Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 570
________________ पृ० २४० पं० ११-१४.] टिप्पणानि । पृ० २३४ पं० ४,१९. यं तं । एतादृशः शब्दप्रयोगः 'पृ० ३२ पं० २३, पृ० १३२ पं० २०' इत्यत्रापि दृष्टः । पृ० २३५ पं० ३,१९ - २०. भेदसंसर्गपरिणामैः । दृश्यतां टिपृ० ४१ पं० ३ । पृ० २३५ पं० ४. विकल्पेन च । 'विकल्पयेत च' इत्यपि पाठोऽत्र संभवेत्, दृश्यतां पृ० २३६ पं० ९ । पृ० २३५ पं० ९. चित्रलेप्य । दृश्यतां टिपृ० २७ पं० ३३. पृ० २३५ पं० १०. एकत्रैवोपयुक्तार्थत्वाद् | घटादेरभवनस्य । 'एकत्रैवोपयुक्तार्थत्वाद् घटादेः । अभवनस्य...' इत्यन्वयविवक्षायां तु मूले [पृ० २३५ पं० १] 'घटादेः' इति न ग्राह्यम् । पृ० २३५ पं० २१. उक्ति-प्रयोजनादिनानात्वाद् । दृश्यतां पृ० ४८ पं० २३,३०-३२ । पृ० २३५ पं० २४. स एवात्मास्य भाव । अत्र 'स एवात्मा भाव' इति य० प्रतिपाठः समीचीन एव भाति । दृश्यतां पृ० २६५ पं० १६ | ( स एवात्मास्य भावस्य ? ) । पृ० २३६ पं० २-३,११. ननु भेदः प्रत्यक्षत एव न गृह्यते । दृश्यतां पृ० २३७ पं० २२, पृ० २३८ पं० ७। 10 पृ० २३६ पं० ७. विकल्पेन च । ( विकल्प्येत च ? ) । दृश्यतां पृ० २३६ पं० ९, टिपृ० ७७ पं० ३ । पृ० २३६ पं० २३. निध्युपलिङ्गत्वेन । दृश्यतां पृ० २२३ पं० १२ । पृ० २३८ पं० ५. अभेदे भावे य... । अत्र 'अभेदे भावे तस्य य... ' इति पठितव्यम् । दृश्यतां पृ० २४० पं० ६ । पृ० २३८ पं० ६. तस्य होकोऽपिनतिक्रान्तः [ पृ० २३९ पं० १] । दृश्यतां पृ० २४० पं० ५ । “येतचैते सर्वविकल्पातीते एकस्मिन्नर्थे सर्वशक्तियोगाद् द्रष्टृणां दर्शन विकल्पाः तत एव खलु - सत्या विशुद्विस्तत्रोक्ता विद्यैवैकपदा-15 गमा । युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥ [ वाक्यप० १1९ ], इहैवैकस्मिन् सर्वरूपे ब्रह्मणि यः परिकल्पः स विरुद्धरूपाभिमतेभ्यः परिकल्पान्तरेभ्यो न भिद्यते । अपि खलु ब्रह्मविद आहुः - 'प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्पश्च - इति । " - वाक्यपदीयभर्तृहरिवृत्ति. । पृ० २३८ पं० २५. पर्यायान्तरेण । 'तद् व्याचष्टे पर्यायान्तरेण' इति सम्बन्धोऽत्र भाति । पृ० २३९ पं० १,१३,२९. न चास्यो । दृश्यतां टिपृ० ७६ पं० १४ । पृ० २३९ पं० ३. ध्रुवः । दृश्यतां टिपृ० २३ पं० ११, टिपृ० ७१ टि० १ । पृ० २३९ पं० १४. दक्षिणोत्तरमथुरयोरपि । दक्षिणमथुरा सम्प्रति 'मदुरा' [ Madura ] इति व्यवहियते, सा च 'दक्षिणभारत'स्थत्वाद् 'दक्षिणमथुरा' इति गीयते, इयमेव 'पाण्डुमथुरा' 'पाण्ड्यमथुरा' इत्यपि चोल्लिख्यते स्म शास्त्रेषु । उत्तरभारतस्था मथुरा तु उत्तरमथुरा इति भाति । पृ० २४० पं० ३,१९. तदभावे तदसिद्धेः । प्रत्यक्षपूर्वकत्वाभावेऽनुमानासिद्धेरित्याशयः । पृ० २४० पं० ११–१४. सम्बद्धादेकस्मात्" । "एवं तावद् वैशेषिकस्यानुमानं दुर्घटम् । सांख्यानामपि 'सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्' इति । तत्र सम्बन्धः सप्तविधः । तेन यथासम्भवं सम्बन्धात् एकस्मात् प्रत्यक्षात् शेषस्य अप्रत्यक्षस्यार्थस्यावश्यं सिद्धेः कारणं तदनुमानम् ।" इति दिङ्गागरचितायां प्रमाणसमुच्चयवृत्तौ द्वितीये खार्थानुमान - ७७ : १ "यतश्चैते इति । य एते दर्शनभेदा उपन्यस्तास्ते इति वक्ष्यति । यत एते भिन्नरूपानुपातिनोऽसत्याश्च ततः 'अभिन्नत्वात् सत्यत्वाच्च विधैव वेदे उक्ता । तत्रेति वेदे । यत्तु अविद्यात्मकं ब्रह्म तत्प्रात्युपायमाह - एकपदागमा इति, एकं पदमागमो यस्याः । ततो हि पदात् सा गम्यते । तथाहि वेदे उक्तम्- 'ओमित्येकाक्षरमुद्गीथमुपासीत' । प्रदेशोऽपि इति, योऽयं प्रदेशस्तस्य प्रदेशान्तरेभ्यो भेदविकल्पः - अयमस्मादन्य इति, घट इति पटविलक्षणः । स नास्ति ।" - वृषभदेवटी० । २ * * एतदन्तर्गतः पाठो विशालामवलतीटीकान्तर्गतप्रतीकानुसारेण प्रतीयते, प्रमाणसमुच्चयवृत्तिभोटभाषानुवादानुसारेण तु तत्स्थाने "सांख्यास्तावत् 'सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्' इत्याहुः । तेषु अन्यतमात्” इति पाठः प्रतीयते । " सांख्यानामपीत्यादि । अनुमानं विस्तरेण वेदितव्यमिति स्थिते तत्त्वरूपज्ञानाय परेण 'किमिदमनुमानं नाम' इत्युक्ते आह-सम्बन्धादेकस्मादित्यादि । सम्बन्धः सप्तविध इति अर्थानां सम्बन्धस्य सप्तविधत्वम्, 'खस्वामिभावेन वा ' Jain Education International For Private & Personal Use Only 20 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662