________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् । [तृतीये विध्युभयारे नापृथग्भूतता । सुखं मोहाद् गुरोरन्यत् , लघुत्वात् , लोहपिण्डादिव अर्कतूलः ....... । पुनश्च सुखत्वदुःखत्वमोहत्वादयोऽप्यन्यत्वहेतवः स्युः। शरीरेन्द्रियगत आत्मैकदेशस्तदेकदेशभूताभ्यां रजस्तमोभ्यामन्यः, सुखत्वात्, लोष्टवत् । एवं दुःखमोहौ। 5 सर्वेऽप्येते हेतवोऽप्रसिद्धसाध्यधर्मसमन्वयव्यावृत्तयः खत एवानुमाननिरा
इतर आह - नापृथग्भूततेत्यादि हेत्वसिद्धिप्रतिपादनसाधनानि लोकप्रसिद्धदृष्टान्तानि यावत् प्रदी२१९-२पादिव घट इति । लोष्टदृष्टान्तो वक्ष्यते सुखदुःखमोहैः पुरुषभोग्यैरन्योन्यतोऽन्यैरुपेत इत्यतिदेशसाधनो
क्तिकाल उत्तरत्र । अपृथग्भूतसमवस्थानस्वरूपमसिद्धम् , तत् कथमिति चेत्, साधनैरेवोच्यते -सुखं
मोहाद् गुरोरन्यदित्यादि सुबोधत्वान्न व्याख्येयं परस्परान्यत्वसाधनकदम्बकं यथाभाष्यलिखितमनुगन्तव्यम् । 10 पुनश्चेत्यादि, एतस्मादन्ये साधनप्रपञ्चात् सुखत्वात् दुःखत्वाद् मोहत्वादित्यादयोऽप्यन्यत्वहेतवः
स्युः, आदिग्रहणात् प्रसादादयोऽपीति । तत्प्रयोगदिगुंपप्रदर्शनार्थमाह - शरीरेन्द्रियगत आत्मैकदेशस्तदेकदेशभूताभ्यां रजस्तमोभ्यामन्यः, कार्यभूतस्य शरीरस्य कारणभूतानां चेन्द्रियाणामाध्यात्मिकानामेकदेशस्तदात्मभूतत्वं गतस्तदात्मभूताभ्यां रजस्तमोभ्यामन्यः, सुखत्वात्, लोष्टवत् , यथा लोष्टो
भोग्यो हि पुरुषस्य भोक्तुरुपयोगार्थप्रवृत्तेः कपोतोन्नयनार्थक्षेपणादानादिषु सुखं दृष्टं चलनपीडनादिषु दुःखं 15 'लोष्टो नु कपोतो नु' इत्यादिसंशयविपर्ययादिषु मोहः । तस्मात् सुखं दुःखमोहाभ्यामन्यद् लोष्टवत् , लोष्ट
इव लोष्टवत् । एवं दुःखमोहावित्यतिदेशः, दुःखं शरीरेन्द्रियगतं तदात्मैकदेशभूताभ्यां सत्त्वतमोभ्यामन्यद् दुःखत्वाल्लोष्टवत् , मोहः सत्त्वरजोभ्यामन्यो मोहत्वाल्लोष्टवदिति ।
___ अत्र ब्रूमः - सर्वेऽप्येत इत्यादि । सर्वग्रहणाद् लघुत्वादयो मोहत्वपर्यन्तास्त्वयोक्ता अन्यत्वहेतवोऽप्रसिद्धसाध्यधर्मसमन्वयव्यावृत्तयः । एते हेतवोऽसिद्धा एवावधारणे' इति वक्ष्यति, सिद्धत्वेऽपि 20 अप्रसिद्धसाध्यधर्मसमन्वयाः पृथग्भूतसुखाद्यात्मकसत्त्वादिलध्वादितूंललोष्टादिवस्त्वभावात् , सर्वस्य त्रैगुण्या
व्यतिरेकाच्च । न चैषां विपक्षाद् व्यावृत्तिरस्ति, तूललोष्टादेरेव विपक्षत्वेन व्यवस्थानात् । विविक्तैकसुखात्म२२०-१ काद्धि वस्तुनोऽन्यद् विविक्तदुःखाद्यात्मकं स्याद् विपक्षः, तत्तु नास्ति सर्वस्य त्रिगुणैकात्मकत्वात् , न
पुरुषोऽसत्त्वात् तस्यापि सुखादन्यत्वादिति । ततश्च तूललोष्टादेरपि विपक्षत्वात् ततश्च लघुत्वादिहेतूनामव्यावृत्तेरप्रसिद्धसाध्यधर्मव्यावृत्तयस्ते हेतव इति विरुद्धत्वं हेतुदोषः । साध्यसाधनोभयानन्वयो धर्म्यसिद्धिश्च 25 साधर्म्यदृष्टान्तः, साध्याव्यावृत्तादिदोषश्च वैधर्म्यदृष्टान्त इति दर्शयति ।
१ 'सुखं मोहाद् गुरोरन्यत् , लघुत्वात् , लोहपिण्डादिवाकैतूलः, दुःखादन्यत् प्रवृत्तिशीलात् , अप्रवृत्तिशीलत्वात् , आकाशादिव वायुः । दुःखं मोहादन्यदचलात्, चलत्वात्, पर्वतादिव घटः । मोहः सुखदुःखाभ्यामगुरुभ्यामन्यः, गुरुत्वात् , पृथिव्या इव अग्निः । दुःखमोहौ सुखात् प्रकाशकादन्यौ, अप्रकाशकत्वात् , प्रदीपादिव घटः ।' इत्याशयको मूलपाठोऽत्र स्यादिति सम्भाव्यते ॥ २ ग्भूतेत्यादि य० ॥ ३ पुनरश्चे य० । पुनरश्वे भा० ॥ ४ दन्य सा प्र० ॥ ५ °गुपद भा० ॥ ६ कपोतोनयना प्र०॥ ७ लोष्ट इव लोष्टवत् य० प्रतिषु नास्ति ॥ ८ दृश्यतां पृ० ३०१ पं० २ ॥ ९°कुल प्र०॥ १० विपक्षतस्तु नास्ति सर्वस्य त्रिगुणैकत्वात्मक य० ॥ ११ मप्यावृत्ते प्र० ॥ १२ वृत्त्यादि य० । दृश्यतां पृ० २६० टि० ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org