SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ २९६ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ तृतीये विध्युभयारे भवति, सतो हि भावः सत्त्वम् । रजः सत्त्वेन सत्त्वसत्त्वम्, व्यक्तिर्व्यक्तिप्रवृत्तिपरिणत्या व्यक्त्यैवेत्युक्तं भवति । तमःसत्त्वेन सत्त्वसत्त्वम्, व्यक्तिर्व्यक्तिनियमपरिणामेन व्यक्त्यैवेत्युक्तं भवति । एवमेव च रजः सत्त्वं तमःसत्त्वं च । एवमेव च सत्त्वप्रकाशेन सत्त्वप्रकाशः प्रकाश्यते रजःप्रकाशस्तमःप्रकाशश्च रजःप्रकाशेन २१७-२ 5 स्वपरिणामेन, सदेव हि सत्त्वेन परिणमति नासत्, यथोक्तम् - अस्थित्तं अत्थित्ते परिणमति [ भगवतीसू० १।३।३२ ] इति । यदुक्तं भवति 'व्यक्ती भवति ' इति तदुक्तं भवति 'सत्त्वसत्त्वेन सत्त्वसत्त्वं प्रकाश्यते' इति । 'सत्त्वसत्वम्' इति च विशेषणं रजः सत्त्वतमः सत्त्वाभ्याम्, तयोरपि त्वन्मत प्रसिद्ध्या सत्यपि भेदेऽस्मदुक्तवदभेद एवेत्यभिन्नफलत्वादैक्यमापाद्यम् । किं कारणम् ? यस्मात् सतो हि भावः सत्त्वम्, यस्मात् सदेव सद् भवति तस्मात् तदेव सत्त्वसत्त्वं तत्त्वं तद्भावः परिणाम इत्यनर्थान्तरम्, तद्भावः परिणामः [ तत्त्वार्थ० ५/४१ ] इति वचनात् । तद्धि प्रवर्तमानं न किञ्चिदपेक्षत इति प्रवृत्तिनियमानपेक्षेण सत्त्वसत्त्वेनेति । 10 एवं रजःसत्त्वेन सत्त्वसत्त्वं प्रकाश्यत इति वर्तते । पूर्ववद् व्यक्तिरिति प्रकाशैकार्थ्यम्, किमुक्तं भवति ? व्यक्तिप्रवृत्तिपरिणत्या प्रकाशनप्रवर्तनपरिणामेनं तयैव प्रवृत्त्यात्मिकया व्यक्त्यैवेत्युक्तं भवतीत्यैक्यं दर्शयति । एवं तमःसत्त्वेनेत्यादि 'व्यक्तिनियमपरिणामेन' इत्यक्षरविपर्यासमात्रेण भेदादर्थैक्यापादनं गतार्थं यावद् व्यक्त्यैवेत्युक्तं भवतीति, सत्त्वेनैव व्यक्त्यात्मना प्रवृत्तेन नियतेनावश्यं भवितव्यम्, 15 अन्यथा तत्स्वरूपभावादित्युक्तत्वात् । एवमेव च रजः सत्त्वेन सत्त्वसत्त्वं प्रकाश्यते, व्यक्तिर्व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्यैवेत्युक्तं भवति, सतो हि भावः सत्त्वम् । तथा रजः सत्त्वेन रजः सत्त्वं प्रकाश्यते, व्यक्तिप्रवृत्तिपरिणतिर्व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्यैवेत्युक्तं भवतीति तथैव गमनीयम् । तथा रजः सत्त्वेन तमः सत्त्वं प्रकाश्यते, व्यक्तिनियति परिणतिर्व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्यैवेत्युक्तं भवतीति । तथा तमः सत्त्वेन सत्त्वसत्त्वं प्रकाश्यते व्यक्तिनियतिपरिणत्या नियमेनवेति, नियतो हि भावो व्यज्यते प्रवर्तते । तथा 20 तमःसत्त्वेन रजःसत्त्वं प्रकाश्यते, व्यक्तिप्रवृत्तिनियतिर्नियतिप्रवृत्तिपरिणत्या नियत्यैवेत्युक्तं भवति । तथा [तमःसत्त्वेन] तमःसत्त्वं प्रकाश्यते व्यक्तिनियतिपरिणत्या नियत्यैवेत्युक्तं भवतीति तदेव भावितम् । एवमेव २१८-१ चेत्यादि, यथा सत्त्वरजस्तमसां नवधा विकल्पा उक्तास्तथा सत्त्वप्रकाशेन सत्त्वप्रकाशः प्रकाश्यत इति सत्त्वप्रकाशेन रजः प्रकाशस्तमः प्रकाशश्चेति त्रयः रजःप्रकाशेन सत्त्वप्रकाशो रजः प्रकाशस्तमः प्रकाशश्चेति त्रयः तमःप्रकाशेन सत्त्वप्रकाशो रजःप्रकाशस्तमः प्रकाश इति त्रयो विकल्पाः, 'प्रकाश्यते प्रवर्त्यते नियम्यते' इत्यनेनैव १ " से नूणं भंते | अत्थित्तं अत्थित्ते परिणमइ नत्थित्तं नत्थित्ते परिणमइ ? हंता गोयमा ! जाव परिणमइ । जं ञं भंते अत्थित्तं अथित्ते परिणमइ नत्थित्तं नत्थित्ते परिणमइ तं किं पयोगसा वीससा ? गोयमा पयोगसा वि तं वीससा वि तं । जहा ते ते? अत्थित्तं अत्थित्ते परिणमइ तहा ते नत्थित्तं नत्थित्ते परिणमइ ? जहा ते नत्थित्तं नत्थित्ते परिणमइ तहा ते अस्थित्तं अत्थित्ते परिणमइ ! हंता गोयमा । जहा मे अत्थितं अत्थित्ते परिणमइ तहा मे नत्थित्तं नत्थित्ते परिणमइ, जहा मे नत्थित्तं नत्थित्ते परिणम तहा मे अत्थित्तं अत्थित्ते परिणमइ ।" इति भगवतीसूत्रे पाठः ॥ २ सत्त्वं सत्यं य० । सत्वं भा० ॥ ३ एवेत्वभि य० । एवेतत्वभि भा० ॥ ४ यस्मात्तदेव य० ॥ ५ व सत्वंसत्वं पा० वि० । व सत्वं भा० to to 11 ६ त एव इति य० ॥ ७ मेनातयैव भा० ॥ ८ नियपरि भा० ॥ ९ नियते चावश्यं य० । 'अत्र 'नियतेन चावश्यं' इत्यपि पाठः स्यात् ॥ १० पाद (?) भावा प्र० ॥ ११ सत्वं सत्वं भा० । सत्वं य० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy