SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ सुखदुःखमोहानामन्यत्वनिराकरणम्] द्वादशारं नयचक्रम् २९९ अपृथग्भवनसमवस्थान..... एतेनाध्यात्मिकानां कार्यकारणात्मकानां भेदानाम् मोहो गुरुरित्युभाभ्यामन्यः । ननु लक्षणभेदाहेतुत्वम्, अपृथग्भूतसमवस्थानखरूपलक्षणभेदात्मकत्वात्, वरणादिभिन्नलक्षणतमस्त्ववत् । दुःखमोहमयत्वातिदेशः कार्यकारणात्मकत्वात् तेषामपीति । अस्य ग्रन्थस्यार्थव्याख्यानं साधनैरेव क्रियते-- सत्त्वरजस्तमांसि जात्यन्तराणि, लक्षणभेदात् , चेतनशरीरवत् । लक्षणभेदः सत्त्वं लघ्वप्रवृत्तिशीलं दृष्ट-5 मित्यादि तत्साधनैर्भाष्ये सुलिखितमिति न विवृण्महे । तथा रजस्तमसोरन्यत्वापादनसाधनान्यनुगन्तव्यानि यावद् गुरुरित्युभाभ्यामन्य इति । ___ आचार्य उत्तरमाह -- ननु लक्षणभेदाहेतुत्वमित्यादि यावत् तमस्त्ववत् । लक्षणभेदहेतूनां लघुत्वादीनामप्यहेतुत्वम् , एतेनैव प्रत्युक्तत्वात् । कथम् ? लघुत्वप्रकाशाप्रवृत्तिशीलत्वान्यप्येकम् , अपृथग्भूतसमवस्थानस्वरूपलक्षणभेदात्मकत्वाद् वरणादिभिन्नलक्षणतमस्त्ववत् , तथैव व्याख्येयं लक्षण-10 शब्दाधिक्येन, विग्रहरतु तत्स्वरूपमेव लक्षणम् , स एव भेदो यस्येति । तस्मात् तादृक्स्वरूपलक्षणभेदात्मकत्वमप्यहेतुः । अतो नान्यत्वं सत्त्वादीनामिति । धारयति । तदेवं यथा घटं तथा शेषाण्यपि ।”-जे० साङ्ख्यका० वृ० B, माठरवृत्तावपि एतदर्थक एव पाठः । "त्रयोदशविधं करणं किं करोतीत्यत्रोच्यते-(?) धारणं कर्मेन्द्रियाणि कुर्वन्ति, प्रकाशं बुद्धीन्द्रियाणि कुर्वन्ति । तदाहरणधारणप्रकाशकरं किं तदस्ति यस्याहरणं धारणं प्रकाशं करणं करोतीत्यत्रोच्यते-कार्य च तस्य दशधाऽऽहार्य धार्य प्रकाश्य च । कार्यमिति शब्दस्पर्शरूपरसगन्धाः पञ्च वचनादान विहरणोत्सर्गानन्दास्तु पञ्च, एते दश विषयाः कार्यमित्युच्यते । तं . दशविधं विषयं बुद्धीन्द्रियैः प्रकाशितं कर्मेन्द्रियाणि आहरन्ति धारयन्ति चेति ।"जे०सायका वृ० A "तत्राहरणं धारणं च कर्मेन्द्रियाणि कुर्वन्ति प्रकाशं बुद्धीन्द्रियाणि । कतिविधं कार्य तस्येति तदुच्यते-कार्य च तस्य दशधा । तस्य करणस्य कार्य कर्तव्यमिति दशधा दशप्रकार शब्दस्पर्शरूपरसगन्धाख्यं वचनादानविहरणोत्सर्गानन्दाख्यमेतद् दशविधं कार्यम् । बुद्धीन्द्रियैः प्रकाशितं कर्मेन्द्रियाणि आहरन्ति धारयन्ति चेति ।" इति गौडपादभाष्ये । “शब्दादयः पञ्च विषयाः वचनादयः पञ्च वृत्तयः एतानि दश तत्कार्याणि । किञ्च ] तत्कार्य त्रिविधम्-आहार्य प्रकाश्यं धार्यमिति । तत्र त्रिभिराहृतं पञ्चभिर्बुद्धीन्द्रियैः प्रकाशितं पञ्च कर्मेन्द्रियाणि धारयन्ति ।" इति सुवर्णसप्ततिशास्त्रव्याख्याभिधानायां साङ्ख्यकारिकावृत्ती [चीनभाषानुवादानुसारेण] | "तत्र कर्मेन्द्रियाणि वागादीनि आहरन्ति यथावमुपाददते खव्यापारेण व्याप्नुवन्तीति यावत् । बुद्धयहङ्कारमनांसि तु खवृत्त्या प्राणादिलक्षणया धारयन्ति । बुद्धीन्द्रियाणि च प्रकाशयन्ति ।कार्य च तस्य त्रयोदशविधस्य करणस्य दशधा-आहार्य धार्य प्रकाश्यं च । आहार्य व्याप्यम् । कर्मेन्द्रियाणां वचनादानविहरणोत्सर्गानन्दा यथायथं व्याप्याः, ते च यथायथं दिव्यादिव्यतया दशेति आहायें दशधा । एवं धायेमप्यन्तःकरणत्रयस्य प्राणादिलक्षणया वृत्त्या शरीरम् , तच्च पार्थिवादिपाश्चभौतिकम्, शब्दादीनां पञ्चानां समूहः पृथिवी, ते च पञ्च दिव्यादिव्यतया दशेति धार्यमपि दशधा । एवं बुद्धीन्द्रियाणां शब्दस्पर्शरूपरसगन्धा यथायथं व्याप्याः, ते च यथायथं दिव्यादिव्यतया दशेति प्रकाश्यमपि दशधेति ।" इति सायकारिकायाः वाचस्पतिमिश्ररचितायां साङ्ख्यतत्वकौमुद्यां वृत्तौ । “कलविकरणाय नमः [पाशुपतसू० २४] । अत्र कला नाम कार्यकरणाख्याः कलाः । तत्र कार्याख्याः पृथिव्यापस्तेजो वायुराकाशः । आकाशः शब्दगुणः । 'शब्दस्पर्शगुणो वायुस्तौ च रूपं च तेजसि । ते रसश्च जले ज्ञेयास्ते च गन्धः क्षितावपि ॥' शब्दस्पर्शरसरूपगन्धाः। तथा करणाख्याः श्रोत्रं त्वक् चक्षुः जिह्वा घ्राणं पादः पायुः उपस्थः हस्तः वाक् मनः अहङ्कारः बुद्धिरिति ।" इति पाशुपतसूत्रस्य पञ्चार्थभाष्ये Trivandrum Sanskrit Series, No 143.॥ १'अपृथग्भवनसमवस्थानस्वरूपभेदात्मकत्वेऽपि सुखदुःखमोहा जात्यन्तराणि लक्षणभेदात् । एतेन आध्यात्मिकानां कार्यकारणात्मकानां भेदानां सुखदुःखमोहमयत्वं बोध्यं समन्वयदर्शनात् । सुखं लघु अप्रवृत्तिशीलं दृष्टमित्युभाभ्यामन्यत् । दुःख चलमित्युभाभ्यामन्यत् । मोहो गुरुरित्युभाभ्यामन्यः ।' इत्याशयको मूलपाठोऽत्र स्यादिति सम्भाव्यते ॥ २ लक्षणभेदहेतुत्व प्र० । अत्र लक्षणभेदहेतूनामप्यहेतुत्व इत्यपि पाठः स्यात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy