________________
२९८
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [तृतीये विध्युभयारे देशकालाभेदेन सहभवनेऽपि सङ्गत्यैक्यावस्थानस्वरूपत्वविशेषणात् कचित् कदाचित् पृथग्भवनाभावादित्युक्तं भवति । तत्स्वरूपभेदात्मकत्वं च वादिप्रतिवादिप्रसिद्धम् । दृष्टान्तः -वरणादितमस्त्ववत् , यथा वरणसदनापधंसनबैभत्स्यदैन्यगौरवाणां परस्परतो भिन्नानां छादनस्तम्भनविशरणारोचनविषादाधोगमनधर्माणां भेदात्मकत्वे सत्यपि मोहात्मकतमःस्वारूप्यानतिक्रमेणैक्यमपृथग्भवनसमवस्थानस्वरूपभेदात्मकत्वात् 5 तथास्मादेव हेतोः सत्त्वादीन्येकमिति ।
अत्राह - अपृथग्भवनसमवस्थानेत्यादि जात्यन्तरत्वसाधनानि यावद् गुरुरित्युभाभ्यामन्य इति, ननूक्तमन्वयवीत एव, अत्राह- कथं पुनरेतदुपलभ्यते सुखःदुखमोहा जात्यन्तराणि इति, अत्रोच्यते - सुखं लध्वप्रवृत्तिशीलं प्रकाशकं दृष्टम् , सुखाश्च करणप्रकाशाः, तस्मात् प्रवृत्तिनियमाभ्यामन्ये । तथा दुःखं
चलमप्रकाशकं प्रवृत्तिशीलं दृश्रम, दःखाश्च करणप्रवृत्तयः, तस्मात प्रकाशनियमाभ्यामन्याः । तथा मोहो २०.५ गुरुरप्रकाशको दृष्टः, मूढाश्च करणनियमाः, तस्मात् प्रकाशप्रवृत्तिभ्यामन्य इति । एतेनाध्यात्मिकानां
कार्यकारणात्मकानामित्यादिनोत्तरेण ग्रन्थेन तैर्यग्योनादिसंसारगताध्यात्मिककार्यकारणात्मकभेदानां सुख
. १ स्यादिगौर प्र० ॥२ “सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः ...... ॥ १३॥" साल्यका०॥ अत्र नयचक्रवृत्तौसायकारिकावृत्तियक्तिदीपिकादिप्राचीनग्रन्थेषु च साज्यमतनिरूपणप्रसङ्गे 'कार्यकारणा त्मक'शब्दप्रयोगो बहुषु स्थानेषु दृश्यते । किन्तु पूर्वापरसम्बन्धविचारणया तव्याख्यावलोकनेन च तत्र 'कार्यकरणात्मक' इति पाठः समीचीन इति भाति, दृश्यतां पृ० १२ पं० १७, पृ० २२८-२ । साङ्ख्यमते हि प्रकृतेर्विकारभूताः पदार्थाः कार्यकरणभेदेन द्विधा विभक्ताः । तथा च तद्रन्थः---"आह- करणं प्रत्याचायविप्रतिपत्तेः, एकादशविधमिति वार्षगणाः, दशविधमिति तान्त्रिकाः पञ्चाधिकरण प्रभृतयः, द्वादशविधमिति पतञ्जलिः, तस्माद् भवतः कतिविधं करणमभिप्रेतमिति वक्तव्यमेतत् । उच्यते-करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । पञ्च कर्मेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि मनोऽहङ्कारो बुद्धिश्चेत्येतत् सर्वं पुरुषार्थोपयोगि करणम्......। आह - करणमिति क्रियाकारकसम्बन्धगर्भोऽयं निर्देशः । कथम ? येन [क्रियते] तत् करणमिति । तत्र वक्तव्यम् का किया किं च तत् क्रियते यदपेश्य बुद्ध्यादीनां करणत्वमिति? उच्यते, यदुक्तं 'का क्रिया' इत्यत्र ब्रूमः - न तन्निवर्त्य मिहाभिप्रेतम् दण्डादिवत् । किं तर्हि ? तदाहरणधारणप्रकाश करम् । तत्राहरणं कर्मेन्द्रियाणि कुर्वन्ति, विषयार्जनसमर्थत्वात् । धारणं बुद्धीन्द्रियाणि कुर्वन्ति, विषयसन्निधाने सति श्रोत्रादिवृत्तेस्तद्रूपापत्तेः । प्रकाशमन्तःकरणं करोति निश्चयसामर्थ्यात् । अपर आह-आहरणं कर्मेन्द्रियाणि कुर्वन्ति, धारणं मनोऽहङ्कारश्च, प्रकाशनं बुद्धीन्द्रियाणि बुद्धिश्चेति । एतदभिसन्धाय बुद्ध्यादीनां करणत्वमुच्यते इति । यत्तूक्तं किं कार्यमिति, उच्यते - कार्य च तस्य दशधा, दशेति पञ्च विशेषाः पञ्च अविशेषाः । तदप्यत एव कार्यशब्दं लभते - आहार्य धार्य प्रकाश्यं च, तद्धि आहर्तव्यं धारणीयं प्रकाशयितव्यं च अतः कार्यमित्युच्यते, न निवर्त्यत्वात् । [ का० ३२, पृ० १३२-१३३ ] ।.....'व्याख्यातं करणपर्व, कार्यपर्व इदानीं वक्तव्यम् , तस्य च पुरस्तादुद्देशः कृतः-कार्ये च तस्य दशधा पञ्च विशेषाः पञ्च अविशेषा इति । साम्प्रतं तु निर्देशं करिष्यामः । आह-यद्येवं तस्मादिदमेव तावदुच्यता के विशेषाः केऽविशेषा इति । उच्यते--तन्मात्राण्यविशेषाः। यानि तन्मात्राणि 'पञ्च अहङ्कारादुत्पद्यन्ते इति प्रागपदिष्टं ते खलु अविशेषाः ।......आह -अथ के पुनर्विशेषा इति । उच्यते - यानि खलु
पनि पञ्च पञ्चभ्यः उत्पद्यन्ते एते स्मृता विशेषा: [का० ३८, पृ० १४०]" इति साङ्ख्यकारिकाया युक्तिदीपिकायां वृत्तौ । माठरादिपरम्परासु तु “करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । कार्यं च तस्य दशधाऽऽ हार्य धायें प्रकाश्यं च ॥३२॥” इति साङ्ख्यकारिका अन्यथा व्याख्याता दृश्यते, तद्यथा-"त्रयोदशविधं करणं किं करोतीत्यत्रो. च्यते-आहारकं धारकं प्रकाशकं च । अत्राहारकमिन्द्रियलक्षणम् , धारकमभिमानलक्षणम् , प्रकाशकं बुद्धिलक्षणम् । अत्राहकिं तदस्ति यस्याहरणं धारणं प्रकाशनं च क्रियते ? अत्रोच्यते- कार्य च तस्य दशधाऽऽहार्य धार्य प्रकाश्यं च । शब्दस्पर्शरूपरसगन्धाः पञ्च वचनादानविहरणोत्सर्गानन्दास्तु पञ्च, एते दश विषयाः कार्यमित्युच्यते । तं दशविधं विषयं बुद्धीन्द्रियैः प्रकाशितमर्थ कर्मेन्द्रियाणि आहरन्ति धारयन्ति च । तद्यथा-तमःस्थितं घटं दीपेन प्रकाशितं हस्त आदत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org