________________
साङ्ख्यमतेन प्रधानास्तित्वसाधनम्] द्वादशारं नयचक्रम्
३१५ रूपपरिमाणम् । प्रवृत्तिपरिमाणं द्विधा हिताहितप्राप्तिपरिहारार्थत्वात् , धर्मादिप्रयोजनत्वाच्चतुर्धा, धृतिसदाचार-कामसुख-कुतूहल-विनिवृत्तिप्रयोजनं पञ्चधा प्राणादिलक्षणाच्चेति प्रवृत्तिपरिमाणम् । फलपरिमाणं द्विविधम् - दृष्टमदृष्टं च । अदृष्टं कार्यकरणसामर्थ्य प्रभुशक्तिः साधनसान्निध्यं विभुशक्तिश्चेति द्विधा । एवमशक्तिस्तद्विपरीता द्विधैव । शक्तिर्देव-गन्धर्व-यक्ष-रक्षः-पितृ-पिशाचाः, अशक्तिर्मानुष-पशु-मृग-पक्षिसरीसृप-स्थावराणि । शक्तेः प्रकृतिः शरीरनिमित्तम् , अशक्तेर्जराँय्वण्डोद्भित्संशोकाः । मातापितृभ्यां जराय्वण्डं 5 च, तत् पैंट्कोशिकम् , पृथिव्या उद्भिज्जम् , पृथिव्युदकसंशोकात् संशोकजमित्यदृष्टफलपरिमाणम् । दृष्टफलपरिमाणं करणानि प्रवर्तमानानि क्रियान्ते सामान्यतश्चतुर्णा शक्त्यादीनामन्यतमं प्रत्ययं कुर्वन्ति । शक्ति
१"तत्र रूप-प्रवृत्ति-फललक्षणं व्यक्तम् । रूपं पुनर्महानहङ्कारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि । सामान्यतः प्रवृत्तिर्द्वि विधा-हितकामप्रयोजना च अहितप्रतिषेधप्रयोजना च । विशेषतः पञ्च कर्मयोनयो धृत्याद्याः प्राणाद्याश्च पञ्च वायवः । फलं द्विविधं दृष्टमदृष्टं च । तत्र दृष्टं सिद्धितुष्ट्यशक्तिविपर्ययलक्षणम् । अदृष्टं ब्रह्मादौ स्तम्बपर्यन्ते संसारे कर्मप्रतिलम्भ इत्येतद् व्यक्तम् ।" इति साङ्ख्यकारिकाया वृत्तौ युक्तिदीपिकायाम् , का० २ ॥ २ साङ्ख्य ग्रन्थेषु प्राणादिवृत्तेहेतोर्निरूपणप्रसङ्गे धृत्यादीनां किञ्चिनामभेदेन इत्थं निरूपणमुपलभ्यते-“प्राणाद्या वायवः पञ्च ।.. प्राणाद्याः प्राणापानसमानोदानव्यानाः पञ्च ।""कुतः पुनरियं प्राणादिवृत्तिः प्रवर्तत इति ? उच्यते-सा महतः प्रच्युतं हि रजो विकृतमण्डस्थानीयाः पञ्च कर्मयोनयो भवन्ति - धृतिः श्रद्धा सुखा विविदिषा अविविदिषेति ।..... तासां लक्षणविषयसतत्त्वगुणसमन्वया भवन्ति । तत्र लक्षणं तावत्-व्यवसायादप्रच्यवनं धृतिः । फलमनभिसन्धाय शास्त्रोक्तेषु कार्येषु अवश्यकर्तव्यताबीजभावः श्रद्धा । दृष्टानुश्रविकफलाभिलाषद्वारको हि बुद्धेराभोगः सुखा । वेत्तुमिच्छा विविदिषा । तन्निवृत्तिर विविदिषा । "एतत् तावल्लक्षणसतत्त्वम् । आह च-'वाचि कर्मणि सङ्कल्पे प्रतिज्ञा यो न(नु) रक्षति । तनिष्ठस्तत्प्रतिज्ञश्च धृतेरेतद्धि लक्षणम् ॥ १॥ अनसूया ब्रह्मचर्य यजनं याजनं तपः । दानं प्रतिग्रहः शौचं श्रद्धाया लक्षणं स्मृतम् ॥ २॥ सुखार्थी यस्तु सेवेत विद्यां कर्म तपांसि वा। प्रायश्चित्तपरो नित्यं सुखायां स तु वर्तते ॥३॥ द्वित्वैकत्वपृथक्वं नित्यं चेतनमचेतनं सूक्ष्मम् । सत्कार्यमसत्कार्य विविदिषन्त(षित)व्यं विविदिषायाः ॥ ४ ॥ विषपीतसुप्तमत्तवदविविदिषा ध्यानिनां सदा योनिः । कार्यकरणक्षयकरी प्राकृतिका गतिः समाख्याता ॥५॥' विषयसतत्त्व पुनः सर्वविषयिणी धृतिः, आश्रमविषयिणी श्रद्धा, दृष्टानुश्रविकविषयिणी सुखा, व्यक्तविषयिणी विविदिषा, अव्यक्तविषयिणी अविविदिषा । गुणसमन्वयस्तु रजस्तमोबहुला धृतिः, सत्त्वरजोबहुला श्रद्धा, सत्त्वतमोबहुला सुखा, रजोबहुला विविदिषा, तमोबहुला अविविदिषेति ।" इति साज्यकारिकाया वृत्तौ यक्तिदीपिकायाम, का० २९॥ ३णाचेति प्र०॥ ४ कारण प्र०॥ ५“अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैक विधः समासतो भौतिकः सर्गः ॥ ५३ ॥ .....अष्टविकल्पोऽष्टप्रकारोऽष्टमेद इत्यर्थः । तद्यथा-ब्रह्म-प्रजापती-न्द्र-पित-गन्धर्व-नाग-रक्षः-पिशाचाः । तैर्यग्योनश्च पञ्चधा भवति पशु-मृग-पक्षि-सरीसृप स्थावराः । मानुष्यश्चैकविधः जात्यन्तरानुपपत्तेः ।" इति साङ्ख्यकारिकाया यक्तिदीपिकावृत्तौ ॥ ६ "सूक्ष्मा मातापितृजाः सह प्रभूतैत्रिधा विशेषाः स्युः । ॥ ३९ ॥ तत्र सूक्ष्मा नाम चेष्टाश्रितं प्राणाष्टकं संसरति । मातापितृजास्तु द्विविधाः-जरायुजा अण्डजाश्च । तेषो कोशोपहृताः कोशाः लोम रुधिर-मांसा.ऽस्थि-स्नायु-शुक्रलक्षणाः । तत्र लोम-रुधिर-मांसानां मातृतः सम्भवः । अस्थि स्नायु-शुक्राणां पितृतः। तत्रैव अशितपीताभ्यां सह अष्टौ कोशानपरे व्याचा क्षते । कथं पुनरेषां कोशत्वम् ? आवेष्टनसामर्थ्यात् । यथा कोशकारः कोशेनावेष्टितोऽखतन्त्रः एवं सूक्ष्मशरीरं सप्राणमेतैरावेष्टितमखतन्त्रं तत् तत् कर्मोपचिनोति । प्रभूतास्तु उद्भिजाः खेदजाश्च । ..... मनुष्याणां तु जरायुजम् ।....."तिर्यग्योनीनामपि चतुर्विधम्-'जरायुजं गवादीनामण्डजं चैव पक्षिणाम् । तृणादेश्वोद्भिजं क्षुद्रजन्तूनां स्वेदजं स्मृतम् ॥ १॥' एवं त्रिविधा विशेषा व्याख्याताः ।"-सायका युक्तिदीपिका ॥ ७"अपि च शिष्टा वदन्ति - बहिःशरीरं षट्कोशिक. मिति।" जे० सायका०वृ० B, का० ३९ । ग्रन्थान्तरेषु तु षाकौशिक'पाठ उपलभ्यते ॥ ८ उद्भिद्यं प्र०॥ ९ "एतच्च व्यक्तस्य रूपं प्रवृत्तिश्च परिकल्प्यते । फलमिदानीं वक्ष्यामः । आह -किं पुनस्तत् फलमिति । उच्यते---यः खलु एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । तत् फलमिति वाक्यशेषः । एष इति वक्ष्यमाणस्य संमुखीकरणार्थमुच्यते । प्रत्ययसर्ग इति, प्रत्ययः पदार्थो लक्षणमिति पर्यायाः । प्रत्ययानां सर्गः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org