Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 569
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [पृ० २३१ पं० ३,१५वृत्तौ षष्ठगाथाव्याख्यायां वादिदेवसूरिभिश्च स्याद्वादरत्नाकरे [पृ० ९० ] उद्धृता व्याख्याता च । अन्येष्वपि न्यायमञ्जरीस्पन्दकारिकाप्रभृतिग्रन्थेषु उद्धतेयम् । पृ० २३१ ६० ३,१५. सम्भववद् व्यभिचार"। दृश्यतां टिपृ० ४४ पं० २१-२४ । पृ० २३१ पं० २३. भेदप्राधान्येनैव भावीकृतेनार्थोऽपि भिन्नो विशेषणत्वेनोपादातुं योग्यः, । तद्यथा । अत्र 'भेदप्राधान्येनैव । अभावीकृतेर्नार्थोऽपि........ तद्यथा' इति भा०प्रतिस्थपाठ एव समञ्जसः । पृ० २३२ पं० २३-२४, २७-२८. ननिवार्थ गतिः] इति । यद्यपि कात्यायनविरचिते पाणिनीयवार्तिके पर्थगतिः' इति पाठः सम्प्रति उपलभ्यते तथापि 'द्यर्थः' इति पाठान्तरस्याप्यत्र पूर्व प्रचार आसीदिति प्रतीयते, “नभिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थ इति" इति विशेषावश्यकभाष्यस्य कोट्टार्यवृत्तौ [पृ० ९५] उल्लेखदर्शनात् । एवं चात्र हस्तलिखितप्रतिस्थः 'ह्यर्थः' इति पाठः समीचीन एव । अतो [गतिः]' इति पूरणमनावश्यकमत्रेति ज्ञेयम् । 10 पृ. २३३ पं० ७. अब्राह्मणवत्, वैधयेण"| अब्राह्मणवचने ब्राह्मणवदित्याशयः, दृश्यतां पृ. २३२ पं० २३,२९ । सत्त्वे साध्ये 'खपुष्पवत्' इत्यस्य वैधर्म्यदृष्टान्तत्वादत्र 'वैधयेण' इत्युक्तमिति ध्येयम् । भेददर्शनाभ्यासेन मूर्तिविभागभावनया च व्यवहारानुपातिभिर्धर्माधर्मः सर्वाखवस्थासु अनाश्रितादिनिधनं ब्रह्मेति प्रतिज्ञायते । न हि कार्यकारणात्मकस्य विभक्ताविभक्तस्यैकस्य ब्रह्मणः सर्वप्रवादेष्वपूर्वापरे प्रवृत्तिनिवृत्तिकोटी परिसंख्यायेते। ने चास्योर्ध्वमधस्तिर्यग् वा मूर्तिपरिवर्तप्रत्यङ्गानां क्वचिदवच्छेदोऽभ्युपगम्यते । तत्तु भिन्नरूपाभिमतानामपि विकाराणां प्रकृत्यन्वयित्वाच्छब्दोपग्राह्यतया शब्दोपग्राहितया च शब्दतत्त्वमित्यभिधीयते । स्थितिप्रवृत्तिनिवृत्तिविभागा हि शब्देनाक्रियन्ते । तच्चाक्षरनिमित्तत्वादक्षरमित्युच्यते । प्रत्यक्चैतन्येऽन्तःसंनिवेशितस्य परसम्बोधनार्था व्यक्तिरभिष्यन्दते।....."विवर्ततेऽर्थभावेन । एकस्य तत्त्वादप्रच्युतस्य भेदानुकारेण असत्यविभक्तान्यरूपोपग्राहिता विवर्तः, स्वप्नविषयप्रतिभासवत् ।..... प्रक्रिया जगतो यतः। तत एव हि शब्दाख्यादुपसंहृतक्रमाद् ब्रह्मणः सर्वविकारप्रत्यस्तमये संवर्तादनाकृतात् पूर्व विकार(: ग्रन्थिरूपत्वेनाव्यपदेश्याजगदाख्या विकाराः प्रक्रियन्ते । तथा ह्युक्तम्-यः सर्वपरिकल्पानामाभासेऽप्यनवस्थितः । तांगमानु मानेन बहुधा परिकल्पितः॥