________________
न्यायागमानुसारिणीवृत्यलङ्कृतम् [तृतीये विध्युभयारे रुक्ता । 'सिद्धिरूहेन साधनं तारकम् , शब्देन सुतारम् , अध्ययनेन तारयन्तम् , वातादीन्याध्यात्मिकान्य
भ्यतीत्य क्रियया तारक-सुतार-तारयन्तानामन्यतमेन प्रमोदम् , मानुषाद्याधिभौतिकात्ययेन तत्रयान्यतमेनैव २२९.२ प्रमुदितम् , शीताद्योधिदैविकात्ययेन तत्रयान्यतमेनैव मोदमानम् , यदा कुशलसंसृष्टव्यपाश्रयात् सन्देहाति
क्रमात् तदन्यतमेन रम्यकम् , दौर्भाग्यातिक्रमेण सदाप्रमुदितमित्यष्टौ सिद्धयः । सन्निहितविषयसन्तोषाच्चि5 कीर्षितादर्थादूनस्य निवृत्तिरेकैव तुष्टिरुपायनवत्त्वाद् नवविधा तुष्टिः । प्रकृत्युपादानकालभाग्यकारणपूर्वक
प्रत्ययसर्गः पदार्थस! लक्षणसर्ग इत्यर्थः । अथवा प्रत्ययो बुद्धिः निश्चयोऽध्यवसाय इति पर्यायाः, तस्य सर्गोऽयमतः प्रत्ययसर्गः प्रत्ययकार्य प्रत्ययव्यापार इत्यर्थः । अथवा प्रत्ययपूर्वकः सर्गः प्रत्ययसर्गः बुद्धिपूर्वक इत्युक्तः । ...... । स विपर्ययाख्यः, अशक्त्याख्यः, तुष्ट्याख्यः, सिद्ध्याख्यश्चेति । तत्राश्रेयसः श्रेयस्त्वेनाभिधानं विपर्ययः । वैकल्यादसामर्थ्यमशक्तिः । चिकीर्षितादूनेन निवृत्तिस्तुष्टिः । यथेष्टस्य साधनं सिद्धिः ।" सायंका० युक्तिदीपिका, का० ४६ ॥
१ "आह–प्रागपदिष्टमष्टधा सिद्धिरिति, तदिदानीमभिधीयतामिति । उच्यते-ऊहः शब्दोऽध्ययन दुःखविघातात्रयः सुहृत्प्राप्तिः दानं च सिद्धयोऽष्टौ । तत्रोहो नाम यदा प्रत्यक्षानुमानागमव्यतिरेकेणाभिप्रेतमर्थ विचारणाबलेनैव प्रतिपद्यते, सा आद्या सिद्धिः तारकमित्यपदिश्यते-तारयति संसारार्णवादिति तारकम् । यदा तु स्वयं प्रतिपत्तौ प्रतिहन्यमानो गुरूपदेशात् प्रतिपद्यते सा द्वितीया सिद्धिः सुतारमित्यपदिश्यते । कथम् ? म भवसङ्कटात् तरन्तीति । यदा त्वन्योपदेशादप्यसमर्थः प्रतिपत्तुमध्ययनेन साधयति सा तृतीया सिद्धिः तारयन्तमित्यपदिश्यते । तदेतत् तारणक्रियाया आश्रयत्वेऽपि अव्यावृत्तत्वाद् महाविषयत्वात् तारयन्तमित्यपदिश्यते । त एते त्रयः साधनोपायैराब्रह्मणः प्राणिनोऽभिप्रेतमर्थ प्राप्नुवन्ति । ...... । एषां तु साधनोपायानां प्रत्यनीकप्रतिषेधाय दुःखविघातत्रयम् । दुःखानि त्रीणि आध्यात्मिकादीनि । तत्र चाध्यात्मिकानां वातादीनां सिद्धिप्रत्यनीकानामायुर्वेद क्रियानुष्ठानेन विघात कृत्वा पूर्वेषां त्रयाणामन्यतमेन साधयति सा चतुर्थी सिद्धिः प्रमोदमित्यभिधीयते । कथम् ? निवृत्तरोगा हि प्राणिनः प्रमोदन्त इति कृत्वा । यदा त्वाधिभौतिकानां मानुषादिनिमित्तानां सिद्धिप्रत्यनीकानां सामादिना यतिधर्मानुगुणेन वोपायेन