________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [पृ० २३१ पं० ३,१५वृत्तौ षष्ठगाथाव्याख्यायां वादिदेवसूरिभिश्च स्याद्वादरत्नाकरे [पृ० ९० ] उद्धृता व्याख्याता च । अन्येष्वपि न्यायमञ्जरीस्पन्दकारिकाप्रभृतिग्रन्थेषु उद्धतेयम् ।
पृ० २३१ ६० ३,१५. सम्भववद् व्यभिचार"। दृश्यतां टिपृ० ४४ पं० २१-२४ ।
पृ० २३१ पं० २३. भेदप्राधान्येनैव भावीकृतेनार्थोऽपि भिन्नो विशेषणत्वेनोपादातुं योग्यः, । तद्यथा । अत्र 'भेदप्राधान्येनैव । अभावीकृतेर्नार्थोऽपि........ तद्यथा' इति भा०प्रतिस्थपाठ एव समञ्जसः ।
पृ० २३२ पं० २३-२४, २७-२८. ननिवार्थ गतिः] इति । यद्यपि कात्यायनविरचिते पाणिनीयवार्तिके पर्थगतिः' इति पाठः सम्प्रति उपलभ्यते तथापि 'द्यर्थः' इति पाठान्तरस्याप्यत्र पूर्व प्रचार आसीदिति प्रतीयते, “नभिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थ इति" इति विशेषावश्यकभाष्यस्य कोट्टार्यवृत्तौ [पृ० ९५] उल्लेखदर्शनात् । एवं चात्र हस्तलिखितप्रतिस्थः 'ह्यर्थः' इति पाठः समीचीन एव । अतो [गतिः]' इति पूरणमनावश्यकमत्रेति ज्ञेयम् । 10 पृ. २३३ पं० ७. अब्राह्मणवत्, वैधयेण"| अब्राह्मणवचने ब्राह्मणवदित्याशयः, दृश्यतां पृ. २३२
पं० २३,२९ । सत्त्वे साध्ये 'खपुष्पवत्' इत्यस्य वैधर्म्यदृष्टान्तत्वादत्र 'वैधयेण' इत्युक्तमिति ध्येयम् । भेददर्शनाभ्यासेन मूर्तिविभागभावनया च व्यवहारानुपातिभिर्धर्माधर्मः सर्वाखवस्थासु अनाश्रितादिनिधनं ब्रह्मेति प्रतिज्ञायते । न हि कार्यकारणात्मकस्य विभक्ताविभक्तस्यैकस्य ब्रह्मणः सर्वप्रवादेष्वपूर्वापरे प्रवृत्तिनिवृत्तिकोटी परिसंख्यायेते। ने चास्योर्ध्वमधस्तिर्यग् वा मूर्तिपरिवर्तप्रत्यङ्गानां क्वचिदवच्छेदोऽभ्युपगम्यते । तत्तु भिन्नरूपाभिमतानामपि विकाराणां प्रकृत्यन्वयित्वाच्छब्दोपग्राह्यतया शब्दोपग्राहितया च शब्दतत्त्वमित्यभिधीयते । स्थितिप्रवृत्तिनिवृत्तिविभागा हि शब्देनाक्रियन्ते । तच्चाक्षरनिमित्तत्वादक्षरमित्युच्यते । प्रत्यक्चैतन्येऽन्तःसंनिवेशितस्य परसम्बोधनार्था व्यक्तिरभिष्यन्दते।....."विवर्ततेऽर्थभावेन । एकस्य तत्त्वादप्रच्युतस्य भेदानुकारेण असत्यविभक्तान्यरूपोपग्राहिता विवर्तः, स्वप्नविषयप्रतिभासवत् ।.....
