Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 573
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य पृ० २४६ पं० १३____ पृ० २४६ पं० १३. पुरुषः सुप्तादि । अत्र सर्वासु हस्तलिखितप्रतिषु 'पुरुष सुप्तादि” इति पाठः । वक्ष्यमाणशैल्यनुसारेण 'पुरुष एव सुप्तादि इत्यपि पाठः स्यादव । पृ० २४८ पं० २. विनिद्रा प्रतिपादनवत् [ पृ० २५८ पं० ४ ] । एतत् सर्वं मूलं 'पृ० २७५ पं० २८२७७ पं० १३' इत्यत्र वक्ष्यमाणेन ग्रन्थेन संवदति । 5 पृ० २४८ पं० ७. यस्मात् परं । “कस्मात् पुनस्तमेव विदित्वाऽतिमृत्युमेति इत्युच्यते । यस्मात् परं पुरुषात् परमुत्कृष्टमपरमन्यद् नास्ति । यस्माद् नाणीयोऽणुतरं न ज्यायो महत्तरं वास्ति । वृक्ष इव स्तब्धो निश्चलो दिवि द्योतनास्मनि स्वे महिनि तिष्ठत्येकोऽद्वितीयः परमात्मा । तेनाद्वितीयेन परमात्मनेदं सर्वं पूर्ण नैरन्तर्येण व्याप्तं पुरुषेण पूर्णेन ।" इति शंकराचार्यकृते श्वेताश्वतरोपनिषद्भाष्ये । - पृ० २४८ पं० १६. जागरितृत्वात् । अत्र 'जागरितत्वात्' इति शुद्धः पाठः । 10 पृ. २४८ पं० १८. पशवश्वा"। "एवम् .. अवध्यादिज्ञानप्राप्तिप्रसङ्गः..."पशवश्चाप्यनिवृत्तकेवलाः' इति वचनात् । .."न..", अवध्यादिज्ञानावरणानामक्षयोपशमादक्षयाच्च 'पशवः' इत्याद्यस्य च शक्तिमात्रोपवर्णनात् ।" - विशेषावश्यकभाष्यकोट्याचार्यवृ० पृ० ४८ । पृ० २५१ पं० १९. रूपस्य-तत्त्वस्य । 'रूपस्य तत्त्वस्य -' इति योजनीयमत्र । पृ० २५२ पं० १८. 'अर्यते' इत्यलक्षणत्वाच्छब्दाभिधेयो ज्ञानज्ञेयो वा नेति विनिद्रावस्थाऽविनिद्रा15वस्था वा स्याद । 'अर्यते इत्यरलक्षणत्वाच्छब्दाभिधेयो ज्ञानज्ञेयो वा विनिद्रावस्थाऽविनिद्रावस्था वा स्यात', इति भा०प्रत्यनुसारी पाठ एवात्र समीचीनः । 'ऋ गतौ' इति धातुतः 'अर्थ'शब्दस्य निष्पत्तः 'अर'लक्षणत्वादित्युक्तमत्रेति ध्येयम् । पृ० २५२ पं० २१. इतश्चेत्यवस्थातः । भा०प्रत्यनुसारी 'इतश्चेत्यवस्थाभ्यः' इत्यपि पाठोऽवचिन्त्यः । पृ० २५३ पं० ५,१७. पितृपुत्रवत् । (पितृत्वपुत्रत्ववत् ? पितृपुत्रत्ववत् ? )। दृश्यतां पृ० २७६ टि० ११ । 20 पृ० २५३ पं० २५. अथवा नावस्था । एवं समासे तु 'अनवस्थात्वात्' इति पाठान्तरेणापि मूले [पृ० २५३ .. पं०६भाव्यम् । दृश्यतां पृ० २५४ टि०१, पृ०२७६ टि०१३। पृ० २५५ पं० १३. प्राप्तावित्थ । प्रतिष्वत्र प्राप्तमित्य इति पाठः । लेखनदोषोऽयम्, दृश्यतां पृ. २२ पं० १६ । पृ० २५७ पं० ७. अतिदिश्यात् । अत्र 'अतिदिश्यते' इति शुद्धः पाठः । पृ० २५८ पं० ३. त्वदभिप्राय एव एवं । त्वदभिप्राय एवं' इत्यपि स्यादन, दृश्यतां पृ० २७७ पं० १२ । स पृ० २५९ पं० १९-२१. मातुओयं...। 'मातुरोजः पितुः शुक्र तत् तदुभयसंसृष्टं कलुषं किल्बिषं तत्प्रथममाहार#. माहार्य जीवो गर्भतया व्युत्क्रामति । सप्ताहं कललं भवति सप्ताहं भवत्यर्बुदम् । अर्बुदाजायते पेशी पेशीतो जायते धनम् ।' इत्यर्थः । दृश्यतां भगवतीसू० ११७६१। सूत्रकृताङ्ग० २।३।५६।। पृ० २६१ पं० १,७, तत्त्वं तावत् । (नन्वेतावत् ? ?), दृश्यतां पृ० २६१ टि० ३ । .-१ अत्र नयचक्रवृत्तिप्रत्यनुसारी 'मातोयं पितुंसुकं' इति पाठः शुद्ध एव भाति । भगवतीसूत्रस्य [१७६१] अहमदाबादे 'लवारनी पोळ' इत्यत्रस्थायां प्रतावपि 'मातुंतेयं पितुंसुकं' इति पाठदर्शनादीदृशस्य पाठस्यापि पुरा प्रचार आसीदिति भाति । "अयं जीवः.."मातापित्रोः संयोगे 'माउओयंति मातुरोजो जनन्या आर्तवं शोणितमित्यर्थः, 'पिउसुक्क'ति पितुः शुक्रम् , इह 'यत्' इति शेषः, 'तंति तदाहारे, तस्य गर्भव्युत्क्रमणस्य प्रथमता तत्प्रथमता तया 'आहारित'ति तैजसकार्मणशरीराभ्यां भुक्त्वा गर्भतया गर्भत्वेन व्युत्क्रामति उत्पद्यते इत्यर्थः । किम्भूतमाहारम् ? 'तदुभयसंसिर्सेति तयोः शुक्रशोणितयोरुभयं तच्च तत् संसृष्टं च मिलितं च तदुभयसंसृष्टं कलुषं मलिनं 'किब्बिसंति कर्बुरमिति । ततः केन क्रमेण शरीर निष्पाद्यते ? इत्याह—'सत्ताह'मित्यादि यावद् ‘भवेत्ति पद्यम् । सप्ताहोरात्राणि यावत् शुक्रशोणितसमुदायमानं कललं भवति । ततः सप्ताहोरात्राणि अर्बुदो भवति, ते एव शुक्रशोणिते किञ्चित् स्त्यानीभूतत्वं प्रतिपद्यते इति । ततोऽपि चार्बुदात पेशी मांसखण्डरूपा भवति । ततश्चानन्तरं सा धनं समचतुरस्र मांसखण्डं भवति ।" इति तन्दुलवैचारिकवृत्तौ पृ० ७। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662