________________
३१४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ तृतीये विध्युभयारे
२२८-२ परपक्षमव्येपेक्ष्य स्वेनैव रूपेण कार्यसिद्धावपदिश्यते तदा वीताख्यो भवति । परिशेषादोवीतसिद्धिः, यदा नेदमतोऽन्यथा सम्भवति अस्ति चेदम् तस्मात् परिशेषतो 'हेतुरेवायम्' इत्यवधार्य कार्यसिद्धावपदिश्यते तदा आवीताख्यो भवतीति प्रयोगलक्षणम्, स्वलक्षणं त्वस्य परपक्षप्रतिषेधेन स्वपक्षपरिग्रह क्रिया आवीत इति । तस्य [ आवस्य ] वा भावः पञ्चप्रदेश: - प्रतिज्ञा हेतुः दृष्टान्त उपसंहारो निगमनमिति । तत्र साध्या॰वधारणं प्रतिज्ञा, साधनसमासवचनं हेतुः, तन्निदर्शनं दृष्टान्तः, साध्यदृष्टान्तयोरेकक्रियोपसंहारः, प्रतिज्ञाभ्यासो निगमनमिति । पुरस्ताद् वीतस्य प्रयोगं न्याय्यं मन्यन्ते पश्चादावीतस्येति I
प्रयोगश्च - अस्ति प्रधानं भेदानामन्वयदर्शनात्, आध्यात्मिकानां भेदानां कार्यकारणात्मकानामेकजातिसमन्वयो दृष्ट इति चन्दनशकलादिदृष्टान्तं वक्ष्यति । सामान्यपूर्वकाणां च भेदानामित्यादि एकजातिसमन्वयप्रदर्शनार्थसुखा दित्रिगुणैकजातिसमन्वयं कार्यात्मकानां तत्सन्निवेशविशेषत्वं पक्षीकृत्य 'एककार्य10त्वात्' इति हेतुमाह तथोत्तरत्रोपसंहारात् । पञ्चानां पञ्चानामित्यादिवीप्सया व्याप्तिं दर्शयति । तथा करणात्मकानां नेयम् । प्रसादादिशोषादिवरणादिकार्यात्मकं दृष्टं गुणत्रयैकजातिसमन्वितम् । तैरारब्धान्याकाशादीनि भूतानिएकोत्तरगुणवृद्ध्या तत्कार्यत्वात् तत्समन्वयाच्च तत्पूर्वकाणि । तथा बाह्यानामपि तैर्यग्योनमानुषदेवानां तत्पूर्वकतेति । तस्मात् त्रैगुण्यसमन्वितत्वाद् भेदास्त्रिगुणपूर्वकाञ्चन्दनशकलादिवत् । शकल२ कपालामत्रभूषणप्रभृतीनामिति व्याप्तिदर्शनार्थं साधनस्य दृष्टान्तबाहुल्यम् ।
२२९-१
15
sa अस्ति प्रधानं भेदानां परिमाणात् । आध्यात्मिकानां कार्यकारणात्मकानां परिमाणं दृष्टम् । सामान्यतस्त्रयः सुखदुःखमोहाः, कार्यकरणविशेषतः षोडश भावाः पञ्च भूतानि एकादशेन्द्रियाणि चेत्यादि
१ व्यपेक्षश्चेन्नैव रूपेण प्र० ॥ २ यद्यपि प्रायः सर्वत्र साङ्ख्यादिदर्शनग्रन्थेषु अवीतशब्दस्यैव प्रयोगो दृश्यते नयचक्रवृत्तौ तु सर्वत्रापि आवीतशब्दप्रयोग एवोपलभ्यते तथापि आवीतशब्दप्रयोगः शुद्ध एव प्रतीयते कुमारिलभट्टविरचिते मीमांसाश्लोकवार्तिकेऽपि आवीतशब्दस्यैव प्रयोगात्, तथथा - " ततोऽप्यावीत हेतुभिरनैकान्तिक इति अक्षरचतुष्टयाधिकेनार्धश्लोकेनाह – पक्षीकुर्याद् यदा सर्वांस्तदाप्यावीत हेतुभिः । अनैकान्तः इति । ये हि विपक्षव्यतिरेकेणैवार्थ प्रतिपादयन्ति तेऽत्रावीत हेतवोऽभिधीयन्ते, यथा प्राणादयो निरात्मकेभ्यो घटादिभ्यो निवृत्ता जीवच्छरीरे दृश्यमानास्तद्व्यवच्छेदेनैव सात्मकत्वमवगमयन्तीत्यर्थः ।" इति मीमांसा श्लोकवार्तिकस्य जयमिश्र भट्टविरचितायां शर्करिकावृत्ती अपोह वादे, का० १६६ ॥ ३ "आध्यात्मिकानां भेदानां कार्यकारणात्मकानां चैकजातिसमन्वयो दृष्ट इत्येवमादिः साधनप्रपञ्चः।” इति साङ्ख्यकारिकाया युक्तिदीपिकावृत्तौ का० ६, पृ० ४९ पं० ११ ॥ ४ दृश्यतां पृ० १२ पं० १७ ॥ ५ " भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागाद विभागाद्, वैश्वरूप्यस्य ॥ १५ ॥ किञ्चान्यत्, समन्वयात् । इह येन भेदानां समनुगतिस्तस्य सत्त्वं दृष्टम् । तद्यथा - मृदा घटादीनाम् । अस्ति चेयं सुखदुःखमोहैः शब्दादीनां समनुगतिः । तस्मात् तेऽपि सन्ति । ये च सुखादयोऽस्तमित विशेषास्तदव्यक्तम् । तस्मादस्त्यव्यक्तम् । इह शब्दस्पर्शरूपरसगन्धानां सन्निधाने स्वसंस्कारविशेषयोगात् सुखदुःखमोहाकाराः प्राणिनां बुद्धय उत्पद्यन्ते । यच्च यादृशीं बुद्धिमुत्पादयति तत् तेनान्वितम् । तद्यथा - चन्दनादिभिः शकलादयः ।" साङ्ख्यका० युक्तिदीपिका । “ समन्वयदर्शनात् । कस्य समन्वयात् ? भेदानामेव समन्वयात् । अस्मादेव कारणात् पूर्वकारणात् शकल कपालामत्रसुवर्णसमन्वयः । भूषणादीन् दृष्ट्वा तत्त्वेन दर्शयति । सामान्यप्रकरणाहो के भेदानामेकजातिसमन्वयो दृष्टः । तेषां धर्मा(र्मोs ?)न्वयः, तस्मात् समन्वयदर्शनात् पश्यामोऽस्ति प्रधानम् ।" जे० साख्यका ० ० B, का० १५, माठरवृत्तावपि किचि - पाठभेदेन एवमेव ॥ ६ कारणं विशेषतः प्र० । दृश्यतां पृ० २९८ टि० ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org