Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 444
________________ ३२७ ईश्वरसाधनम्] द्वादशारं नयचक्रम् रोहणादिसमर्थं तथा भवत् पृथिव्युदकादि व्रीहिर्जायते भवति च भवति । सत्त्वतमःप्रकाशनियमप्रवृत्तिसत्त्वेऽपि प्रवर्तयितृत्वाद् रजोभवनवद्वा । दृष्टान्तबाहुल्यप्रदर्शनं प्रतिसिद्धान्तपरिदृष्टादृष्टादेः प्रवर्तयितृत्वख्यापनार्थम् । कर्षणादिक्रियाः कुर्वन् देवदत्तः पचति इत्युच्यते, इत्यादि प्रतिकारकं स्वातन्त्र्ये सत्यपि उपक्रमप्रभृत्यपवर्गपर्यवसानासु क्रियासु तस्यैव स्वातव्यात् सम्भवनादिप्रत्यक्षतायामपि पचनशक्तिमतामप्यधिकरणादीनां देव-5 दत्तस्य प्रवर्तयितृत्वादेवोच्यते 'देवदत्त एव पचति' इति, नान्यानि अनीश्वरत्वात् । तां मुख्यां कर्तृशक्तिं दर्शयति-तेन पच्यते तृतीयया कर्तरि विहितया स पंचतीति वा प्रथमया तत्र विहिततिप्प्रत्ययसमानाधिकरणतया । पुनरपि स्फुटीकरणार्थमाह-* तेन पचनं क्रियत इति यावदुक्तं भवति [तावदुक्तं भवति] 'तेन पच्यते स पचति' इति । कुतः ? प्रयोजनमात्रार्थत्वात् क्रियायाः, प्रयोजनं परव्यापारणम् , विक्लेदव्यापारणार्थाः सम्भवनज्वलनादिक्रियाः, तासां च सर्वासां देवदत्तायत्तत्वात् स पचति तेन 10 पच्यत इत्युक्तम् । दृष्टान्तान्तरमाह स्फुटीकरणा)* व्यापित्वप्रदर्शनार्थं च - साक्षाद्वा भवितृवत् । तद्वर्णनम् - यथा च सम्भवनेत्यादि यावद् भवति च भवति, न केवलं पचत्यादिबाह्यक्रियाविषयमेव प्रयोज्यत्वंम् , किं तर्हि ? व्रीह्यादिभवनाद्यन्तःक्रियाविषयमपि प्रयोजनम् । तथा भवत् पृथिव्युदकादि बाह्यं व्रीहिर्जायते भवतीत्यन्तर्भवनम् । सम्भवनधारणसमर्था पृथिवी, रोहणसमर्थमुदकम् , आदिग्रहणाद् वर्द्धनसमर्था 15 वायुकालादयः, तैः कारितस्य व्रीहिमवनस्य प्रत्यक्षतायामपि सत्यां व्रीहिर्जायते भवति अन्तःसन्निविष्टस्वातत्र्यात् तस्यैवेश्वरस्य प्रयोजकत्वादुच्यते-भवति च भवतीति, भवनमपि भवदेव भवतीति स्वरूपमात्र-२३५-१ लाभोऽपि तद्वशादित्यर्थः । अथवा प्रस्तुतप्रधानकारणवादिसिद्धमेवेदं निदर्शनम् -सत्त्वतमःप्रकाशेत्यादि यावद् रजोभवनवद्वा । यथासङ्ख्यं सत्त्वस्य प्रकाशप्रवृत्तिस्तमसो नियमप्रवृत्तिश्चास्त्येवेत्युक्तं सत्त्वं शब्दात्मना 20 प्रवर्तमानमित्यादिपरस्परोपकारवीते, प्रकाशादिलक्षणस्य सत्त्वस्य प्रवृत्तिर्गुरुवरणलक्षणस्य तमसश्च प्रवृत्तियथासङ्घयम् ‘इतरयोः ख्यापयति व्यवस्थापयति' इति वचनात् । रजस्तु प्रवृत्तिलक्षणमेव प्रवर्तकमिष्टं विशेषतः, सत्यपि प्रवृत्तिसामान्ये 'करोति प्रवर्तयति' इति वचनात् । तथा अदृष्टाण्वादिभूतकालादिप्रवर्तमानसामान्येऽपीश्वर एव प्रवर्तयितृत्वात् कारणमिति । दृष्टान्तबाहुल्यं प्रदर्शनं प्रतिसिद्धान्तपरिदृष्टादृष्टादेः प्रवर्तयितृत्वख्यापनार्थम् , सिद्धान्तं सिद्धान्तं प्रति प्रतिसिद्धान्तं तेषु तेषु वैशेषिकादि-25 सिद्धान्तेषु कल्पितानां परितोऽनुमानैदृष्टानामप्यदृष्टाणुप्रधानविष्ण्वादीनां प्रवर्तयिता ईश्वर इति दान्तिकोपनयनात् । १नान्यनीश्वर भा० । नान्यमीश्वर य०॥ २ पचतीवा भा० । पचतीव य० ॥ ३ * * एतच्चिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ४ त्वां भा० । त्वात य० ॥ ५ वननाद्य डे. ली. विना ॥ ६वर्तन य० ॥ ७ नद्वा भा० । नाद्वा य० ॥ ८°श्चारवेत्युक्तं यः । श्चरेवेत्युक्तं भा० ॥ ९ दृश्यतां पृ० ३१८ पं०८ ॥ १० ल्यमप्रद भा० । ल्यमथद य० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662