________________
साङ्ख्यमतेन प्रधानास्तित्वसाधनम् ] द्वादशारं नयचक्रम्
३१७ पुरुषान्यत्वापरिज्ञानाद् माध्यस्थ्यलाभोऽम्भःसलिलौघवृष्ट्याख्याः शरीरशरीरिविशेषणोपायाश्चतस्र आध्यात्मिकास्तुष्टयः । बाह्याश्च विषयनिर्वेदजाः पञ्च विषयेष्वर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनात् (तारसुपारसुनेत्र[सु]मारीचोत्तमाभयाख्या इति नव तुष्टयः । ऐकादशेन्द्रियवधाः बधिरान्धाघ्रमूकजडोन्मादकुणिकुष्टिक्लीबोदावर्तपमुताः । पूर्वोक्तेभ्यः सिद्ध्युपायेभ्यो विपरीतनामानोऽष्टावसिद्धयः । तथा तुष्टिविपरीतनामानोऽ
वा असर्वगता वेति । एतान् धर्मान्न वेत्ति, केवलमस्तित्वमात्रेण तुष्टः प्रव्रजितः, तस्य नास्ति मोक्ष एषा प्रकृत्याख्या तुष्टिः । उपादानाख्या यथा कश्चित् त्रिदण्ड कुण्डकमण्डलुकृष्णाजिनाक्षसूत्रादीनामुपादानं कृत्वा प्रब्रवीति मम मोक्षो भविष्यतीति, एवं तुष्टो ज्ञानागमं न करोति तस्य नास्ति मोक्ष इत्येषा उपादानाख्या द्वितीया तुष्टिः। कालाख्या यथा-कश्चिदनभिगततत्त्वज्ञो ब्रवीति कालेन मोक्षो भविष्यतीति ज्ञानागमं न करोति, किं ज्ञानेन ? इति, एवं सन्तुष्टस्य नास्ति मोक्ष इत्येषा कालाख्या तृतीया तुष्टिः । भाग्याख्या यथा-कश्चिदनभिगततत्त्वज्ञो ब्रवीति भाग्येन मोक्षो भविष्यतीति ज्ञानागमं न करोति, किं ज्ञानेन ? इति सन्तुष्टस्य मोक्षो नास्तीति एषा भाग्याख्या चतुर्थी तुष्टिः । एवमेता आध्यात्मिकाश्चतस्रस्तुष्टयो भवन्ति ।"-जे० साङ्ख्यका० वृ० B । साङ्ख्यका युक्ति दीपिकायां तु आध्यात्मिकतुष्टयोऽन्यथा व्याख्याताः॥
१ "आधा तुष्टिरम्भ इत्यभिधीयते । कस्मात् ? अमितं हि प्रधानतत्त्वं भाति जगद्बीजभूतत्वात् ।....: द्वितीया तुष्टिः सलिलमित्यभिधीयते । कथं पुनरेतत् सलिलम् ? सति उपादाने विकारो लीयत इति ।......"तृतीया तुष्टिः 'ओघः' इत्यभिधीयते।
पुनरयं काल ओघ इत्युच्यते ? सलिलौघवत् सर्वाभ्यावहनात्।......चतुर्थी तुष्टिर्वृष्टिरित्यभिधीयते । कथं पुनर्वृष्टिरित्युच्यते ? सर्वसत्त्वाप्यायनात् । यथा हि शीर्णानामपि तृणलतादीनां वृष्टिं प्राप्य पुनराप्यायनं भवति एवमेव सर्वेषां प्राणिनां भाग्यविपरिणामात् पुनराप्यायनं भवति । तस्माद् वृष्टिसाम्याद् भाग्याख्या तुष्टिष्टिरित्यभिधीयते ।"-सायका० युक्तिदीपिका, का. ५०॥ २ "बाह्या[स्तु पञ्च ] तुष्टयो भवन्ति । ताश्च व्याख्यास्यन्ते । बाह्यविषयोपरमाश्च पञ्च । ताश्चेमाः-अर्जनरक्षणक्षयातृप्तिहिंसादोषाः । तत्रार्जनं नाम शब्दस्पर्शरूपरसगन्धान् विषयान् निमित्तं कृत्वा कृषिपशुपालनवाणिज्यादिषु प्रवर्तते, तत्र विषयोपार्जने क्लेशप्रयासादि दुःखं मत्वा विषयेभ्य उपरमति, उपरतश्च तुष्टिं लभते, एषा पञ्चमी तुष्टिः । रक्षणदुःखं