पूर्वेषां त्रयाणामन्यतमेन साधयति सा पञ्चमी सिद्धिः प्रमुदितमित्यभिधीयते । कथम् ? अनुद्विग्नो हि प्रमुदित इति कृत्वा । यदा तु शीतादीनि आधिदैविकानि द्वन्द्वानि सिद्धिप्रत्यनीकानि खधर्मानुरोधेन प्रतिहत्य पूर्वेषां त्रयाणामन्यतमेन साधयति सा षष्टी सिद्धिर्मोदमानमित्यभिधीयते। कथम् ? द्वन्द्वानुपहता हि प्राणिनो मोदन्त इति कृत्वा । सुहृत्प्राप्तिः, यदा तु कुशलं संस्पृष्टं सन्मित्रमाश्रित्य सन्देहनिवृत्तिं लभते सा रम्यकमिति सप्तमी सिद्धिरपदिश्यते । रम्यो हि लोके सन्मित्रसम्पर्कः, तस्य संज्ञायां रम्यमेव रम्यकम् । दानम् - यदा तु दौर्भाग्यं दानेन अतीत्य पूर्वेषां त्रयाणामन्यतमेन साधयति सा अष्टमी सिद्धिः सदाप्रमुदितमित्यभिधीयते। सुभगो हि सदा प्रमुदितो भवति, तस्माद् दौर्भाग्यनिवृत्तिः सदाप्रमुदितम् । इत्येवमेताः सिद्धयोऽष्टौ व्याख्याताः। एतासां संश्रयेणाभिप्रेतमर्थ यतः संसाधयन्तीत्यतः पूर्वाचार्यागतं मार्गमारुरुक्षुस्तत्प्रवणः स्यादिति ।" सायका. यक्तिदीपिका, का० ५१॥ २ द्याधिभौतिकात्ययेन प्र०। “दुःखम्..., आध्यात्मिक द्विविधं शारीरं मानसञ्च । शारीरं तावद् वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । तथा मानसं कामक्रोधलोभमोहविषादभयेाऽरत्यविशेषदर्शननिमित्तम् । आधिभौतिकञ्च मनुष्यपशुमृगपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविक शीतोष्णवातवर्षाशन्यवश्यायावेश निमित्तम् ।" सायका० युक्तिदीपिका, का० १॥ ३यादाकुशप्र०॥ ४"तुष्टिस्तु सन्निहितविषयसन्तोषाचिकीर्षितादर्थादूनेन निवृत्तिः सामान्यत एकैव, प्रत्यर्थमनन्ता-शतेन तुष्टः सहस्रेणेति । शास्त्रे तु बाह्याध्यात्मिकानां सुखदुःखमोहानां प्राप्तिष्वपगमेषु वा व्यवस्थालक्षणा उपायनवत्वात् नव तुष्टयो भवन्ति । तासाम् - आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । आध्यात्मिका इति शरीरशरीरिणोविशेषमुपलिप्समानेन योगिना यदानात्मनि आत्मबुद्धिरवस्थाप्यते सा खलु आध्यात्मिका सिद्धिः तुष्टिः सन्तोषः क्षेम इत्यर्थः ।" सायका० युक्ति दीपिका, का० ५० । "आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । बाह्य(ह्या?) विषयोपरमाश्च(च?) पञ्च नव तुष्टयोऽभिमताः ॥ ५० ॥ अध्यात्मानं ज्ञापयन्ति इत्याध्यात्मिकाः, प्रकृत्याख्या उपादानाख्या कालाख्या भाग्याख्या चेति चतस्रस्तुष्टय आध्यात्मिकाः । प्रथा कश्चित् प्रकृतिमात्रं वेत्ति, न जानीते नित्या वा अनित्या वा चेतना वा अचेतना वा सगुणा वा अगुणा वा सर्वगता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org