________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य
[ पृ० २४० पं० १४
परिच्छेदे, Derge edition. पृ० ३५ B - ३६ A । अत्र वक्ष्यमाणं भोटपरिशिष्टं द्रष्टव्यम् । “ऐतेन सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्' इति लक्षणं प्रत्युक्तम् । " - न्यायवा० १|१|५| "प्रत्यक्षादीन्यपि च तत्रान्तरेषूपदिश्यन्ते - श्रोत्रादिवृत्तिः प्रत्यक्षम् । सैम्बन्धादेकस्माच्छेषसिद्धिरनुमानम् । यो यत्राभियुक्तः कर्मणि चादुष्टः स तत्राप्तः, तस्योपदेश आप्तवचनम् । इति ।" - सांख्यकारिकायुक्तिदीपिकावृ० पृ० ४ । तुलना - "अवगृहीते विषयार्थैकदेशाच्छेषानुगमनं निश्चय5 विशेषजिज्ञासा ईहा । " - तत्त्वार्थभा० १।१५ ।
10
Ge
पृ० २४० पं० १४. आत्मेन्द्रिय: । दृश्यतां टिपृ० ३२ पं० ३५ ।
पृ० २४० पं० १९. तदसिद्धेः प्रत्यक्षत्वा । ' तदसिद्धेः । प्रत्यक्षत्वा ..." इति योजनीयमत्र । टिपृ० ७७ पं० २५ । पृ० २४० पं० २३. सामान्यप्रत्यक्षाद्। दृश्यतां टिपृ० १९ पं० २९ ।
पृ० २४० पं० २५. मात्रामात्रिकभावेन वा । एतदनन्तरं [ सहचारिभावेन वा ] इति पूरणीयम् । पृ० २४१ पं० १,१५. विपर्येतव्य । अत्र विपर्ययितव्य' इति ज्यायः प्रतिभाति, प्रत्यनुसारित्वात् । पृ० २४१ पं० ४-११. यथा तथेद तैस्यैकङ्गारकितम् प्रकृतित्व । दृश्यतां टिष्ट० ७६ पं० २१।
...
....
..
इत्यादिभाष्यवचनात् । 'सम्बन्धानामर्थानाम्' इति निर्देशात् सूत्रे कर्मसाधनः सम्बन्धशब्दो ज्ञेयः । स्वस्वामिभावेन वेति, राजसेवकवत् प्रधान-पुरुषवच्च । उदाहरणद्वयं लोक-शास्त्रप्रसिद्धिवशात् । एवमुत्तरत्रापि ज्ञेयम् । स्वस्वामिभावोऽन्योन्यापेक्षः । स्वस्य स्वामिनं प्रति सत्त्वं तद्योग्यत्वं च एवं स्वामिनोऽपि स्वं प्रति सत्त्वम् । प्रकृतिविकारभावेन क्षीरदध्यादिवत् प्रधानमहदादिवच्च । प्रकृतिरविभागं कारणम् । विकारः तस्याः परिणामिन्या धर्मः । कार्यकारणभावेन अन्योन्योपकार लक्षणेन रथाङ्गवत् सत्त्वादिवच्च शब्दादिभावेन परिणामे । निमित्तनैमित्तिकभावेन अन्यतरोपकारलक्षणेन कुम्भकार घटादिवत पुरुष प्रधानप्रवृत्तिवच्च । मात्रामा त्रिकभावेन च अवयवावयविभावलक्षणेन शाखादि-वृक्षवत् शब्दादि- महाभूतवच्च । सहचारि भावेन चक्रवाकवत् सत्त्वादिवच्च । वध्यघातकभावेन अहिनकुलवत् अङ्गाङ्गिभूतसत्त्वादिवच्च । सत्त्वादीनां यस्य अङ्गित्वं तेन इतरस्य अभिभूतत्वात् । अयं सप्तविधः सम्बन्धः । तेन यथासम्भवं सम्बन्धादेकस्मादिति । यथोक्तम् — 'कैश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति । तस्मादिदानीमिन्द्रियप्रत्यक्षादर्थात् पूर्वं समुदाये कृतसम्बन्धात् बुद्ध्या अविशिष्टस्यार्थस्यास्तित्वं प्रतिपद्यते, यथा पूर्वं धूमाभ्योः सम्बन्धं दृष्ट्वा धूमदर्शनादनेप्यर स्तित्वं प्रतिपद्यते ।' इति । सिद्धेः कारणमिति लिङ्गज्ञानं सम्बन्धस्मरणापेक्षम्, तद्विशे ( तद्धि शेषस्य अप्रत्यक्षस्य लिङ्गिनः सिद्धेः कारणम् । सिद्धिः कार्यम् । सूत्रे कारणे कार्योपचारात ‘शेषसिद्धिरनुमानम्' इत्युक्तम् । " - विशालामलवती० पृ० ११७B - ११८ B. Derge edition. अस्य भोटभाषानुवादोऽत्र वक्ष्यमाणे भोटपरिशिष्टे द्रष्टव्यः । " तलिङ्गलिङ्गिपूर्वकमनुमानं चेति । लिङ्गलिङ्गिसम्बन्धस्तु स्वस्वामिप्रकृतिविकारकार्यकारणमात्रिकाप्रतिपत्ति (क्षि ?) सहचरितनिमित्तनैमित्तिकभावैरिति । ” - सांख्यकारिकावृ० A ।
१ “सम्प्रति सांख्यीमनुमानलक्षणं दूषयति- एतेनेति । सम्बन्धोऽविनाभावः साधनस्य साध्येन । तस्मात् प्रत्यक्षाद् दृढतरप्रमाणावधारितात् । तथापि यत्राविनाभूते लिङ्गे भवत एकस्मिन् धर्मिणि विरुद्धाव्यभिचारिणी तयोरपि हेतुत्वं प्रसज्येतेत्यत उक्तम् - एकस्मादिति । शेषस्य अनुमेयस्य सिद्धिः ।" - न्यायवार्तिकतात्पर्यटी० । २ 'श्रोत्रादिवृत्तिः प्रत्यक्षम् इति वार्षगण्यरचितं लक्षणम्, दृश्यतां टिपृ० ३२ पं० २ । तेन सहोपात्तत्वादिदमपि लक्षणं वार्षगण्यरचितं भवेदिति सम्भाव्यते । ३ बृहदारण्यकोपनिषद्भाष्यवार्तिक. पृ० १२४६ | तत्त्वसंग्रहपञ्जिका. पृ० ७२ । शास्त्रवार्तासमुच्चय. ५४४-५४५ । सन्मतिवृत्ति, पृ० ३८३ । प्रमेयकमलमार्तण्ड पृ० ४४-४५ । न्यायकुमुदचन्द्र पृ० १४१ । अष्टसहस्त्री पृ० ९३ । न्यायविनिश्चयटीका. पृ० १।३१२ । स्याद्वादरत्नाकर. पृ० ९।— प्रभृतिग्रन्थेषु उद्धृतोऽयं श्लोकः । ४ बृहदा० वा० पृ० १२४६ इत्यत्र उद्धृतः । ५ अत्र 'अङ्गार कितम्' इति शुद्ध एव पाठः, तथा प्राचीनग्रन्थेषु प्रयोगदर्शनात् । "मैत्रक इव त्वगङ्गारकितादिभेदपलाशस्व तत्त्वस्य' ...... त्वन्मात्रः अङ्गारकितः किशलयितः पत्रितः इत्यादि ब्रुवन् मैत्रकः पलाशं निरवयवप्रभेदं तत्र निरावरणज्ञान इति प्रसिद्धः ।" इति वक्ष्यतेऽत्रैव नयचक्रवृत्तौ पृ० ५७१-१ ।
1 अत्र निर्दिष्टं सूत्रं भाष्यं च सांख्यप्रणीतमभिप्रेतमिति ध्येयम् । सूत्रं वार्षगण्यप्रणीतं भाति । 2 नयचक्रेऽष्टमारे [ पृ० ४४६ - १ ] उद्धृतोऽयं पाठो मलवादिनापि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org