रत्यक्षीकरणार्थाश्च एते हेतवः' इति वर्तते, 'अस्ति प्रधानं भेदानामन्वयदर्शनात्' इति प्रक्रम्य सुखदुःखमोहान्विता आध्यात्मिका बाह्याश्च शब्दादयः कार्यात्मकास्त्रयाणामेककार्यभावात्, तदारब्धाश्चाकाशवाय्वनलाम्भोभूमयो भूताख्यास्तैर्यग्योनमानुषदैवानि शरीराणीन्द्रियाणि च तदात्मकानि त्रयाणामेककार्यभावात् सुखाद्यन्वितान्येव चन्दनशकलादिवत् [ ] इत्येवमाद्यनुमानसिद्धं त्रैगुण्यम् 'अन्यत् सुखं दुःखमोहाभ्यां लध्वेव च' इत्येवमादिपक्षं 10 निराकरोति तस्य स्वपक्षस्यानुमाननिराकृतस्यान्याविदितस्य सर्वलोकाप्रत्यक्षस्य सतः प्रत्यक्षीकरणार्या एते हेतवः संवृत्ता इतीत्थमनुमानविरुद्धप्रतिज्ञादोषो वनवक्रोक्तिरेषा ।
किश्चान्यात् , अनवधृतेयादि यावदतथातैव । 'लघुत्वात्' इत्यादयो हेतवः किमवधारितार्था उतानवधारितार्थाः ? इति सम्प्रधार्यमेतत् , लध्वेव सुखं न गुरु न चलं वा, तथान्येषामपि चलत्वादीनां चलमेव गुर्वेव प्रवृत्तिशीलमेवेति । तत्रानवधारितलध्वादिधर्मतायां सत्यामितरात्मकमपीति लघुचल-15 गुर्वादित्र्यात्मकतयैव पक्षधर्मता स्यादेषां तथा सति इत्यतथातैव अनन्यतैवेत्यर्थः, इतिशब्दहेत्वर्थत्वात् २२०-२ त्र्यात्मकैकत्वादित्यर्थः । असजातीयेत्यादि यावदस्मान् प्रति भवन्तं चेति । अथावधारितार्था एते लध्धादिहेतवो गुर्वाद्यसजातीयलक्षगव्यावृत्तार्थविषयास्ततस्तेषामसजातीयलक्षणव्यावृत्तार्थविषयतायां विशेषतोऽपक्षधर्मतैव, मूलतस्तत्रास्मान् प्रति तावदपक्षधर्मत्वम् । तद्यथा-णिच्छयतो सव्वलहुँति गाथा,
१ "पुनरपि शिष्यः प्राह-कथमेतदवसीयते 'एकैक आकाशप्रदेशोऽनन्तैरगुरुलघुपर्यायैरुपेतः? उच्यते-इह द्विविधं वस्तु, रूपिद्रव्यमरूपिद्रव्यं च। तत्र रूपिद्रव्यं चतुर्धा, तद्यथा-गुरु, लघु, गुरुलधु, अगुरु लघु च। एतदप्युच्यते व्यवहारतः, निश्चयतः पुनििवधमेव गुरुलघु अगुरुलघु च । तथा चाह-णिच्छयतो सव्वगुरुं सव्वलहुं वा ण विजए दबं । ववहारतो तु जुजति बादरखंधेलु णणेसु॥६५॥ 'निश्चयतः' निश्वयनयमतेन न किञ्चिद् द्रव्यं 'सर्वगुरु' एकान्तगुरु, यदि स्यादेकान्तगुरु तत एकान्तेनैव पतनधर्मि स्यात् , न च पतति तस्मान्न विद्यते सर्वगुरु, नापि 'सर्वलघु' एकान्तलघु, यदि स्यादेकान्तलघु ततो न कदाचित् पतति, अय कदाचित् पतति तस्मान्न सर्वलध्वपि । 'व्यवहारतः' व्यवहारनयमतेन पुनयुज्यते सर्वगुरु सर्वलघु च । केषु? इत्याह-'बादरस्कन्धेषु' बादरत्वपरिणामपरिणतेषु अनन्तप्रादेशिकेषु स्कन्षेषु, 'नान्येषु' सूक्ष्मपरिणामपरिणतेषु । तत्र गुरु द्रव्यं यथा-अयस्पिण्डः, लघु यथा-अर्कतूलम् , गुरुलघु यथा-वायुः, अगुरुलघु परमाण्वादि । निश्चयतः पुनरेवं द्विविधद्रव्यभावना-परमाण्वादेरारभ्य सङ्ख्यातप्रदेशात्मकोऽसङ्ख्यातप्रदेशात्मको यश्चानन्तप्रदेशात्मकः सूक्ष्मस्कन्धः कार्मणप्रभृतिक एते अगुरुल यवः, बादराः स्कन्धा
याहारकनैजसरूपा गुरुलघवः ।" इति श्रीमलयगिरिसरिविरचितायां ब्रहत्कल्पसूत्रनियुक्तिवृत्तौ । “ओरालियवे उब्वियाहारगतेय गुरुलहू दवा । कम्मगमणभासाई एयाई अगुरुलहुयाइं ॥ ६५८ ॥ गुरुयं लहुयं उभयं नोभयमिति वावहारियनयस्स । दवं, लेटुं दीवो वाऊ वोमं जहासंखं ॥ ६५९ ॥ निच्छयओ सबगुरुं सवलहुं वा न विजए दत्वं । बायरमिह गुरुलहुयं अगुरुलहुं सेसयं सत्वं ॥ ६६० ॥” इति श्री जिनभद्रगणिक्षमाश्रमणविरचिते विशेषावश्यकभाष्ये ॥ २ तश्चप्रत्यक्षी प्र०॥ ३ तदाथानि य० । तदानि भा० ॥ ४ भवन प्र०॥ ५ उतानधारि' प्र०॥ ६ तत्वानव प्र० ॥ ७°कत्रयैव प्र० ॥ ८ भवन्तंमि अथा भा० । भवन्तमि अथा य० । दृश्यतां पृ० ३०३ पं० १२,१३ ॥ ९दहेतवो प्र०॥ १० ताया विशेषतोः पक्ष भा० । ताया विशेषहेतोः पक्ष य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org