________________
प्रकाशप्रवृत्तिनियमानामैक्यापादनम् ] द्वादशारं नयचक्रम्
स्वशक्त्या व्यक्तिराविर्भावः । आविर्भावेन प्रवृत्त्या प्रवृत्तिसत्त्वेन प्रवृत्तिसत्त्वमेवानपेक्षा स्वव्यक्तिराविर्भावः प्रवृत्तिः । तथा नियमसत्त्वेनानपेक्षेण स्वशक्त्या आविर्भावेन स्वनियत्या नियमसत्त्वमेवानपेक्षा स्वव्यक्तिः । प्रकाश एव प्रवृत्तिनियमश्च, प्रवृत्तिरेवेतरद्वयम्, नियम एवेतरद्वयम् । अत एषामेकपुरुषवृत्तश्यामायताक्षप्रलम्बबाहुत्ववदेकवस्तुस्वतत्त्व भूतानामव्यतिरेकैकवृत्तिता ।
सत्त्वसत्त्वेनैव सत्त्वसत्त्वं प्रकाश्यते व्यक्तिपरिणामेन व्यक्तीभवतीत्युक्तं
२९५
स्वशक्त्या,
यदुक्तं भवति 'प्रकाशेनापृथग्भूततत्त्वेन सत्त्वेन' इत्यादिपर्यायैस्तदुक्तं भवति प्रवृत्तिसत्त्वेन प्रवृत्त्या स्वशक्त्या व्यक्तिराविर्भावः, जनी प्रादुर्भावे [ पा० धा० ११४९ ], प्रादुः प्राकाश्ये, प्रकाशो जन्म अभिव्यक्तिरित्यनर्थान्तरम् 'प्रकाशात्मकयोरेव रेंजस्तमसोः' इति वचनादपृथग्भूतं तत्त्रं प्रकाशादीनामर्थान्तरनिरपेक्षमिति । यथा प्रकाश एव प्रवृत्तिरिति दर्शितं तथा प्रवृत्तिरे प्रकाश इति दर्शयति - आवि - 10 भवेन प्रवृत्त्या प्रवृत्तिसत्त्वेन प्रवृत्तिसत्त्वमेवानपेक्षा स्वव्यक्तिः, स्वतःपृथग्भूतप्रकाशनियमानपेक्षा स्वात्माभिव्यक्तिरित्यर्थः । तत्पर्यायकथनम् - आविर्भावः प्रवृत्तिरिति । तथा नियमसत्त्वेन अनपेक्षेणेत्यादिना प्रथेन प्रकाशप्रवृत्त्यनर्थान्तरभूतो नियम एव सत्त्वं रजश्चेत्यत आह- स्वशक्त्याविर्भावेन स्वनियत्या, का च सा ? नियमसत्त्वमेवानपेक्षा स्वव्यक्तिः पूर्ववत् स्वप्रवृत्तिः स्वनियम इत्येकोऽर्थ इति प्रागुपपादितत्वात् प्रकाश एव प्रवृत्तिर्नियमश्च, यस्मात् प्रकाशमानः प्रवर्तते नियतश्चार्थ इति । एवं 15 प्रवृत्तिरेवेतरद्वयम् यस्मात् प्रवर्तमानं प्रकाशते नियतं च नियम एवेतरद्वयम्, नियतो ह्यर्थः प्रकाशते प्रवर्तते [च], तस्मादिहापि तदेव भावितमैक्यमिति ।
"
5
कथं तर्ह्येकमेव प्रकाशप्रवृत्तिनियमभेदप्रत्ययव्यपदेशभाग् भवति ? इत्यत्रोच्यते - अत एषामेकपुरुषवृत्तश्यामायताक्षप्रलम्बबाहुत्ववत्, यथैकस्मिन् पुरुषे प्रवृत्तानि तदव्यतिरिक्तानि श्यामत्वमायताक्षत्वं प्रलम्बबाहुत्वमित्येतानि भिन्नानीव तद्भेदप्रत्ययव्यपदेशभाञ्जि भवन्ति तथैकवस्त्वित्यादिनोपसंहरैति, एकस्य २0७-१ वस्तुनः स्वतत्त्वभूतानां तदभिधानप्रयोजनानां सत्त्वरजस्तमसां तत्कार्याणां च प्रकाशनप्रवृत्तिनियमाना- २१ मव्यतिरेकैकवृत्तिता । इति परिसमाप्त्यर्थः एवं तावदेतया भावनयापादितैक्यानां सत्त्वादीनां सत्त्वस्वात्मत्वेनैव कर्तृकर्मत्ववृत्तिरुक्ता परस्परस्वरूपापादनेन भेदमभ्युपगम्य ।
इदानीं फलाभेदान्नैव भेद इति प्रतिपादयिष्यन्नाह - सत्त्वसत्त्वेनैव सत्त्वसत्त्वं प्रकाश्यते, त्रयाणामपि सत्त्वरूपत्वस्यापादितत्वात् सत्त्वसत्त्वं रजः सत्त्वं तमः सत्त्वमिति भिद्यते, तस्याभेदः फलाभेदादापाद्यते - 25 ऽधुना । यत् तत् सत्त्वं सत्त्वमेव भवति नान्यद् भवति रजस्तमो वा तत् सत्त्वसत्त्वं तेन सत्त्वसत्त्वेनैव प्रकाश्यते व्यज्यते तदेव सत्त्वसत्त्वस्यैव भवनं व्यज्यते स्फुटीक्रियते, पूर्ववत् कर्तृकर्मभावोऽवस्थावशात् । तद्दर्शयति - व्यक्तिपरिणामेन, मृत्सत्त्वे यद् विद्यमानं सत्त्वसत्त्वं घटप्रकाशसत्त्वं तेनैव तद् व्यज्यते
Jain Education International
१ ग्भूतत्वेनासत्वेने प्र० ॥ २ पर्यायात प्र० ॥ ३ मयोरेव प्र० । दृश्यतां पृ० २८८ पं० ३, पृ० २९३ पं० ४ ॥ ४ * * एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ५ रतिति एकस्य भा० । रति त एकस्य य० ॥ ६ परस्वरूपा भा० ॥ ७ सत्त्वस्य सत्वस्यैव य० । सत्वस्यैव भा० ॥ ८ व्यक्ति य० प्रतिषु नास्ति ॥
For Private & Personal Use Only
www.jainelibrary.org