Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 577
________________ .न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ० ३० पं० ४.१६पृ. ३०३ पं० ४. १६. गुणसन्द्रावो । दृश्यतां टिपृ० १६ पं० ३५। पृ० ३०३ पं० २९. पंचपलसइया तुला । प्रायः सर्वासु प्राचीनासु अनुयोगद्वारसूत्रप्रतिषु 'पंचुत्तरपलसतिया तुला' इति पाठ उपलभ्यते । 'पंचपलसइया' इति पाठस्यापि 'पञ्चाधिकपलशतिका' इत्यर्थ उचितो भाति । __ पृ० ३०४ पं० २,१३. यथाहेत्वैकान्तिकत्वत्प्रयुक्तलक्षणवैलक्षण्यविशेषणपक्षविरचनया। दृश्यतां 5 पृ० ३०५ पं० ९ । लक्षणवलक्षण्यं गुरुत्वादि विशेषणं यस्मिन् पक्षे साध्यनिर्देशे स तथा, तद्विरचनयेत्यर्थः । 'सुखं मोहाद् गुरोरन्यत्। पृ० ३०० पं. १] इत्यादिषु मोहादेः गुरुत्वादिना लक्षणवैलक्षण्येन विशेषितत्वादेवमभिहितमत्रेति ध्येयम् । पृ० ३०४ पं० ३,१३. विपर्यसनीयाः। दृश्यतां टिपृ० ११ पं० २०।। पृ० ३०४ पं० ५. प्रवृत्ति । अत्र 'अप्रवृत्ति...' इति शुद्धम् । मुक्त्वापि । दृश्यतां टिपृ० ८४ पं० ४-६ । पृ० ३०४ पं० २७. शरीरेन्द्रिय । दृश्यतां पृ० ३०० पं० २ । 10 पृ० ३०५ पं० ११,१३. मुक्त्वापि । दृश्यतां टिपृ० ८४ पं० ४-६ । पृ० ३०५ पं० २०. विरुद्धाव्यभिचारि...। “अनैकान्तिकः षट्प्रकार- साधारणः १, असाधारणः २, सपक्षकदेशवृत्तिविपक्षव्यापी ३, विपक्षकदेशवृत्तिः सपक्षव्यापी ४, उभयपक्षकदेशवृत्तिः ५, विरुद्धाव्यभिचारी चेति ६ । तत्र साधारणः-शब्दः प्रमेयत्वान्नित्य इति ।..'असाधारणः-श्रावणत्वान्नित्य इति । तद्धि नित्यानित्यपक्षाभ्यां व्यावृत्तत्वाद् नित्यानित्यविनिर्मुक्तस्य चान्यस्यासम्भवात् संशयहेतुः-किंभूतस्यास्य श्रावणत्वमिति ।....विरुद्वाव्यभिचारी यथा-अनित्यः 15 शब्दः कृतकत्वाद् घटवत्, नित्यः शब्दः श्रावणत्वात् शब्दत्ववदिति । उभयोः संशयहेतुत्वाद् द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव ।" -न्यायप्रवेशक. पृ. ३-५ । प्रमाणसमुच्चयेऽपि परार्थानुमानपरिच्छेदे दिमागेन निरूपितोऽयं विरुद्धा वेरुद्वाव्यभिचार्यपि संशयहेतुरुक्तः। स इह नोक्तः, अनुमानविषये तस्यासम्भवात् । न हि सम्भवोऽस्ति कार्यस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य वा विरुद्धतायाः। न चान्योऽव्यभिचारी। तस्मादवस्तुदर्शनबलप्रवृत्तमागमोश्रयमनु. मानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः ।......" इति प्रमाण विनिश्चये, पृ० २२४. Choni medition । प्राय ईश एव पाठो न्यायबिन्दावपि दृश्यते ३।११०-१४ । “स्वलक्षणयुक्तयोर्हेत्वोरेकत्र धर्मिणि विरोधेनोपनि पाते सति विरुद्धाव्यभिचारी।"-हेतुबिन्दु. पृ. ७० ।। १“अधिकृतहेत्वनुमेयविरुद्धार्थसाधको विरुद्धः । विरुद्धं न व्यभिचरतीति विरुद्धाव्यभिचारी । उपन्यस्तः सन् तथाविधार्थानिराकृतेः प्रतियोगिनं न व्यभिचरतीति भावः ।.."अन्ये तु विरुद्धश्चासाव्यभिचारी च विरुद्धाव्यभिचारीति व्याचक्षते । इदं पुनरयुक्तमेव विरोधादनेकान्तवादापत्तेश्च । उदाहरणमाह-यथा अनित्यः शब्दः कृतकत्वाद् घटवदिति वैशेषिकेणोक्ते मीमांसक आह-नित्यः शब्दः श्रावणत्वात् शब्दत्ववत् ।.... एकत्र धर्मिणि कृतकत्व-श्रावणत्वाख्यौ हेतू सन्देहं कुरुतः-किं कृतकत्वाद् घटवदनित्यः आहोखिच्छ्रावणत्वाच्छब्दत्ववन्नित्य इति ।....."किं समस्तयोः सन्देहहेतुत्वम् उत व्यस्तयोः ? यदि समस्तयोः सन्देहहेतुत्वं तदा असाधारणान्न भिद्यते, यतः श्रावणत्वं चासाधारणत्वेनोक्तम् । अथ व्यस्तयोः, तदपि न, व्यस्तयोः सम्यग्घेतुत्वात् । अत्रोच्यते समस्तयोरेव संशयहेतुत्वम् । ननूक्तम् - असाधारणान्न भिद्यते। तन्न, यतो भिद्यत एव, परस्परसापेक्षो विरुद्धाव्यभिचारी चेति । एककोऽसहायोऽसाधारणः । स चानेनांशेनाचार्येण भिन्न उपात्त इति । तस्माददोषः । उक्तं च मूलग्रन्थे-'द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव' । अनुद्भाविते तु तदभाव इति।" इति हरिभद्रसूरिरचितायां न्यायप्रवेशकवृत्तौ पृ. २६-२७ । २ दृश्यतां टिपृ० ८५ पं०४ । प्रमाणविनिश्चयस्य संस्कृतभाषायामिदानीमनुपलब्धेः भोटभाषानुवादमवलम्ब्य इदमस्माभिलिखितमिति ध्येयम् । 1 पार्श्वदेवरचितायां न्यायप्रवेशकवृत्तिपञ्जिकायामस्य व्याख्यानं विलोकनीयम् । 2 "विरुद्धार्थसाधनाद् विरुद्धौ च तावव्यभिचारिणौ चेति विरुद्धाव्यभिचारिणौ अवयवधर्मेण समुदाये निर्देशाद् विरुद्धाव्यभिचारी' इत्युच्यते । अथवा विरुद्धयोरव्यभिचारः, सेऽत्रास्तीति विरुद्धाव्यभिचारी । स विरुद्धकार्थासम्भवात् संशयहेतुः।" इति प्रमाणसमुच्चयस्य जिनेन्द्रबुद्धिरचितायां 'विशालामल. वती'टीकायाम् , पृ० १६८ B-१६९ A. Derge edition. । संस्कृतेऽस्या अनुपलम्भादस्या भोटभाषानुवादः संस्कृते परि खितः । "हेत्वन्तरसाधितस्य विरुद्धं यत् तन्न व्यभिचरतीति विरुद्धाव्यभिचारी । यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात् अव्यभिचारी च स्वसाध्याव्यभिचाराद् विरुद्धाव्यभिचारी ।" इति धर्मोत्तररचितायां न्यायबिन्दुटीकायाम ३।११०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662