Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 564
________________ पृ० २१८ पं०५,२०.] टिप्पणानि। ७१ पृ० २१२ पं० १,९. कलनात्मकं "लक्षणम् । अत्र 'ध्रुवादिसर्वनित्यलक्षणमेतदेव कलनात्मक कारणमुपपद्यते' इत्यपि मूलं स्यात् । दृश्यतां पृ० २१२ पं०११-१२ । पृ० २१२ पं० १९. जं जं जे जे । दृश्यतां पृ० १८२ पं० १३, पृ. ४७८ पं० ४ टि० ।। पृ० २१२ पं० ११, २८. कूटस्थम । दृश्यतां टिपृ० २३ पं० ३.१२ । पृ० २१३ पं० ३-५. तेन तस्मै एकत्र मेघादिरेकर पटादिः । अत्र 'तेन च तस्मै एकत्र पटादिरेकत्र मेघादिः' इति पठितव्यम् । पृ. २१३ पं० ८. जरत्ता । जरद्भावो जरत्ता इत्यर्थः । पृ० २१३ पं० २०. मेघे चोन्नतमात्रे वर्षति अयं 'ततः । अत्र मेघे चोन्नतमात्रे 'वर्षत्ययम्, ततः... इति योजना समीचीना भाति । पृ० २१५ पं० १,८. काभावः...... । कर्माभावे पुरुषवादिमते संसारानादिता न युज्यत इत्याशयः। 10 पृ० २१५ पं० ५. तस्मात्त्वनादिवर्तनात्मकत्वात्न न युज्यते [पृ० २१६ पं० ४] । एतत्स्थाने 'तस्मात्त्वनादिवर्तनात्मकत्वात् कालस्य यथा पृथिव्यादिव्रीह्यादिवृत्तिविवृत्तिप्रबन्धेन स्वात्मविषयक्रियाबन्धसंसरणं जीवद्रलयोरभिन्नवर्तनस्वतत्त्वयोः स्वत एव बन्धक्रिया संसारक्रिया च वर्तनाभेदेन रूपभेदेन च एवं कालस्य भात्मस्वात्मन्येव क्रिया अनात्मस्वात्मनि वेति युगपदेव बन्धसंसरणविहिता बन्धसंसारानादिता न न युज्यते।' इत्याशयकमपि मूलमत्र स्यात् । पृ० २१५ पं० १२. अतत्त्वं चास्य संसारस्य । अत्र हस्तलिखितप्रतिषु 'अतत्त्वं चास्य न भवति संसारस्य 15 इति पाठः, तदनुसरणे त्वत्र 'तत्त्वं चास्य न भवति संसारस्य' इति शुद्धः पाठो मन्तव्यः । 'मतत्त्वं चास्य भवति संसारस्य' इत्यपि पाठः स्यात् । पृ० २१५ पं० २२. पूर्वपरा...। (पूर्वापरा..?)। एवमग्रेऽपि । पृ० २१६ पं०१-४. स्वात्मविषय... । दृश्यतां टिपृ० ७१ पं० १२। पृ० २१६ ५० ५. प्रभेदपूर्वापरादिक्रमाद् भावा । (प्रभेदपूर्वापरादिक्रमा एव भावा ? प्रभेदभावा)। 20 पृ० २१६ पं० २३. कुण्डक । दृश्यतां पृ० १८१ पं० २५, टिपृ० ६५ पं० ५ टि० ३ । पृ० २१७ पं० ३,१३. सुषमादि । सुषमादिस्वरूपं तत्त्वार्थसूत्र[ ४११५]प्रभृतिग्रन्थेभ्योऽवसेयम् । पृ० २१७ पं० ५,२३. लग्नवर्तनादू । “राशीनामुदयो लग्नम् ।" -अमरको० १।३।२७ । पृ० २१७ पं० १०,२५. द्रव्यं भूम्यादिवीह्यादि, द्रव्यात्मा । 'द्रव्यम्, भूम्यादिबीयादिवण्यात्मा' इत्यपि योजना स्यादन्न । ___पृ० २१८ पं० १,१०. तन्मात्रभेदप्रभेदस्वामि । अत्र भा०प्रत्यनुसारी 'तन्मात्रमेदप्रभावात् स्वामि" . इति पाठः शोभनो भाति । पृ. २१८ पं० ५,२०. कालः पचति । आचारागसूत्रवृत्तिप्रभृतिषु बहुषु ग्रन्थेषु उद्धृतोऽयं श्लोकः । १ दृश्यतां पृ० २३९ पं० १९-२३ । “भाष्ये कूटस्थेष्विति, कूटमयोधनः, तद्वत् तिष्ठन्ति ये तेषु । संसर्गिनाशेऽपि खयमनष्टेष्वित्यर्थः ।....."अथावयवसंस्थानरूपाया जातिव्यजिकाया आकृतेर्यावद्यवहारकालं मध्ये मध्ये उत्पत्तौ नाशेऽपि प्रकारान्तरेण नित्यत्वमाह भाष्ये-अथवेति । नित्यत्वलक्षणे ध्रुवपदस्यैव व्याख्यानं कूटस्थमिति । रूपान्तरापत्तिर्विचाला, यथा पयसो दध्यादिरूपता । अनेन परिणामानित्यता परास्ता । उत्पत्तेः सत्तापर्यन्तत्वाद् अनुत्पत्तीत्यनेन जन्म-सत्तारूपी भावविकारौ निरस्तौ । अवृद्धीत्यनेन तृतीयो वृद्धिलक्षणः । अनुपजनेति चतुर्थः परिणामः । अनपायेति पञ्चमोऽपचयः। एतद्रूपविकाररहितमिति तदर्थः । अव्ययेति षष्ठो विनाशः । इदं च ब्रह्मविषयं नित्यत्वं यावद्वयवहारमेकरूपस्थितपदार्थविष च । अयमेव न नित्यशब्दार्थः, प्रवाहाविच्छेदेऽतादृश्यपि नित्यत्वव्यवहारादित्याह भाष्ये-तदपीति । यस्मिंस्तस्वमिति, यस्मिन् विहतेऽपि तत्तिधर्मो न विहन्यत इत्यर्थः । प्रवाहनित्यता चानेनोक्ता । तन्नाशेऽपि तद्धर्मो न नश्यति, आश्रयप्रवाहाविच्छेदादिति भावः।" इति पातञ्जलमहाभाष्यस्य उहयोते ११ पस्पशाहिके। २'स्वत एव बन्धसंसारौ वर्तनामेदेन.' इत्यपि पाठः स्यादत्र । दृश्यता पृ० २१९ पं०८। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662