Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 566
________________ पृ० २३० ५० ९.] टिप्पणानि । पृ० २२९ पं० २१,२२,२३. निर्हेतुकहेतुक । भावप्रधानोऽयं 'निर्हेतुक निर्देशः, तेन अन्तवत्त्वानुमाने आदिमत्त्वानुमाने च निर्हेतुकत्वस्य हेतुत्वेन विवक्षितत्वात् 'निर्हेतुकहेतुक' इत्युक्तमत्र, दृश्यतां पृ० २२९ पं० १८ । __ पृ० २३० पं० ९. साधनदूषणा । “साधनं दूषणं चैव साभासं परसंविदे । प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे ॥ इति शास्त्रार्थसंग्रहः ।" इति न्यायप्रवेशके हेतुतत्त्वोपदेशे च । दिमागविरचिते न्यायमुखेऽपि अवश्यं 'साधनं दूषणं चैव...' इदृशी कारिका ग्रन्थारम्भे आसीदिति 'साभासोक्त्याधुपक्षेप. ॥[४।२७]।' इति प्रमाणवार्तिककारिकाया । व्याख्याविलोकनेन प्रतिभाति । यद्यपि अस्य चीनभाषानुवादमवलम्ब्य Prof. Giuseppe Tucci इत्येभिर्विहिते English ingang "I have compiled this book, because I desire to assertain what is the real nature of the arguments to prove (a thesis as well ] as to refute it.” [न्यायमुख. पृ० ५] इति दृश्यते तथाप्ययं चीनभाषानुवादो बहुषु स्थलेषु संक्षिप्तोऽस्पष्टश्च भाति । पृ० २३० पं० ९. पक्ष...। "पेक्षादिवचनानि हि साधनं, तत्र तु स्वयम् । साध्येत्वेनेप्सितः पक्षो विरुद्धार्थानिरा-10 कृतः ॥२॥ पक्षेत्यादि, पक्षहेतुदृष्टान्तवचनैर्हि परेषामप्रतीतोऽर्थः प्रतिपाद्यते ।" इति दिनागरचिते न्यायमुखे प्रतीयते । "परार्थमनमानं तु स्वदृष्टार्थप्रकाशनम् । तत्रानमेयनिर्देशो हेत्वर्थविषयो मतः ॥३१॥ स्वरूपेणैव निर्देश्यः स्वयमिष्टोsनिराकृतः । प्रत्यक्षार्थानुमानाप्तप्रसिद्धेन स्वधर्मिणि ॥३॥२॥” इति दिमागविरचिते प्रमाणसमुच्चये। १“स्वयूथ्यानां [ = न्यायमुखटीकाकारादीनां ] पूर्वपक्षपरिहारोक्तिः - पक्षवचनं साधनं साभासत्वादिति चेत् , न, प्रत्यक्षेगानेकान्तात् । प्रत्यक्षं साभासमपि न कस्यचित् प्रमाणस्य साधनम् । वचनात्मत्वे सति साभासत्वात् साधनत्वमिति चेत्, न, दूषणेनानेकान्तात् । दूषणं साभासवचनात्मत्वेऽपि न साधनम।" इति मनोरथनन्दिरचितायां प्रमाणवार्तित ४।२७ “अन्यः पुनराह -- 'प्रतिज्ञा साधनं साभासत्वेनोक्तेः, साभासत्वस्य साधनत्वेन सह दर्शनात् । दूषणवाद्याहप्रत्यक्षेण अनेकान्तः । वचनात्मकत्वेन विशेषणाददोष इति परिहारः । दूषणेनानेकान्त इति चेत् , अदूषणत्वे सतीति परिहारः।' तदेतत् सकलमसत् ।...” इति प्रमाणवार्तिकालङ्कारे पृ० ४९३ । इयं च साभासत्वोक्त्यादिचर्चा न्यायमुखे 'साधनं दूषणं चैव साभासं......।' इत्येतादृशपाठसम्भवे घटत इति ध्येयम् । २ दृश्यतां पृ० ३०६ पं० २२ । ३ "तत्र पक्षादिवचनानि साधनम् । पक्षहेतुदृष्टान्तवचनैर्हि प्राश्निकानामप्रतीतोऽर्थः प्रतिपाद्यत इति । तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धविशेषणविशिष्टतया स्वयं साध्यत्वेनेप्सितः, 'प्रत्यक्षाद्यविरुद्धः' इति वाक्यशेषः । [पृ० १] एषां [=पक्ष-हेतु-दृष्टान्तानां ] वचनानि परप्रत्यायनकाले साधनम् । एतान्येव त्रयोऽवयवा इत्युच्यन्ते।" - न्यायप्रवेश० पृ० १-३ । “वादिना खयं साधयितुमिष्टोऽर्थः साध्यः साध्यते येन तत् साधनं हेतोस्त्रिरूपवचनम्।"हेतुतत्त्वोप० । ४ "न्यायमुखप्रकरणे 'तत्र तु खयं........"कृतः' इति पाठात् ।”-प्रमाणवार्तिकालं० पृ० ५१०, ५१९,५२२,५६१ । प्रमाणवा० मनो० पृ० ४४३ । न्यायवार्तिकतात्पर्यटीका. १।१।३३ । ५ The proposition and the other terms are called the proof [ साधन ]. Here is called "proposition' only that particular argument that we want to prove in accordance with our own opinion. It must be such as no argument contradictory [to it ] can exclude it. "The proposition etc."; this means that through the formulation of a proposition, & reason and an example, an argument which has not yet been understood by onother [ man ], is made evident to him.-न्यायमुख. पृ० ५.। ६प्रमाणवार्तिकालंकार पृ० ४८८। प्रमाणवा० मनो० पृ. ४२०। ७प्रमाणवार्तिकालंकार. पृ० ५४५, ५४६,५४९ । प्रमाणवार्तिकमनोरथनन्दिवृत्ति. पृ० ४२४,४४५,४५८,४५९। ८ यद्यपि प्रमाणसमुच्चयो नेदानी संस्कृतभाषायामुपलभ्यते तथापि भोटभाषानुवादमवलम्ब्य प्राचीनेषु च ग्रन्थेषु विद्यमानानि दिङ्गागवचनानि संगृह्य समालोच्य च मया सङ्कलिता इमाः कारिका इति ध्येयम् । . नय०टि० १० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662