Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 571
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [ पृ० २४० पं० १४ परिच्छेदे, Derge edition. पृ० ३५ B - ३६ A । अत्र वक्ष्यमाणं भोटपरिशिष्टं द्रष्टव्यम् । “ऐतेन सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्' इति लक्षणं प्रत्युक्तम् । " - न्यायवा० १|१|५| "प्रत्यक्षादीन्यपि च तत्रान्तरेषूपदिश्यन्ते - श्रोत्रादिवृत्तिः प्रत्यक्षम् । सैम्बन्धादेकस्माच्छेषसिद्धिरनुमानम् । यो यत्राभियुक्तः कर्मणि चादुष्टः स तत्राप्तः, तस्योपदेश आप्तवचनम् । इति ।" - सांख्यकारिकायुक्तिदीपिकावृ० पृ० ४ । तुलना - "अवगृहीते विषयार्थैकदेशाच्छेषानुगमनं निश्चय5 विशेषजिज्ञासा ईहा । " - तत्त्वार्थभा० १।१५ । 10 Ge पृ० २४० पं० १४. आत्मेन्द्रिय: । दृश्यतां टिपृ० ३२ पं० ३५ । पृ० २४० पं० १९. तदसिद्धेः प्रत्यक्षत्वा । ' तदसिद्धेः । प्रत्यक्षत्वा ..." इति योजनीयमत्र । टिपृ० ७७ पं० २५ । पृ० २४० पं० २३. सामान्यप्रत्यक्षाद्। दृश्यतां टिपृ० १९ पं० २९ । पृ० २४० पं० २५. मात्रामात्रिकभावेन वा । एतदनन्तरं [ सहचारिभावेन वा ] इति पूरणीयम् । पृ० २४१ पं० १,१५. विपर्येतव्य । अत्र विपर्ययितव्य' इति ज्यायः प्रतिभाति, प्रत्यनुसारित्वात् । पृ० २४१ पं० ४-११. यथा तथेद तैस्यैकङ्गारकितम् प्रकृतित्व । दृश्यतां टिष्ट० ७६ पं० २१। ... .... .. इत्यादिभाष्यवचनात् । 'सम्बन्धानामर्थानाम्' इति निर्देशात् सूत्रे कर्मसाधनः सम्बन्धशब्दो ज्ञेयः । स्वस्वामिभावेन वेति, राजसेवकवत् प्रधान-पुरुषवच्च । उदाहरणद्वयं लोक-शास्त्रप्रसिद्धिवशात् । एवमुत्तरत्रापि ज्ञेयम् । स्वस्वामिभावोऽन्योन्यापेक्षः । स्वस्य स्वामिनं प्रति सत्त्वं तद्योग्यत्वं च एवं स्वामिनोऽपि स्वं प्रति सत्त्वम् । प्रकृतिविकारभावेन क्षीरदध्यादिवत् प्रधानमहदादिवच्च । प्रकृतिरविभागं कारणम् । विकारः तस्याः परिणामिन्या धर्मः । कार्यकारणभावेन अन्योन्योपकार लक्षणेन रथाङ्गवत् सत्त्वादिवच्च शब्दादिभावेन परिणामे । निमित्तनैमित्तिकभावेन अन्यतरोपकारलक्षणेन कुम्भकार घटादिवत पुरुष प्रधानप्रवृत्तिवच्च । मात्रामा त्रिकभावेन च अवयवावयविभावलक्षणेन शाखादि-वृक्षवत् शब्दादि- महाभूतवच्च । सहचारि भावेन चक्रवाकवत् सत्त्वादिवच्च । वध्यघातकभावेन अहिनकुलवत् अङ्गाङ्गिभूतसत्त्वादिवच्च । सत्त्वादीनां यस्य अङ्गित्वं तेन इतरस्य अभिभूतत्वात् । अयं सप्तविधः सम्बन्धः । तेन यथासम्भवं सम्बन्धादेकस्मादिति । यथोक्तम् — 'कैश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति । तस्मादिदानीमिन्द्रियप्रत्यक्षादर्थात् पूर्वं समुदाये कृतसम्बन्धात् बुद्ध्या अविशिष्टस्यार्थस्यास्तित्वं प्रतिपद्यते, यथा पूर्वं धूमाभ्योः सम्बन्धं दृष्ट्वा धूमदर्शनादनेप्यर स्तित्वं प्रतिपद्यते ।' इति । सिद्धेः कारणमिति लिङ्गज्ञानं सम्बन्धस्मरणापेक्षम्, तद्विशे ( तद्धि शेषस्य अप्रत्यक्षस्य लिङ्गिनः सिद्धेः कारणम् । सिद्धिः कार्यम् । सूत्रे कारणे कार्योपचारात ‘शेषसिद्धिरनुमानम्' इत्युक्तम् । " - विशालामलवती० पृ० ११७B - ११८ B. Derge edition. अस्य भोटभाषानुवादोऽत्र वक्ष्यमाणे भोटपरिशिष्टे द्रष्टव्यः । " तलिङ्गलिङ्गिपूर्वकमनुमानं चेति । लिङ्गलिङ्गिसम्बन्धस्तु स्वस्वामिप्रकृतिविकारकार्यकारणमात्रिकाप्रतिपत्ति (क्षि ?) सहचरितनिमित्तनैमित्तिकभावैरिति । ” - सांख्यकारिकावृ० A । १ “सम्प्रति सांख्यीमनुमानलक्षणं दूषयति- एतेनेति । सम्बन्धोऽविनाभावः साधनस्य साध्येन । तस्मात् प्रत्यक्षाद् दृढतरप्रमाणावधारितात् । तथापि यत्राविनाभूते लिङ्गे भवत एकस्मिन् धर्मिणि विरुद्धाव्यभिचारिणी तयोरपि हेतुत्वं प्रसज्येतेत्यत उक्तम् - एकस्मादिति । शेषस्य अनुमेयस्य सिद्धिः ।" - न्यायवार्तिकतात्पर्यटी० । २ 'श्रोत्रादिवृत्तिः प्रत्यक्षम् इति वार्षगण्यरचितं लक्षणम्, दृश्यतां टिपृ० ३२ पं० २ । तेन सहोपात्तत्वादिदमपि लक्षणं वार्षगण्यरचितं भवेदिति सम्भाव्यते । ३ बृहदारण्यकोपनिषद्भाष्यवार्तिक. पृ० १२४६ | तत्त्वसंग्रहपञ्जिका. पृ० ७२ । शास्त्रवार्तासमुच्चय. ५४४-५४५ । सन्मतिवृत्ति, पृ० ३८३ । प्रमेयकमलमार्तण्ड पृ० ४४-४५ । न्यायकुमुदचन्द्र पृ० १४१ । अष्टसहस्त्री पृ० ९३ । न्यायविनिश्चयटीका. पृ० १।३१२ । स्याद्वादरत्नाकर. पृ० ९।— प्रभृतिग्रन्थेषु उद्धृतोऽयं श्लोकः । ४ बृहदा० वा० पृ० १२४६ इत्यत्र उद्धृतः । ५ अत्र 'अङ्गार कितम्' इति शुद्ध एव पाठः, तथा प्राचीनग्रन्थेषु प्रयोगदर्शनात् । "मैत्रक इव त्वगङ्गारकितादिभेदपलाशस्व तत्त्वस्य' ...... त्वन्मात्रः अङ्गारकितः किशलयितः पत्रितः इत्यादि ब्रुवन् मैत्रकः पलाशं निरवयवप्रभेदं तत्र निरावरणज्ञान इति प्रसिद्धः ।" इति वक्ष्यतेऽत्रैव नयचक्रवृत्तौ पृ० ५७१-१ । 1 अत्र निर्दिष्टं सूत्रं भाष्यं च सांख्यप्रणीतमभिप्रेतमिति ध्येयम् । सूत्रं वार्षगण्यप्रणीतं भाति । 2 नयचक्रेऽष्टमारे [ पृ० ४४६ - १ ] उद्धृतोऽयं पाठो मलवादिनापि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662