१॥ व्यतीतो भेदसंसा भावाभावौ क्रमाक्रमौ । सत्यानृते च विश्वात्मा प्रविवेकात् प्रकाशते ॥२॥ .......प्रकृतित्वमपि प्राप्तान् विकारानाकरोति सः । ऋतुधामेव ग्रीष्मान्ते महतो मेघसंप्लवान् ॥ ४॥ तस्यैकमपि चैतन्यं बहधा प्रविभज्यते । अङ्गारकितमुत्पाते वारिराशेरिवोदकम् ॥५॥....."यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥ १०॥ तथेदममृतं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं विवर्तते ॥ ११ ॥ ब्रह्मेदं शब्दनिर्माण शब्दशक्तिनिबन्धनम् । विवृतं शब्दमात्राभ्यस्तास्वेव प्रविलीयते॥ १२ ॥” इति भर्तृहरिविरचितायां वाक्यपदीयखवृत्तौ । “अनादिनिधन मिति कालप्रदेशकृतपरिच्छेदाभावप्रकाशनाय । ब्रह्मेति नामकथनम् । शब्दतत्त्वमिति खरूपकथनम् । यदक्षरं विवर्ततेऽर्थभावेन इत्यनेन ब्रह्मणः सकाशाच्छब्दार्थयोरभेदकथनम् । प्रक्रिया जगतो यत इति अस्य चिद्रपस्य विवर्तस्य प्रधानं परमाणवो वा अन्यद्वा न निमित्तम् अपि तु ब्रह्मैवेति दर्शयति ।"-इति वाक्यपदीयस्य वृषभदेवरचितटीकायाम् । www Ime womanwww mammam इति । कोटिर्मयादा। [अपूर्वा प्रवृत्तिमर्यादा] यस्यां कार्योत्पादात् पूर्व न किञ्चिदासीत् । अपरा निवृत्तिमर्यादा यस्याः परं नास्ति । ते प्रवृत्तिनिवृत्तिमर्यादे अपूर्वापरे न संख्यायेते । ननु सर्वपरिकल्पातीततत्त्वं तत् कथं शब्दतत्त्वमित्युच्यत इत्याह-विकाराणां प्रकृत्यन्वयित्वादिति । विकारा हि प्रकृतिरूपेणान्विता दृष्टा यथा शकल-कपाला-ऽमत्रभूषणानि । रूपादयश्चैते शब्दरूपानुगता दृश्यन्त इति प्रकृतिभूते ब्रह्मणि शब्दापदेशः ।...."स्वप्नविषयप्रतिभासवदिति यथा स्वप्नावस्थायां शानक्षण एक एव भिन्नजातीयानेकपदार्थाव भासी जायते ।....."प्रकृतित्वमपीति । य एते प्रधानपरमाण्वादयोऽपि कारणं महादादीनां प्रकृतित्वं प्राप्ताः तानप्यसावेव आकरोति - जनयति । अत एव चैते विकारशब्देनोक्ताः, न तु तैः सांख्यादिभिर्विकारत्वमिष्टं तेषाम् । ऋतुधामा इति, ऋतवो हेमन्तादयः पद तेषां सारभूतं तेजो ऋतुधामा वर्षरात्रयः । संवत्सरो वा ऋतुः तस्य सारभूता वर्षा इति । व्याप्तिः संप्लवः । व्यापकमेघान् जनयति । तस्य इति व्यपदेशिवद्भावेन पृथक्त्वापदेशः।" इति वृषभदेवरचितटीकायाम् । : 1 नयचक्र. पृ०.२३९ पं० १। 2 "प्रकृतित्वमनापन्नान् विकारा..." - नयचक्र. पृ० २४१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662