________________
२९७
प्रकाशप्रवृत्तिनियमानामैक्यापादनम् ] द्वादशार नयचक्रम् सत्त्वप्रकाशो रजःप्रकाशस्तमःप्रकाशश्च तमःप्रकाशेन सत्त्वप्रकाशो रजःप्रकाशस्तमःप्रकाशश्च प्रकाश्यते प्रवर्त्यते नियम्यते इति त्रयोऽप्यर्था ऐक्यमापादनीयाः । सोप्येषामृद्घटव्यक्तिस्थूलतेव सत्त्वप्रकाशादिप्रपञ्चा व्यक्तिरेकैव एकार्थविषयेति ।
तथा यदुच्यते-रजः शब्दकार्यम्.......'प्रकाशस्थाने प्रवृत्तिं कृत्वा .. "वायुम् । तथा तमः शब्दकार्यम्......."लम्बनपाषाणम् ।
अतस्त्रीण्यप्येकम्, अपृथग्भूतसमवस्थानखरूपभेदात्मकत्वात्, वरणादितमस्त्व वत् ।
ग्रन्थेन त्रयोऽप्यर्था ऐक्यमापादनीयाः, प्रत्येकं नवस्वपि योज्या इत्यर्थः । एष दान्तिकोऽप्यर्थो व्याख्यातः, स इदानीं दृष्टान्तेन साधणोपसंह्रियते - सर्वाप्येषा मृद्घटव्यक्तिशक्तिस्थूलतेव यथा प्रागुपवर्णिता कारणे कार्यस्य सत्त्वाद् मृधनभिव्यक्तीया घटव्यक्तिशक्तेः स्थूलता ऊर्ध्वग्रीवादिव्यक्तेन्द्रियग्राह्यता सा एकैव 10 तथा सवप्रकाशादिप्रपश्चा व्यक्तिरेकैव, एकार्थविषया सत्त्वमिति' वा रज इति वा तम इति वा प्रधानमिति वा यथेच्छसि तथास्तु सर्वथाप्येकस्य कारणाख्यस्य वस्तुनः सूक्ष्मस्य स्थूलतैव व्यक्तिरिति तद्विषया व्यावर्ण्यते । इति विचारपरिसमाप्त्यर्थः, यत् प्रतिज्ञातं सत्त्वं प्रकाशात्मकयोश्चेद् रजस्तमसोः शब्दभावाय व्यवतिष्ठते तत एकात्मकैककारणत्वमिति तत् साध्वभ्यधामेति ।
तथा यदुच्यते रजः शब्दकार्यमित्यादिग्रन्थस्यापि समानदौष्टयापादनार्थोऽतिदेशः भाष्ये एव 15 सुलिखितातिदेशोपायत्वाद् न विव्रियते । विशेषणविन्यासोपायश्च सुलिखित एव प्रकाशस्थाने प्रवृत्तिं कृत्वेत्यादि सर्वमनुगन्तव्यं यावद् वायुमिति । तथा तमः शब्दकार्यमित्यादि तथैवानुगन्तव्यं यावद् लम्बनपाषाणमिति । एवं समापितप्रसङ्ग इदानीं साधनमाह - अतस्त्रीण्यप्येकमित्यादि [ यावद् वरणादि]तमस्त्ववदिति । सत्त्वरजस्तमांसि त्रीण्यपि प्रकाशप्रवृत्तिनियमात्मकानि जात्यन्तराभिमतान्येकं वस्तुतः त्रित्वस्यातत्रत्वाद् भिन्नमप्यभिन्नमिति पक्षार्थः । परमतापेक्षया त्रयाणामैक्यासिद्धेः साध्यम् । ३१ त्रीण्यपि च परस्य सिद्धानि धर्मित्वेन अस्माकं च वस्तुशक्तित्वभेदेनेतीत्थं साध्यते, अन्यथा 'त्रीणि चैकं च' इति विरुद्धं स्यात् । अपृथग्भूतसमवस्थानस्वरूपभेदात्मकत्वात् , भूतं भवनं भावो भूतिरिति भावे निष्ठाविधानादपृथग्भवनमस्य सङ्गत्या एकीभावेनावस्थानस्य तदिदमपृथग्भूतसमवस्थानम् , तदेव स्वरूपं भेदाश्चात्मा येषां तानि सत्त्वादीनि अपृथग्भूतसमवस्थानस्वरूपभेदात्मकानि, तद्भावात् । क्षीरोदकवद्
१ तथा यदुच्यते--रजः शब्दकार्य प्रवर्त्य शब्दात्मना व्यवतिष्ठमानं तद्भावाय इतरयोः प्रवृत्तिं करोति प्रवर्तयति । अत्रापि तथैव अनुगन्तव्यं प्रकाशस्थाने प्रवृत्तिं कृत्वा सत्त्वस्थाने रजः प्रख्यापनस्थाने प्रवर्तनं नर्तकाचार्यस्थाने च वायुम् । तथा तमः शब्दकार्य नियम्य शब्दात्मना व्यवतिष्ठमानं तद्भावायेतरयोः प्रवृत्तिं व्यवस्थापयति नियमयति । अत्रापि तथैव दोषापादनमनुगन्तव्यं प्रकाशस्थाने नियमं कृत्वा सत्त्वस्थाने तमः प्रख्यापनस्थाने नियमनं नर्तकाचार्यस्थाने च लम्बन. पाषाणम् ।' इत्याशयकोऽत्र मूलपाठः स्यादिति सम्भाव्यते ॥ २ प्याख्यातः भा० ॥ ३ प्र०॥ ४ क्तया प्र०॥ ५°ति च रज प्र० ॥ ६°न इति प्र० ॥ ७°स्य तः स्थूल प्र० । अत्र 'स्य सतः स्थूल इत्यपि पाठः स्यात् ॥ ८ दृश्यता पृ० २९३ पं० ४॥ ९ कारत्वमिति प्र०॥ १० त्वया यदु य० ॥ ११ एवमसापितप्रसङ्गः प्र०॥ १२ (वस्तुनः ?)॥ १३ परस्परसिद्धानि प्र० ॥ १४ भूतिनिति प्र०॥
नय०३८ Jain Education International For Private & Personal Use Only
www.jainelibrary.org