यथा अर्जितानां धनधान्यानां राजचौरादिभ्यो यद् रक्षणं तदपि दुःखं कर्तुमित्युपरतश्च तुष्टिं लभते, एषा षष्ठी तुष्टिः । क्षयदुःखं यथा अर्जितानां रक्षणे कृतेऽप्युपभुज्यमानाः क्षीयन्त इति मत्वा उपरतश्च तुष्टिं लभत इत्येषा सप्तमी तुष्टिः । यथार्जितरक्षणक्षयादीनां प्रतीकारेऽपि कृते इन्द्रियागां वैतृष्ण्यं नास्तीति सञ्चिन्त्य विषयेभ्यो विरमति उपरतश्च तुष्टिं लभते, एषा अष्टमी तुष्टिः । अर्जनरक्षणक्षयातृप्तीनां प्रतीकारेऽपि कृते अर्जनादिवृत्तेन हिंसामन्तरेण भूतोपरोधं विना न शक्यन्ते विषया उपार्जयितुमतो विषयेभ्य उपरतश्च तुष्टिं लभते, एषा नवमी तुष्टिः । एवमेताभिस्तुष्टिभिरज्ञानाद् मोक्षो नास्तीति केवलेन वैराग्येण तुष्टिः । एवमेता आध्यात्मिकाश्चतस्रो बाह्याः पञ्च नव तुष्टयो व्याख्याताः । आसां तुष्टीनां नवानामिह संज्ञा भवन्ति-अम्भः सलिलम् ओघो वृष्टिः सुतारं सुपारं सुनेत्रं मरीचिकम् उत्तमाम्भसिकमिति ।" जे० सायका वृ० B, का० ५०॥ ३ क्षयासङ्ग प्र० । “शब्दस्पर्शरूपरसगन्धेभ्य उपरतोऽर्जनरक्षणक्षयसङ्गहिंसादर्शनात् । “विषयोपभोगसङ्गे कृते नास्तीन्द्रियाणामुपशम इति सदोषः ।" इति साङ्ख्यका• गौडपादभाष्ये, का० ५० ॥ ४सुतारं सुपार सुनेत्रं मारीचोत्तमारूयाख्या प्र० । “सुखार्थ च प्रवृत्तस्य भूयिष्ठं दुःखमेवेत्येतस्माद् दर्शनाद् माध्यस्थ्यं लभते सा पञ्चमी तुष्टिः सुतारमित्यभिधीयते । कथं पुनः सुतारमित्युच्यते ? सुखमनेन उपायेन तरन्ति विषयसङ्कटमिति सुतारम् । 'षष्ठी तुष्टिः सुपार मित्यभिधीयते । कथं पुनः सुपारमित्युच्यते ? सुखमनेन पारं विषयार्णवस्य प्रयान्तीति । सप्तमी तुष्टिः सुनेत्रमित्युच्यते। कथं पुनः सुनेत्रमित्युच्यते ? सुखमनेन आत्मानं कैवल्यावस्था नयन्तीति सुनेत्रम् । अष्टमी तुष्टिः सुमारीचमित्युच्यते । कथं सुमारीच मित्युच्यते ? अर्च तेः पूजार्थस्य शोभनमर्चितं विषयसङ्गनिवृत्तस्य योगिनोऽवस्थानं भवति ।"नवमी तुष्टिरुत्तमाभयमियपदिश्यते । कथम् ? उत्तमं हि प्राणिनां सर्वेभ्यो भयेभ्यो हिंसाभयमिति तदपगमात् उत्तमाभयमिति ।" सायका. युक्तिदीपिका, का० ५०॥ ५ “एकादशेन्द्रियवधा सह बुद्धिवधरशक्तिरुद्दिष्टा । सप्तदश वधा बुद्धर्विपर्ययात् तुष्टिशक्ती. नाम् ॥ ४९ ॥"इन्द्रियाणां व विषयग्रहणासामर्थ्य वध इव वधः ।" सायका० माठरवृ०। "इह लोके कश्चिद् देवदत्तो वैराग्येण गृहीतो यज्ञदत्तमाहूय प्रब्रवीति भो यज्ञदत्त दुःखितोऽस्मि, किं करवाणि ? इति । स तेनोक्तः-साङ्खयज्ञानस्याधिगमं कुरु, त्वं दुःखान्तं यास्यसीति । एवं यज्ञदत्तेनोक्तो देवदत्तोऽब्रवीत्-नाहं शक्नोमि सायज्ञानस्याधिगमं कर्तुं यस्माद् बधि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org