प्रक्रिया जगतो यतः। तत एव हि शब्दाख्यादुपसंहृतक्रमाद् ब्रह्मणः सर्वविकारप्रत्यस्तमये संवर्तादनाकृतात् पूर्व विकार(: ग्रन्थिरूपत्वेनाव्यपदेश्याजगदाख्या विकाराः प्रक्रियन्ते । तथा ह्युक्तम्-यः सर्वपरिकल्पानामाभासेऽप्यनवस्थितः । तांगमानु
मानेन बहुधा परिकल्पितः॥१॥ व्यतीतो भेदसंसा भावाभावौ क्रमाक्रमौ । सत्यानृते च विश्वात्मा प्रविवेकात् प्रकाशते ॥२॥ .......प्रकृतित्वमपि प्राप्तान् विकारानाकरोति सः । ऋतुधामेव ग्रीष्मान्ते महतो मेघसंप्लवान् ॥ ४॥ तस्यैकमपि चैतन्यं बहधा प्रविभज्यते । अङ्गारकितमुत्पाते वारिराशेरिवोदकम् ॥५॥....."यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥ १०॥ तथेदममृतं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं विवर्तते ॥ ११ ॥ ब्रह्मेदं शब्दनिर्माण शब्दशक्तिनिबन्धनम् । विवृतं शब्दमात्राभ्यस्तास्वेव प्रविलीयते॥ १२ ॥” इति भर्तृहरिविरचितायां वाक्यपदीयखवृत्तौ । “अनादिनिधन मिति कालप्रदेशकृतपरिच्छेदाभावप्रकाशनाय । ब्रह्मेति नामकथनम् । शब्दतत्त्वमिति खरूपकथनम् । यदक्षरं विवर्ततेऽर्थभावेन इत्यनेन ब्रह्मणः सकाशाच्छब्दार्थयोरभेदकथनम् । प्रक्रिया जगतो यत इति अस्य चिद्रपस्य विवर्तस्य प्रधानं परमाणवो वा अन्यद्वा न निमित्तम् अपि तु ब्रह्मैवेति दर्शयति ।"-इति वाक्यपदीयस्य वृषभदेवरचितटीकायाम् ।
www
Ime
womanwww
mammam
इति । कोटिर्मयादा। [अपूर्वा प्रवृत्तिमर्यादा] यस्यां कार्योत्पादात् पूर्व न किञ्चिदासीत् । अपरा निवृत्तिमर्यादा यस्याः परं नास्ति । ते प्रवृत्तिनिवृत्तिमर्यादे अपूर्वापरे न संख्यायेते । ननु सर्वपरिकल्पातीततत्त्वं तत् कथं शब्दतत्त्वमित्युच्यत इत्याह-विकाराणां प्रकृत्यन्वयित्वादिति । विकारा हि प्रकृतिरूपेणान्विता दृष्टा यथा शकल-कपाला-ऽमत्रभूषणानि । रूपादयश्चैते शब्दरूपानुगता दृश्यन्त इति प्रकृतिभूते ब्रह्मणि शब्दापदेशः ।...."स्वप्नविषयप्रतिभासवदिति यथा स्वप्नावस्थायां शानक्षण एक एव भिन्नजातीयानेकपदार्थाव
भासी जायते ।....."प्रकृतित्वमपीति । य एते प्रधानपरमाण्वादयोऽपि कारणं महादादीनां प्रकृतित्वं प्राप्ताः तानप्यसावेव आकरोति - जनयति । अत एव चैते विकारशब्देनोक्ताः, न तु तैः सांख्यादिभिर्विकारत्वमिष्टं तेषाम् । ऋतुधामा इति, ऋतवो हेमन्तादयः पद तेषां सारभूतं तेजो ऋतुधामा वर्षरात्रयः । संवत्सरो वा ऋतुः तस्य सारभूता वर्षा इति । व्याप्तिः संप्लवः । व्यापकमेघान् जनयति ।
तस्य इति व्यपदेशिवद्भावेन पृथक्त्वापदेशः।" इति वृषभदेवरचितटीकायाम् । : 1 नयचक्र. पृ०.२३९ पं० १। 2 "प्रकृतित्वमनापन्नान् विकारा..." - नयचक्र. पृ० २४१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org