________________
२९४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे नियतवसाधनक्रमसमावेशात् कारणघटेन कार्यघटोऽभिव्यज्यते तथाभूतव्यक्तिशक्तिस्थूलतापत्त्या मृद एव घटत्वात् तथैव सत्त्वेन सत्त्वमेव प्रकाश्यते शब्दादिप्रकाशेन अपृथग्भूतप्रकाशादितत्त्वमाकाशादि प्रकाश्यते शब्दादिप्रवृत्त्या शब्दादिनियमेन प्रवत्येते नियम्यते च । अपृथग्भूततत्वेनैव सत्त्वेन प्रकाशेन प्रवृत्तिसत्त्वेन अनपेक्षया
5 घटेनैव मृदा घटः पृथुकुक्ष्याद्याकाराः क्रियन्तेऽत्यन्तभिन्नेनान्येनान्यस्याकरणात् । किञ्चान्यत् , तदात्मव्यक्तिप्रतिनियतस्वसाधनक्रमसमावेशात्, घटात्मत्वस्य व्यक्तिः प्रागनुपलभ्यस्य पश्चादुपलब्धिः, सा प्रतिनियतानामात्मीयानां कुलालदण्डादीनां तत्क्रमस्य च कालाख्यसाधनत्वात् पिण्डशिवकादिभावेषु यथावस्थं व्याप्रियमाणानां क्रमेण व्यापारादित्यर्थः । तदर्शयति - कारणघटेन कार्यघटोऽभिव्यज्यत इति । कथं व्यज्यते इति चेत् , उच्यते - तथाभूतव्यक्तिशक्तिस्थूलतापत्त्या, पृथुकुक्ष्यादिप्रकारेण व्यक्तिशक्तिरस्यां 1.0 मृदि शक्तिमत्यां सूक्ष्मावस्थानादुत्तरकालं देशकालाद्यवबन्धापगमात् स्थूलतापत्त्या इन्द्रियग्राह्यतया निर्माM.
दर्पणस्वरूपोपलब्धिवत् कर्मैव सद् वस्तु कर्तृ भवति, मृद एव घटत्वात् , मृदेव हि घटो भवति, घटमा
स्मानमात्मना अवस्थान्तरमात्रविशिष्टमवस्थान्तरमात्रविशिष्टेन करोति, कर्तुरेव कर्मत्वाभ्युपगमात् । कुलाल२१६-१ दण्डादीनां तर्हि साधनत्वाभावः स्वयमेव मृदः कर्तृकर्मत्वाभ्युपगमाद् घटस्यैवेति चेत्, न, अत एव
तत्साधनत्वाद् वीरणादितोऽकरणादसदकरणादिहेतुभ्यो मृद्येव सन्तं घटं कुलालचक्रदण्डादयोऽभिव्यञ्जयन्तः 1b कर्तृकरणसम्प्रदानापादानाधिकरणादिभावं प्रतिलभन्ते तद्विषयमेव न वीरणादिविषयं न तन्त्वादिविषयम् , तदात्मगतव्यक्तिशक्तिप्रतिनियतस्वसाधनक्रमसमावेशादेव तानि च कारणानि परस्परोपजनितकार्यसाधनशक्तीनि एकप्रबन्धेन प्रवर्तमानानि 'कारकाणि' इत्युच्यन्ते, नान्यविषयाणि । तस्मात् कुलालादीनामपि तथैव कर्तृत्वादिभावोपपत्तेः 'घटेनैव घटः क्रियते' इति साधूक्तम् ।।
एवं दृष्टान्तमात्मनैवात्मानं प्रकाशयति करोतीति प्रतिपाद्य दार्टान्तिकं प्रतिपादयति -तथैव सत्त्वेने20 त्यादि । यथा कारणे कार्यस्य सत्त्वाद् घटेनैव घटः क्रियत इत्युक्तं तथा कारणे कार्यस्य सत्त्वात् सत्त्वेन सुखप्रकाशादिकारणात्मना तदात्मकं सत्त्वमेव प्रकाश्यते मृद्घटावस्थावत् , तद्दर्शयति - शब्दादिप्रकाशेनापृथग्भूतप्रकाशादितत्त्वम् , किं तत् ? आकाशादि, रूपाद्यपृथग्भूततत्त्वाया मृदो घटे तदपृथग्र्भूततत्त्वघटादिप्रकाशवत् प्रकाशापृथग्भूतेन प्रकाशापृथग्भूततत्त्वं प्रकाश्यत इत्यर्थः, प्रकाशापृथग्भूतावेव
प्रवृत्तिनियमावपीति तद्दर्शयति - शब्दादिप्रवृत्त्या शब्दादिनियमेन, तदप्याकाशादि यथा प्रकाशाप्पृथ25 ग्भावात् प्रकाश्यते तथा प्रवर्त्यते नियम्यते चेति । तद् विस्तरेण पर्यायशब्दान्याख्यानेन भावयति -
अपृथग्भूततत्त्वेनेत्यादि, अपृथग्भूततत्त्वत्वादेव तेन सत्त्वेन प्रकाशेन प्रवृत्तिसत्त्वेनेति प्रकाशप्रवृत्त्यो२१६-२ रैक्यं दर्शयति, एवकारेणावधारणार्थेन ततः पृथग्भूतार्थाभावं च दर्शयति । अत एव चाह - अनपेक्षया
१ मृदशक्ति प्र० ॥ २ निर्म्यज्य य० । निर्मज्य भा० ॥ ३त्मानावस्था भा० । 'त्मनामवस्था य० ॥ ४ कर्तृत्वाभ्यु प्र॥ ५ °बद्धन प्र० ॥ ६ कारणानि य० ॥ ७ दृश्यतां पृ० २९३ पं० ६॥ ८°ग्भूतत्वघटा प्र० ॥ ९प्रेक्ष्यया प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org